蚁垤《罗摩衍那》 · 篇 7.108
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.108.1
ते दूता रामवाक्येन चोदिता लघुविक्रमाः ।
प्रजग्मुर्मधुरां शीघ्रं चक्रुर्वासं न चाध्वनि ॥ ७.१०८.१ ॥
受罗摩之命驱使,那些疾步如飞的使者立即前往摩偷罗,途中不曾停留。
7.108.2
ते तु त्रिभिरहोरात्रैः सम्प्राप्य मधुरामथ ।
शत्रुघ्नाय यथातत्त्वमाचख्युः सर्वमेव तत् ॥ ७.१०८.२ ॥
他们经三昼夜抵达摩偷罗,随后将一切如实告知了设睹卢祇那。
7.108.3
लक्ष्मणस्य परित्यागं प्रतिज्ञां राघवस्य च ।
पुत्रयोरभिषेकं च पौरानुगमनं तथा ॥ ७.१०८.३ ॥
罗什曼那的被舍弃、罗怙之裔的誓言、两个儿子的灌顶,以及城中百姓的随行——
7.108.4
कुशस्य नगरी रम्या विन्ध्यपर्वतरोधसि ।
कुशावतीति नाम्ना सा कृता रामेण धीमता ।
श्रावस्तीति पुरी रम्या श्राविता च लवस्य ह ॥ ७.१०८.४ ॥
拘舍的美丽城市位于频陀山麓,睿智的罗摩为其命名为拘舍婆提;而罗婆的美丽城市被宣告为舍罗婆悉底。
7.108.5
अयोध्यां विजनां कृत्वा राघवो भरतस्तथा ।
स्वर्गस्य गमनोद्योगं कृतवन्तौ महारथौ ॥ ७.१०८.५ ॥
罗怙之裔与婆罗多这两位大车将,使阿逾陀无人居住,并着手准备前往天界。
7.108.6
एवं सर्वं निवेद्याशु शत्रुघ्नाय महात्मने ।
विरेमुस्ते ततो दूतास्त्वर राजेति चाब्रुवन् ॥ ७.१०८.६ ॥
他们迅速将一切禀告给了大德的设睹卢祇那后便停下,说道:“大王,请速行!”
7.108.7
तच्छ्रुत्वा घोरसङ्काशं कुलक्षयमुपस्थितम् ।
प्रकृतीस्तु समानीय काञ्चनं च पुरोधसम् ॥ ७.१०८.७ ॥
闻知灭族的可怖征兆已临近,他便召集臣民和祭司迦añcana。
7.108.8
तेषां सर्वं यथावृत्तमब्रवीद्रघनन्दनः ।
आत्मनश्च विपर्यासं भविष्यं भ्रातृभिः सह ॥ ७.१०८.८ ॥
罗怙之子将所发生的一切原原本本告诉了他们,也说了自己与兄弟们即将到来的变故。
7.108.9
ततः पुत्रद्वयं वीरः सो ऽभ्यषिञ्चन्नराधिपः ।
सुबाहुर्मधुरां लेभे शत्रुघाती च वैदिशम् ॥ ७.१०८.९ ॥
于是那位英勇的人主为他的两个儿子举行了灌顶:苏巴忽得到摩偷罗,舍睹祇那得到毗提舍。
7.108.10
द्विधा कृत्वा तु तां सेनां माधुरीं पुत्रयोर्द्वयोः ।
धनं च युक्तं कृत्वा वै स्थापयामास पार्थिवः ॥ ७.१०८.१० ॥
国王将那支军队分为两部分,作为摩偷罗之军,又妥善分配了财富,于是安立了两个儿子。
7.108.11
सुबाहुं मधुरायां च वैदेशे शत्रुघातिनम् ।
ययौ स्थाप्य तदा ऽयोध्यां रथेनैकेन राघवः ॥ ७.१०८.११ ॥
安立苏巴忽于摩偷罗、舍睹祇那于毗提舍之后,罗怙后裔便独乘一辆车离开了阿逾陀。
7.108.12
स ददर्श महात्मानं ज्वलन्तमिव पावकम् ।
सूक्ष्मक्षौमाम्बरधरं मुनिभिः सार्धमक्षयैः ॥ ७.१०८.१२ ॥
他看见一位大德,光耀如火,身着细滑的丝衣,与不朽的仙人在一起。
7.108.13
सो ऽभिवाद्य ततो रामं प्राञ्जलिः प्रयतेन्द्रियः ।
