蚁垤《罗摩衍那》 · 篇 7.109
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.109.1
प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः ।
रामः कमलपत्राक्षः पुरोधसमथाब्रवीत् ॥ ७.१०९.१ ॥
黎明时分,宽胸、大名远扬、眼如莲瓣的罗摩对他的祭司说道。
7.109.2
अग्निहोत्रं व्रजत्वग्रे दीप्यमानं सह द्विजैः ।
वाजपेयातपत्रं च शोभमानं महापथे ॥ ७.१०९.२ ॥
愿阿耆尼祭火在前燃烧,与再生者同行;愿伐遮波耶祭的白伞在大道上闪耀。
7.109.3
ततो वसिष्ठस्तेजस्वी सर्वं निरवशेषतः ।
चकार विधिवद्धर्मं महाप्रास्थानिकं विधिम् ॥ ७.१०९.३ ॥
随后光辉的伐私湿陀依照仪轨,毫无遗漏地完成了大离去的全部神圣仪式。
7.109.4
ततः सूक्ष्माम्बरधरो ब्रह्ममावर्तयन्परम् ।
कुशान्गृहीत्वा पाणिभ्यां प्रसज्य प्रययावथ ॥ ७.१०९.४ ॥
随后,他身着细滑的衣袍,反复诵念至高梵,双手持着吉祥草,继续前行。
7.109.5
अव्याहरन्क्वचित्किञ्चिन्निश्चेष्टो निःसुखः पथि ।
निर्जगाम गृहात्तस्माद्दीप्यमान इवांशुमान् ॥ ७.१०९.५ ॥
他一言不发,神情凝滞,路途中毫无喜色,便从那座宫殿走出,光辉如太阳。
7.109.6
रामस्य दक्षिणे पार्श्वे सपद्मा श्रीरपाश्रिता ।
सव्ये तु ह्रीर्महादेवी व्यवसायस्तथाग्रतः ॥ ७.१०९.६ ॥
罗摩右侧,吉祥女神室利持莲而近侍;左侧是大女神羞惭天(Hrī);前方则是决心(Vyavasāya)。
7.109.7
शरा नानाविधाश्चापि धनुरायतमुत्तमम् ।
तथा ऽ ऽयुधानि ते सर्वे ययुः पुरुषविग्रहाः ॥ ७.१०९.७ ॥
种种箭矢,巨大而殊胜的弓,以及所有那些兵器,都化作人形而去。
7.109.8
वेदा ब्राह्मणरूपेण गायत्री सर्वरक्षिणी ।
ओङ्कारो ऽथ वषट्कारः सर्वे राममनुव्रताः ॥ ७.१०९.८ ॥
化作婆罗门形的吠陀、护佑一切的加亚特利、唵字(Oṃkāra),然后是唯沙吒(Vaṣaṭkāra)——他们都追随罗摩。
7.109.9
ऋषयश्च महात्मानः सर्व एव महीसुराः ।
अन्वगच्छन्महात्मानं स्वर्गद्वारमपावृतम् ॥ ७.१०९.९ ॥
伟大的仙人和一切地上的神——婆罗门,跟随那位伟大的灵魂而去,天门敞开着。
7.109.10
तं यान्तमनुगच्छन्ति ह्यन्तःपुरचराः स्त्रियः ।
सवृद्धबालदासीकाः सवर्षवरकिङ्कराः ॥ ७.१०९.१० ॥
他离去时,居住在内宫的妇女们、老人、孩童、婢女和仆役也随他而行。
7.109.11
सान्तःपुरश्च भरतः शत्रुघ्नसहितो ययौ ।
रामं गतिमुपागम्य साग्निहोत्रमनुव्रतः ॥ ७.१०९.११ ॥
