Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.51

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.51.1

तथा सञ्चोदितः सूतो लक्ष्मणेन महात्मना ।
तद्वाक्यमृषिणा प्रोक्तं व्याहर्तुमुपचक्रमे ॥ ७.५१.१ ॥

受到大德的罗什曼那如此催促,御者开始讲述仙人所说的那番话。

7.51.2

पुरा नाम्ना हि दुर्वासा अत्रेः पुत्रो महामुनिः ।
वसिष्ठस्याश्रमे पुण्ये वार्षिक्यं समुवास ह ॥ ७.५१.२ ॥

往昔,阿特里之子名为杜尔瓦萨的大仙,曾在婆悉瑟吒圣洁的修行处度过雨季。

7.51.3

तमाश्रमं महातेजाः पिता ते सुमहायशाः ।
पुरोहितं महात्मानं दिदृक्षुरगमस्त्वयम् ॥ ७.५१.३ ॥

你那光辉伟大、名声显赫的父亲,因想拜见那位大德的国师,前往那处修行处。

7.51.4

स दृष्ट्वा सूर्यसङ्काशं ज्वलन्तमिव तेजसा ।
उपविष्टं वसिष्ठस्य सव्यपार्श्वे महामुनिम् ॥ ७.५१.४ ॥

他看见那位大仙坐在婆悉瑟吒的左侧,如太阳般光耀,仿佛因光辉而燃烧。

7.51.5

तौ मुनी तापसश्रेष्ठौ विनीतो ह्यभिवादयत् ।
स ताभ्यां पूजितो राजा स्वागतेनासनेन च ॥
पाद्येन फलमूलैश्च उवास मुनिभिः सह ॥ ७.५१.५ ॥

谦逊的国王恭敬地向两位最杰出的苦行者致敬;他们以欢迎之语、座位、洗足之水和果实根茎款待他,国王便与众仙人一同留在那里。

7.51.6

तेषां तत्रोपविष्टानां तास्ताः सुमधुराः कथाः ।
बभूवुः परमर्षीणां मध्यादित्यगते ऽहनि ॥ ७.५१.६ ॥

太阳到达正午时,在座的那些至上仙人之间开始讲述各种极其动听的故事。

7.51.7

ततः कथायां कस्याञ्चित्प्राञ्जलिः प्रग्रहो नृपः ।
उवाच तं महात्मानमत्रेः पुत्रं तपोधनम् ॥ ७.५१.७ ॥

于是在那次谈话中,国王合掌恭敬地对那位阿特里之子、以苦行为财富的大德说道。

7.51.8

भगवन्किं प्रमाणेन मम वंशो भविष्यति ।
किमायुश्च हि मे रामः पुत्राश्चान्ये किमायुषः ॥ ७.५१.८ ॥

尊者,我的家族将延续多久?我的寿命多长,罗摩的寿命多长,其他儿子的寿命又多长?

7.51.9

रामस्य च सुता ये स्युस्तेषामायुः कियद्भवेत् ।
काम्यया भगवन्बूहि वंशस्यास्य गतिं मम ॥ ७.५१.९ ॥

罗摩若有子嗣,他们的寿命将是多少?尊者,出于我的心愿,请告诉我这一家族的命运。

7.51.10

तच्छ्रुत्वा व्याहृतं वाक्यं राज्ञो दशरथस्य च ।
दुर्वासाः सुमहातेजा व्याहर्तुमुपचक्रमे ॥ ७.५१.१० ॥

听罢国王达舍罗陀的这番话,光辉赫赫的仙人杜尔婆娑开始说道。

7.51.11

शृणु राजन्पुरावृत्तं तदा देवासुरे युधि ।
दैत्याः सुरैर्भर्त्स्यमाना भृगुपत्नीं समाश्रिताः ॥ ७.५१.११ ॥

国王,请听古老的传说。当时,在天神与阿修罗的战斗中,达提耶们遭天神威胁,便投奔了婆利古之妻。

7.51.12

तया दत्ताभयास्तत्र न्यवसन्नभयास्तदा ॥ ७.५१.१२ ॥

她许以无畏之诺,他们便在那里无所畏惧地居住下来。

7.51.13

तया परिगृहीतांस्तान्दृष्ट्वा क्रुद्धः सुरेश्वरः ।
चक्रेण शितधारेण भृगुपत्न्याः शिरो ऽहरत् ॥ ७.५१.१३ ॥

众神之主见她庇护他们,大怒,以锋利的轮盘斩下了婆ryu 的妻子(Bhṛgu之妻)的头颅。

7.51.14

ततस्तां निहतां दृष्ट्वा पत्नीं भृगुकुलोद्वहः ।
शशाप सहसा क्रुद्धो विष्णुं रिपुकुलार्दनम् ॥ ७.५१.१४ ॥

此时,婆誐之族的骄傲者见妻子被杀,勃然大怒,立即诅咒了毗湿奴——那摧毁敌族之人。

7.51.15

यस्मादवध्यां मे पत्नीमवधीः क्रोधमूर्च्छितः ।
तस्मात्त्वं मानुषे लोके जनिष्यसि जनार्दन ॥ ७.५१.१५ ॥

