Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.33

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.33.1

रावणग्रहणं तत्तु वायुग्रहणसन्निभम् ।
ततः पुलस्त्यः शुश्राव कथितं दिवि दैवतैः ॥ ७.३३.१ ॥

罗波那被擒,如同捉住了风。于是补罗斯底耶听到诸天神在天上所说的话。

7.33.2

ततः पुत्रकृतस्नेहात्कम्प्यमानो महाधृतिः ।
माहिष्मतीपतिं द्रष्टुमाजगाम महानृषिः ॥ ७.३३.२ ॥

于是,因对儿子的爱而颤抖的大智者、大毅力的仙人,前来拜见摩希湿摩蒂之主。

7.33.3

स वायुमार्गमास्थाय वायुतुल्यगतिर्द्विजः ।
पुरीं माहिष्मतीं प्राप्तो मनःसम्पातविक्रमः ॥ ७.३३.३ ॥

他走上风之路,以风的速度行进,那位再生者以如意念般的迅捷抵达了摩希湿摩蒂城。

7.33.4

सो ऽमरावतिसङ्काशां हृष्टपुष्टजनाकुलाम् ।
प्रविवेश पुरीं ब्रह्मा इन्द्रस्येवामरावतीम् ॥ ७.३३.४ ॥

那位仙人走进这座城市,它如同阿摩罗缚底,充满欢乐富足的民众,仿佛进入因陀罗的阿摩罗缚底。

7.33.5

पादचारमिवादित्यं निष्पतन्तं सुदुर्दशम् ।
ततस्ते प्रत्यभिज्ञाय अर्जुनाय निवेदयन् ॥ ७.३३.५ ॥

他走出来,如同步行的太阳,令人难以直视。于是他们认出了他,并禀告了阿周那。

7.33.6

पुलस्त्य इति विज्ञाय वचनाद्धैहयाधिपः ।
शिरस्यञ्जलिमाधाय प्रत्युद्गच्छत्तपस्विनम् ॥ ७.३३.६ ॥

听到"这是补罗斯底耶"的话后,海哈耶之主将合掌置于头顶,迎向那位苦行者。

7.33.7

पुरोहितो ऽस्य गृह्यार्घ्यं मधुपर्कं तथैव च ।
पुरस्तात्प्रययौ राज्ञः शक्रस्येव बृहस्पतिः ॥ ७.३३.७ ॥

国王的家庭祭司手持阿尔迦和蜜酒供品,走在国王前面,犹如布利哈斯帕蒂走在帝释天前面。

7.33.8

ततस्तमृषिमायान्तमुद्यन्तमिव भास्करम् ।
अर्जुनो दृश्य सम्भ्रान्तो ववन्देन्द्र इवेश्वरम् ॥ ७.३३.८ ॥

阿周那见那位仙人如升起的太阳般走来,心中惊慌,便向他行礼,犹如因陀罗向自在天致敬。

7.33.9

स तस्य मधुपर्कं गां पाद्यमर्घ्यं निवेद्य च ।
पुलस्त्यमाह राजेन्द्रो हर्षगद्गदया गिरा ॥ ७.३३.९ ॥

他向仙人奉上蜜酒、一头牛、洗足水和阿尔迦,然后这位王中之王以欢喜哽咽的声音对补腊斯底说道。

7.33.10

अद्यैवममरावत्या तुल्या माहिष्मती कृता ।
अद्याहं तु द्विजेन्द्र त्वां यस्मात्पश्यामि दुर्दशम् ॥ ७.३३.१० ॥

今日摩希湿摩蒂城已与天城阿摩罗婆提相等,因为今天我得见您——二度生者中的最尊者,您的面容难得一见。

7.33.11

अद्य मे कुशलं देव अद्य मे कुशलं व्रतम् ।
अद्य मे सफलं जन्म अद्य मे सफलं तपः ।
यस्माद्देवगणैर्वन्द्यौ वन्दे ऽहं चरणौ तव ॥ ७.३३.११ ॥

神啊!今日我得安康,今日我的誓愿得以圆满。今日我的出生有了结果,今日我的苦行有了成果,因为我向您的双足致敬——那是诸天众所崇拜的双足。

7.33.12

इदं राज्यमिमे पुत्रा इमे दारा इमे वयम् ।
ब्रह्मन्किं कुर्मि किं कार्यमाज्ञापयतु नो भवान् ॥ ७.३३.१२ ॥