婆罗多与内宫眷属,同沙特鲁赫那一起前往;到达罗摩的归宿,携带圣火,随他而行。
7.109.12
ते च सर्वे महात्मानः साग्निहोत्राः समागताः ।
सपुत्रदाराः काकुत्स्थमनुजग्मुर्महामतिम् ॥ ७.१०९.१२ ॥
那些持守圣火的伟大人物,与妻儿一同聚集,追随大智的迦古特特ha(罗摩)而行。
7.109.13
मन्त्रिणो भृत्यवर्गाश्च सपुत्रपशुबान्धवाः ।
सर्वे सहानुगा राममन्वगच्छन्प्रहृष्टवत् ॥ ७.१०९.१३ ॥
大臣与侍从群体,连同子嗣、牲畜与亲族,众人偕同随从,欢欣地跟随罗摩而行。
7.109.14
ततः सर्वाः प्रकृतयो हृष्टपुष्टजनावृताः ।
गच्छन्तमन्वगछंस्तं राघवं गुणरञ्जिताः ॥ ७.१०९.१४ ॥
于是,众百姓被欢喜富足的人群围绕,为他的德行所倾倒,跟随着前行的罗ghava。
7.109.15
ततः सस्त्रीपुमांसस्ते सपक्षिपशुवाहनाः ।
राघवस्यानुगाः सर्वे हृष्टा विगतकल्मषाः ॥ ७.१०९.१५ ॥
于是男女老少连同飞禽、走兽与车驾,罗ghava 的所有随从皆欢欣,洗尽罪垢。
7.109.16
स्नाताः प्रमुदिताः सर्वे हृष्टाः पुष्टाश्च वानराः ।
दृढं किलकिलाशब्दैः सर्वं राममनुव्रतम् ॥ ७.१०९.१६ ॥
众猴沐浴之后,欢欣喜悦,精神饱满,以“吉利吉利”的高声呼喊,虔诚地追随罗摩。
7.109.17
न तत्र कश्चिद्दीनो वा व्रीडितो वा ऽपि दुःखितः ।
हृष्टं समुदितं सर्वं बभूव परमाद्भुतम् ॥ ७.१०९.१७ ॥
那里无人沮丧、羞愧或悲伤;一切都变得欢欣而和合,极为奇妙。
7.109.18
द्रष्टुकामो ऽथ निर्यान्तं रामं जानपदो जनः ।
यः प्राप्तः सो ऽपि दृष्ट्वैव स्वर्गायानुगतो मुदा ॥ ७.१०९.१८ ॥
前来欲见罗摩启程的国中百姓,一见罗摩便欢喜地追随他,前往天界。
7.109.19
ऋक्षवानररक्षांसि जनाश्च पुरवासिनः ।
आगच्छन्परया भक्त्या पृष्ठतः सुसमाहिताः ॥ ७.१०९.१९ ॥
熊、猴、罗刹以及城中百姓,怀着至高的虔诚,心神专一地跟随在后。
7.109.20
यानि भूतानि नगरे ऽप्यन्तर्धानगतानि च ।
राघवं तान्यनुययुः स्वर्गाय समुपस्थितम् ॥ ७.१०९.२० ॥
城中那些隐身消失的众生,也跟随着即将升天的罗values罗瓦(罗怙之后)而去。
7.109.21
यानि पश्यन्ति काकुत्स्थं स्थावराणि चराणि च ।
सर्वाणि रामगमने ह्यनुजग्मुर्हि तान्यपि ॥ ७.१०९.२१ ॥
凡是注视着迦古特斯特(罗摩)的一切静止与运动之物,在罗摩出行时也都随之而去。
7.109.22
नोच्छ्वसत्तदयोध्यायां सुसूक्ष्ममपि दृश्यते ।
तिर्यग्योनिगताश्चापि सर्वे राममनुव्रताः ॥ ७.१०९.२२ ॥
此时阿逾陀中,即使是极细微的呼吸声也听不到。转生于畜生之道的众生,也都是追随罗摩的虔诚信徒。