उवाच वाक्यं धर्मज्ञं धर्ममेवानुचिन्तयन् ॥ ७.१०८.१३ ॥
于是他恭敬地向罗摩致礼,合掌,克制诸根,唯念法义,对通晓法者说出了这些话。
7.108.14
कृत्वाभिषेकं सुतयोर्द्वयो राघवनन्दन ।
तवानुगमने राजन्विद्धि मां कृतनिश्चयम् ॥ ७.१०८.१४ ॥
罗怙族的喜悦者啊!待两子皆已行灌顶之礼,大王,请知我已决意随您而行。
7.108.15
न चान्यदपि वक्तव्यमतो वीर न शासनम् ।
विलोक्यमानमिच्छामि मद्विधेन विशेषतः ॥ ७.१०८.१५ ॥
勇士啊!因此不必再说别的,也不必发命令;我希望能被像我这样的人特别注视。
7.108.16
तस्य तां बुद्धिमक्लीबां विज्ञाय रघुनन्दनः ।
बाढमित्येव शत्रुघ्नं रामो वाक्यमुवाच ह ॥ ७.१०८.१६ ॥
罗摩知其意志坚定,遂对舍睹卢那说:“很好。”于是说出了这些话。
7.108.17
तस्य वाक्यस्य वाक्यान्ते वानराः कामरूपिणः ।
ऋक्षराक्षससङ्घाश्च समापेतुरनेकशः ॥ ७.१०८.१७ ॥
他的话音刚落,能随意变化形貌的猴子、熊群与罗刹群便纷纷大批聚集而来。
7.108.18
सुग्रीवं ते पुरस्कृत्य सर्व एव समागताः ।
तं रामं द्रष्टुमनसः स्वर्गायाभिमुखं स्थितम् ॥ ७.१०८.१८ ॥
他们推举须羯哩婆在前,全体前来,心中想要见到那位面向天界而立的罗摩。
7.108.19
देवपुत्रा ऋषिसुता गन्धर्वाणां सुतास्तथा ।
रामक्षयं विदित्वा ते सर्व एव समागताः ॥ ७.१०८.१९ ॥
诸天之子、仙人之子以及乾闼婆之子,闻知罗摩将逝,全都聚集而来。
7.108.20
ते राममभिवाद्योचुः सर्वे वानरराक्षसाः ।
तवानुगमने राजन्सम्प्राप्ताः कृतनिश्चयाः ॥ ७.१०८.२० ॥
众猴与罗刹向罗摩恭敬行礼后说道:“大王,我们怀着追随您的决心而来。”
7.108.21
यदि राम विनास्माभिर्गच्छेस्त्वं पुरुषोत्तम ।
यमदण्डमिवोद्यम्य त्वया स्म विनिपातिताः ॥ ७.१०८.२१ ॥
“罗摩啊,若您离开我们而去,人中至尊,那就如同您举起阎摩的杖,将我们击倒一般。”
7.108.22
तैरेवमुक्तः काकुत्स्थो बाढमित्यब्रवीत् स्मयन् ॥ ७.१०८.२२ ॥
众人如此说后,名为迦古特沙的罗摩微笑着说:“好吧。”
7.108.23
एतस्मिन्नन्तरे रामं सुग्रीवो ऽपि महाबलः ।
प्रणम्य विधिवद्वीरं विज्ञापयितुमुद्यतः ॥ ७.१०८.२३ ॥
与此同时,大力的须羯里婆也依礼向英雄罗摩行礼,准备陈述自己的心愿。
7.108.24
अभिषिच्याङ्गदं वीरमागतो ऽस्मि नरेश्वर ।
तवानुगमने राजन्विद्धि मां कृतनिश्चयम् ॥ ७.१०८.२४ ॥
“人主啊,我已为英雄安伽陀行了灌顶之礼而来。大王,请知我已决意追随您。”
7.108.25
तस्य तद्वचनं श्रुत्वा रामो रमयतां वरः ।
वानरेन्द्रमथोवाचं मैत्रं तस्यानुचिन्तयन् ॥ ७.१०८.२५ ॥
罗摩——令人喜悦者中的最优者——听罢他的话,念及彼此的友谊,对猴王说道。
7.108.26
सखे शृणुष्व सुग्रीव न त्वया ऽहं विनाकृतः ।
गच्छेयं देवलोकं वा परमं वा पदं महत् ॥ ७.१०८.२६ ॥
