Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 7.60

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.60.1

तयोः संवदतोरेवं रामलक्ष्मणयोस्तदा ।
वासन्तिकी निशा प्राप्ता न शीता न च घर्मदा ॥ ७.६०.१ ॥

罗摩与罗什曼那如此交谈之时,来了一个春天般的夜晚,既不寒冷,也不炎热。

7.60.2

ततः प्रभाते विमले कृतपौर्वाह्णिकक्रियः ।
अभिचक्राम काकुत्स्थो दर्शनं पौरकार्यवित् ॥ ७.६०.२ ॥

随后,在清晨,完成了午前的仪式,熟知民间事务的迦古特什特一罗摩出来接见众人。

7.60.3

ततः सुमन्त्रस्त्वागम्य राघवं वाक्यमब्रवीत् ।
एते प्रतिहता राजन्द्वारि तिष्ठन्ति तापसाः ॥ ७.६०.३ ॥

于是苏曼特罗走近罗怙婆,说道:“大王,这些苦行者被拦在门口站着。”

7.60.4

भार्गवच्यवनं चैव पुरस्कृत्य महर्षयः ।
दर्शनं ते महाराज्ञश्चोदयन्ति कृतत्वराः ।
प्रीयमाणा नरव्याघ्र यमुनातीरवासिनः ॥ ७.६०.४ ॥

以跋尔伽婆和遮耶那为首,居住在亚穆纳河岸的大仙人们满心欢喜、急切地请求觐见您,人中之虎啊。

7.60.5

तस्य तद्वचनं श्रुत्वा रामः प्रोवाच धर्मवित् ।
प्रवेश्यन्तां महाभागा भार्गवप्रमुखा द्विजाः ॥ ७.६०.५ ॥

罗摩听了他的话,这位知法者说道:“请让以跋尔伽婆为首的大福德的再生者进来。”

7.60.6

राज्ञस्त्वाज्ञां पुरस्कृत्य द्वाःस्थो मूर्ध्नि कृताञ्जलिः ।
प्रवेशयामास तदा तापसान्सुदुरासदान् ॥ ७.६०.६ ॥

守门人将国王的命令置于头上,合掌行礼,便引导那些极难接近的苦行者进入。

7.60.7

शतं समधिकं तत्र दीप्यमानं स्वतेजसा ।
प्रविष्टं राजभवनं तापसानां महात्मनाम् ॥ ७.६०.७ ॥

那里,一百多位以自身光辉闪耀的大德苦行者走进了王宫。

7.60.8

ते द्विजाः पूर्णकलशैः सर्वतीर्थाम्बुसत्कृतैः ।
गृहीत्वा फलमूलं च रामस्याभ्याहरन्बहु ॥ ७.६०.८ ॥

那些再生者手持盛满诸圣渡口之水的净瓶,以及果实与根茎,纷纷向罗摩奉上许多。

7.60.9

प्रतिगृह्य तु तत्सर्वं रामः प्रीतिपुरस्कृतः ।
तीर्थोदकानि सर्वाणि फलानि विविधानि च ॥ ७.६०.९ ॥

罗摩怀着敬爱之心接受了这一切:诸圣渡口之水与各种果实。

7.60.10

उवाच च महाबाहुः सर्वानेव महामुनीन् ।
इमान्यासनमुख्यानि यथार्हमुपविश्यताम् ॥ ७.६०.१० ॥

大臂的罗摩对所有大仙说:“这些是上好的座位,请依据各自身份就座。”

7.60.11

रामस्य भाषितं श्रुत्वा सर्व एव महर्षयः ।
बृसीषु रुचिराख्यासु निषेदुः काञ्चनीषु ते ॥ ७.६०.११ ॥

众大仙听闻罗摩之言,便都坐在那些名为“美妙”的金座上。

7.60.12

उपविष्टानृषींस्तत्र दृष्ट्वा परपुरञ्जयः ।
प्रयतः प्राञ्जलिर्भूत्वा राघवो वाक्यमब्रवीत् ॥ ७.६०.१२ ॥

罗摩看见那里端坐的诸仙,这位攻克敌城的罗怙之后,神色端肃,合掌说出了这些话。

7.60.13

किमागमनकार्यं वः किं करोमि समाहितः ।
आज्ञाप्यो ऽहं महर्षीणां सर्वकामकरः सुखम् ॥ ७.६०.१३ ॥

诸位来此的目的是什么?我应当专心做什么?大仙们,请吩咐我;我必欣然满足你们的一切所愿。

7.60.14

इदं राज्यं च सकलं जीवितं च हृदि स्थितम् ।
सर्वमेतद्द्विदार्थं मे सत्यमेतद्ब्रवीमि वः ॥ ७.६०.१४ ॥

整个王国,以及栖于我心中的生命——这一切都为了这两个目的;我如实对你们说。

7.60.15

तस्य तद्वचनं श्रुत्वा साधुकारो महानभूत् ।
ऋषीणामुग्रतपसां यमुनातीरवासिनाम् ॥ ७.६०.१५ ॥

众苦行仙人居于阎牟那河岸,闻其言语,便发出了热烈的赞许之声。

7.60.16

ऊचुश्च ते महात्मानो हर्षेण महता वृताः ।
उपपन्नं नरश्रेष्ठ तवैव भुवि नान्यतः ॥ ७.६०.१६ ॥

那些心胸广大的仙人充满极大的欢喜,说道:人中之尊啊,这在大地上只适合你,别无他人。

7.60.17

बहवः पार्थिवा राजन्नतिक्रान्ता महाबलाः ।
कार्यस्य गौरवं मत्वा प्रतिज्ञां नाभ्यरोचयन् ॥ ७.६०.१७ ॥

大王啊,许多大力的国王考虑到此事的重大,并不赞同那个誓言,便离去了。

7.60.18

त्वया पुनर्ब्राह्मणगौरवादियं कृता प्रतिज्ञा ह्यनवेक्ष्य कारणम् ।
ततश्च कर्ता ह्यसि नात्र संशयो महाभयात्ऺत्रातुमृषींस्त्वमर्हसि ॥ ७.६०.१८ ॥

然而你出于对婆罗门的敬重,未加思量其缘由便立下此誓;因此你必定自己去践行,此事毫无疑问。你理当从大恐惧中守护诸仙人。