这王国、这些儿子、这些妻子,还有我们自身,都属于您。婆罗门啊,我们该做什么?该履行什么职责?请您吩咐我们。

7.33.13

तं धर्मे ऽग्निषु पुत्रेषु शिवं पृष्ट्वा च पार्थिवम् ।
पुलस्त्योवाच राजानं हैहयानां तथा ऽर्जुनम् ॥ ७.३३.१३ ॥

浦勒斯提耶问候了国王的法、火祭与诸子,然后对海哈亚之王阿周那说道。

7.33.14

नरेन्द्राम्बुजपत्राक्ष पूर्णचन्द्रनिभानन ।
अतुलं ते बलं येन दशग्रीवस्त्वया जितः ॥ ७.३३.१४ ॥

人中之主啊,眼如莲瓣,面如满月!你的力量无与伦比,因为你凭它战胜了十首王。

7.33.15

भयाद्यस्योपतिष्ठेतां निष्पन्दौ सागरानिलौ ।
सो ऽयं मृधे त्वया बद्धः पौत्रो मे रणदुर्जयः ॥ ७.३३.१५ ॥

我那孙子,令海风因畏惧而静止侍奉的人,战场上不可战胜,却被你在战中所缚。

7.33.16

पुत्रकस्य यशः पीतं नाम विश्रावितं त्वया ।
मद्वाक्याद्याच्यमानो ऽद्य मुञ्च वत्सं दशाननम् ॥ ७.३३.१६ ॥

你夺去了我儿的声名,宣扬了自己的名号。如今应我之请,请释放这位爱子十首王。

7.33.17

पुलस्त्याज्ञां प्रगृह्योचे न किञ्चन वचो ऽर्जुनः ।
मुमोच वै पार्थिवेन्द्रो राक्षसेन्द्रं प्रहृष्टवत् ॥ ७.३३.१७ ॥

阿周那接受了浦勒斯提耶的命令,一言不发,这位王中之王欢喜地释放了罗刹之王。

7.33.18

स तं प्रमुच्य त्रिदशारिमर्जुनः प्रपूज्य दिव्याभरणस्रगम्बरैः ।
अहिंसकं सख्यमुपेत्य साग्निकं प्रणम्य तं ब्रह्मसुतं गृहं ययौ ॥ ७.३३.१८ ॥

阿周那释放了那位诸神之敌,以天界的饰物、花环和衣袍敬重他,在圣火前结下非暴力的友谊,向梵天之子礼拜后,返回了自己的住所。

7.33.19

पुलस्त्येनापि सन्त्यक्तो राक्षसेन्द्रः प्रतापवान् ।
परिष्वक्तः कृतातिथ्यो लज्जमानो विनिर्जितः ॥ ७.३३.१९ ॥

补罗斯提也释放了那位威猛的罗刹王。他被拥抱、受到款待,却因羞愧与战败而离去。

7.33.20

पितामहसुतश्चापि पुलस्त्यो मुनिपुङ्गवः ।
मोचयित्वा दशग्रीवं ब्रह्मलोकं जगाम ह ॥ ७.३३.२० ॥

祖父之子、诸仙中最优秀的补罗斯提,释放了十首王后便前往梵天之界。

7.33.21

एवं स रावणः प्राप्तः कार्तवीर्यात्प्रधर्षणम् ।
पुलस्त्यवचनाच्चापि पुनर्मुक्तो महाबलः ॥ ७.३३.२१ ॥

如此,罗波那曾遭受迦尔塔维尔亚的羞辱;因补罗斯提之言,这位大力者再次获释。

7.33.22

एवं बलिभ्यो बलिनः सन्ति राघवनन्दन ।
नावज्ञा हि परे कार्या य इच्छेत् प्रियमात्मनः ॥ ७.३३.२२ ॥

如此,强者之上还有更强者,罗怙之子的欢喜啊。欲求自身善利者,不应轻慢他人。

7.33.23

ततः स राजा पिशिताशनानां सहस्रबाहोरुपलभ्य मैत्रीम् ।
पुनर्नृपाणां कदनं चकार चचार सर्वां पृथिवीं च दर्पात् ॥ ७.३३.२३ ॥

于是,那位君王得到千臂王的友谊后,再次屠杀诸王,并因傲慢而遍历整个大地。