朋友苏格利婆,请听:若与你分离,我将不去天界,也不去至高伟大的境界。
7.108.27
बिभीषणमथोवाच राक्षसेन्द्रं महायशाः ।
यावत्प्रजा धरिष्यन्ति तावत्त्वं वै बिभीषण ।
राक्षसेन्द्र महावीर्य लङ्कास्थस्त्वं धरिष्यसि ॥ ७.१०८.२७ ॥
于是名声显赫的罗摩对罗刹王毗భीषana说:毗భीषana啊,只要人民长存,你,威力强大的罗刹王,便将居于楞伽并统治。
7.108.28
यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ।
यावच्च मत्कथा लोके तावद्राज्यं तवास्त्विह ॥ ७.१०८.२८ ॥
只要日月长存,大地永固,世间仍有我的故事,你的王国便将在此延续。
7.108.29
शासितस्त्वं सखित्वेन कार्यं ते मम शासनम् ।
प्रजाः संरक्ष धर्मेण नोत्तरं वक्तुमर्हसि ॥ ७.१०८.२९ ॥
我以朋友之身命令你:你的职责便是遵从我的命令。以法守护民众,不可对此提出异议。
7.108.30
किञ्चान्यद्वक्तुमिच्छामि राक्षसेन्द्र महामते ॥ ७.१०८.३० ॥
啊,智慧高远的罗刹王,我还想再说一件事。
7.108.31
आराधय जगन्नाथमिक्ष्वाकुकुलदैवतम् ।
आराधनीयमनिशं सर्वैर्दैवैः सवासवैः ॥ ७.१०८.३१ ॥
崇拜世界之主、伊克什瓦库家族的守护神。他应当被一切神明与因陀罗不断地供奉。
7.108.32
तथेति प्रतिजग्राह रामवाक्यं विभीषणः ।
राजा राक्षसमुख्यानां राघवाज्ञामनुस्मरन् ॥ ७.१०८.३२ ॥
维毗沙那说:“就这样吧。”他接受了罗摩的话,作为众罗刹之王,他牢记着罗怙之子的命令。
7.108.33
तमेवमुक्त्वा काकुत्स्थो हनूमन्तमथाब्रवीत् ।
जीविते कृतबुद्धिस्त्वं मा प्रतिज्ञां विलोपय ॥ ७.१०८.३३ ॥
对他这样说之后,迦古特斯塔(罗摩)又对哈奴曼说:“你已决意留在人世;不要违背你的誓言。”
7.108.34
मत्कथाः प्रचरिष्यन्ति यावल्लोके हरीश्वर ।
तावद्रमस्व सुप्रीतो मद्वाक्यमनुपालयन् ॥ ७.१०८.३४ ॥
哈里什瓦拉啊!只要我的故事仍在世间流传,你便欢喜地留在此处,遵守我的话吧。
7.108.35
एवमुक्तस्तु हनुमान्राघवेण महात्मना ।
वाक्यं विज्ञापयामास परं हर्षमवाप्य च ॥ ७.१०८.३५ ॥
伟大的罗怙之子这样说后,哈奴曼获得了无上的欢喜,于是陈述了自己的话。
7.108.36
यावत्तव कथा लोके विचरिष्यति पावनी ।
तावत्स्थास्यामि मेदिन्यां तवाज्ञामनुपालयन् ॥ ७.१०८.३६ ॥
只要您那神圣的故事在世间流传,我便将留在大地上,遵守您的命令。
7.108.37
जाम्बवन्तं तथोक्त्वा तु वृद्धं ब्रह्मसुतं तथा ।
मैन्दं च द्विविदं चैव पञ्च जाम्बवता सह ।
यावत्कलिश्च सम्प्राप्तस्तावज्जीवत सर्वदा ॥ ७.१०८.३७ ॥
他如此对年迈的梵天之子Jāmbavān,以及Maindа和Dvivida,还有与Jāmbavān同在的五位说道:直到迦利时代来临,你们将永远长存。
7.108.38
तानेवमुक्त्वा काकुत्स्थः सर्वांस्तानृक्षवानरान् ।
उवाच बाढं गच्छध्वं मया सार्धं यथेप्सितम् ॥ ७.१०८.३८ ॥
他对所有那些熊和猴子如此说后,迦恭斯族的罗摩说道:好吧,你们都随我同行,依你们所愿。