因你在愤怒中昏昧,杀害了我不可被杀的妻子,故此,哦,杰那尔达那,你将降生于人间世界。

7.51.16

तत्र पत्नीवियोगं त्वं प्राप्स्यसे बहुवार्षिकम् ॥ ७.५१.१६ ॥

你将在那里与妻子分离,历经多年。

7.51.17

शापाभिहतचेतास्स स्वात्मना भावितो ऽभवत् ॥ ७.५१.१७ ॥

心神因诅咒而受创的他,沉浸于自身之中。

7.51.19

अर्चयामास तं देवं भृगुः शापेन पीडितः ।
तपसाराधितो देवो ह्यब्रवीद्भक्तवत्सलः ।
लोकानां संहितार्थं तु तं शापं ग्राह्यमुक्तवान् ॥ ७.५१.१९ ॥

婆誐因诅咒而苦恼,礼拜那位神。神因他的苦修而欢喜,慈爱虔诚者,开口说为了世界的利益,应当接受那诅咒。

7.51.20

इहागतो हि पुत्रत्वं तव पार्थिवसत्तम ॥ ७.५१.२० ॥

最优秀的君王啊,你已降临此地成为儿子。

7.51.21

राम इत्यभिविख्यातस्त्रिषु लोकेषु मानद ।
तत्फलं प्राप्स्यते चापि भृगुशापकृतं महत् ॥ ७.५१.२१ ॥

赐予尊荣者啊,你将以“罗摩”之名闻名三界,并将获得由婆利古之咒所成就的那大果报。

7.51.22

अयोध्यायाः पती रामो दीर्घकालं भविष्यति ।
सुखिनश्च समृद्धाश्च भविष्यन्त्यस्य ये ऽनुगाः ॥ ७.५१.२२ ॥

罗摩将长久地为阿逾陀之主;追随他的人将快乐而兴盛。

7.51.23

दश वर्षसहस्राणि दश वर्षशतानि च ।
रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ॥ ७.५१.२३ ॥

罗摩治理国家万又千年之后,将前往梵天之界。

7.51.24

समृद्धैश्चाश्वमेधैश्च इष्ट्वा परमदुर्जयः ।
राजवंशांश्च बहुशो बहून्संस्थापयिष्यति ॥ ७.५१.२४ ॥

罗摩极为不可战胜,将举行盛大的马祭,并多次建立众多王族世系。

7.51.25

द्वौ पुत्रौ तु भविष्येते सीतायां राघवस्य तु ।
अन्यत्र न त्वयोध्यायां सत्यमेतन्नसंशयः ॥ ७.५१.२५ ॥

罗怙之裔与悉多将生两子;他们只会在阿逾陀出生,别无他处。此言为真,毫无疑问。

7.51.26

सीतायाश्च ततः पुत्रावभिषेक्ष्यति राघवः ॥ ७.५१.२६ ॥

随后罗伽婆(罗摩)将为悉多的两个儿子举行灌顶。

7.51.27

स सर्वमखिलं राज्ञो वंशस्याह गतागतम् ।
आख्याय सुमहातेजास्तूष्णीमासीन्महामुनिः ॥ ७.५१.२७ ॥

大智者以极大的光辉讲述了王族的全部历史后,便默然而坐。

7.51.28

तूष्णीम्भूते तदा तस्मिन्राजा दशरथो मुनौ ।
अभिवाद्य महात्मानौ पुनरायात्पुरोत्तमम् ॥ ७.५१.२८ ॥

大仙默然之后,十车王向二位大德致敬,然后回到了那座殊胜的城市。

7.51.29

एतद्वचो मया तत्र मुनिना व्याहृतं पुरा ।
श्रुतं हृदि च निक्षिप्तं नान्यथा तद्भविष्यति ॥ ७.५१.२९ ॥

那位大仙先前在那里所说的这番话,我听见了并铭记在心;它不会有别的结果。

7.51.30

एवं गते न सन्तापं कर्तुमर्हसि राघव ।
सीतार्थे राघवार्थे वा दृढो भव नरोत्तम ॥ ७.५१.३० ॥

既然如此,罗伽婆啊,你不应悲伤;无论为悉多还是为罗摩,人中之尊啊,请坚定。

7.51.31

श्रुत्वा तु व्याहृतं वाक्यं सूतस्य परमाद्भुतम् ।
प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ॥ ७.५१.३१ ॥

听闻御者所说的极为奇妙之言,他生出无比的喜悦,说道:“善哉,善哉!”

7.51.32

ततः संवदतोरेवं सूतलक्ष्मणयोः पथि ।
अस्तमर्के गते वासं केशिन्यां तावथोषतुः ॥ ७.५१.३२ ॥

如此,御者与罗什曼那在路上交谈之时,日落之后,二人便在克希尼河岸过夜。