Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.101

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.101.1

श्रुत्वा सेनापतिं प्राप्तं भरतं केकयाधिपः ।
युधाजिद्गार्ग्यसहितं परां प्रीतिमुपागमत् ॥ ७.१०१.१ ॥

闻知统帅婆罗多已到,羯迦耶之主与悦陀吉特、伽尔伽一同感到无上的喜悦。

7.101.2

स निर्ययौ जनौघेन महता केकयाधिपः ।
त्वरमाणो ऽभिचक्राम गन्धर्वान्कामरूपिणः ॥ ७.१०१.२ ॥

羯迦耶之主率大批人众出发,急速向能随意变化形貌的乾闼婆逼近。

7.101.3

भरतश्च युधाजिच्च समेतौ लघुविक्रमैः ।
गन्धर्वनगरं प्राप्तौ सबलौ सपदानुगौ ॥ ७.१०१.३ ॥

婆罗多与悦陀吉特两位勇猛迅捷之士会合,率军队与步兵抵达乾闼婆城。

7.101.4

श्रुत्वा तु भरतं प्राप्तं गन्धर्वास्ते समागताः ।
योद्धुकामा महावीर्या व्यनदन् वै समन्ततः ॥ ७.१०१.४ ॥

闻知婆罗多已到,那些大力的乾闼婆渴望交战,聚集起来,四面呐喊咆哮。

7.101.5

ततः समभवद्युद्धं तुमुलं रोमहर्षणम् ।
सप्तरात्रं महाभीमं न चान्यतरयोर्जयः ॥ ७.१०१.५ ॥

随后爆发了一场喧嚣、令人毛骨悚然的极可怖之战,持续七夜,双方都未能取胜。

7.101.6

खड्गशक्तिधनुर्ग्राहा नद्यः शोणितसंस्रवाः ।
नृकलेवरवाहिन्यः प्रवृत्ताः सर्वतोदिशम् ॥ ७.१०१.६ ॥

河流携带着刀剑、长矛与弓,血流不止,漂浮着人的尸体,向四面八方奔涌。

7.101.7

ततो रामानुजः क्रुद्धः कालस्यास्त्रं सुदारुणम् ।
संवर्तं नाम भरतो गन्धर्वेष्वभ्यचोदयत् ॥ ७.१०१.७ ॥

于是罗摩的幼弟婆罗多震怒,向乾闼婆们发射了时神迦罗最可怕的武器,名为“娑瓦尔塔”。

7.101.8

ते बद्धाः कालपाशेन संवर्तेन विदारिताः ।
क्षणेनाभिहतास्तेन तिस्रः कोट्यो महात्मनाम् ॥ ७.१०१.८ ॥

他们被时神的绳索缚住,又被娑瓦尔塔撕裂,顷刻之间便为之所杀——三千万位大德之人。

7.101.9

तं घातं घोरसङ्काशं न स्मरन्ति दिवौकसः ।
निमेषान्तरमात्रेण तादृशानां महात्मनाम् ॥ ७.१०१.९ ॥

天界的居民不记得那可怕的屠杀,在那一瞬之间,这样的大德之人都被毁灭了。

7.101.10

हतेषु तेषु सर्वेषु भरतः केकयीसुतः ।
निवेशयामास तदा समृद्धे द्वे पुरोत्तमे ॥ ७.१०१.१० ॥

当他们全部被杀之后,凯凯伊之子婆罗多建立了两座繁荣的优良城市。

7.101.11

तक्षं तक्षशिलायां तु पुष्कलं पुष्कलावते ।
गन्धर्वदेशे रुचिरे गान्धारविषये च सः ॥ ७.१०१.११ ॥

他在德叉始罗安置了德叉,在补史迦罗伐蒂安置了补史迦罗,位于美丽的乾闼婆之地和犍陀罗地区。

7.101.12

धनरत्नौघसङ्कीर्णे काननैरुपशोभिते ।
अन्योन्यसङ्घर्षकृते स्पर्धया गुणविस्तरैः ॥ ७.१०१.१२ ॥

那些城市,堆满财富与珍宝,装饰着林园,是在彼此竞争之中,凭借众多美德而建成的。

7.101.13

उभे सुरुचिरप्रख्ये व्यवहारैरकिल्बिषैः ।
उद्यानयानसम्पूर्णे सुविभक्तान्तरापणे ॥ ७.१०१.१३ ॥

两座城市都极其美丽,充满无瑕的贸易,园林与车马众多,内部市集布局井然。

7.101.14

उभे पुरवरे रम्ये विस्तरैरुपशोभिते ।
गृहमुख्यैः सुरुचिरैर्विमानसमवर्णिभिः ॥ ७.१०१.१४ ॥

两座上好的城市令人赏心悦目,以广阔的壮丽装饰,主要的宅第极为美丽,光辉如天上的毗摩那。

7.101.15

शोभिते शोभनीयैश्च देवायतनविस्तरैः ।
तालैस्तमालैस्तिलकैर्वकुलैरुपशोभिते ॥ ७.१०१.१५ ॥

城中以美丽宏大的神庙装饰,又以多罗树、多摩罗树、提拉迦树与婆库罗树点缀。

7.101.16

निवेश्य पञ्चभिर्वर्षैर्भरतो राघवानुजः ।
पुनरायान्महाबाहुरयोध्यां केकयीसुतः ॥ ७.१०१.१६ ॥

在那里安置五年之后,罗怙后裔的幼弟、臂膀雄健的甘伽伊之子婆罗多再次回到阿逾陀。

7.101.17

सो ऽभिवाद्य महात्मानं साक्षाद्धर्ममिवापरम् ।
राघवं भरतः श्रीमान्ब्रह्माणमिव वासवः ॥ ७.१०१.१७ ॥

光辉的婆罗多向心胸宽广的罗怙后裔行礼,他仿佛正是以另一种形态显现的法,正如因陀罗向梵天致敬一般。

7.101.18

शशंस च यथावृत्तं गन्धर्ववधमुत्तमम् ।
निवेशनं च देशस्य श्रुत्वा प्रीतो ऽस्य राघवः ॥ ७.१०१.१८ ॥

他按实际经过讲述了对乾闼婆的卓越诛灭,也叙述了国土的安置;罗怙后裔听闻之后十分欢喜。