蚁垤《罗摩衍那》 · 篇 7.89
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.89.1
श्रुत्वा किम्पुरुषोत्पत्तिं लक्ष्मणो भरतस्तदा ।
आश्चर्यमिति चाब्रूतामुभौ रामं जनेश्वरम् ॥ ७.८९.१ ॥
拉克什曼和婆罗多听到紧那罗的起源后,便对人主罗摩说,这真是令人惊奇。
7.89.2
अथ रामः कथामेतां भूय एव महायशाः ।
कथयामास धर्मात्मा प्रजापतिसुतस्य वै ॥ ७.८९.२ ॥
于是德高望重、心怀正义的罗摩又一次讲述了这位生主之子的故事。
7.89.3
सर्वास्ता विद्रुता दृष्ट्वा किन्नरीर्ऋषिसत्तमः ।
उवाच रूपसम्पन्नां तां स्त्रियं प्रहसन्निव ॥ ७.८९.३ ॥
最优秀的仙人看到所有紧那罗女都逃走了,仿佛含笑地对那位美丽的女子说道。
7.89.4
सोमस्याहं सुदयितः सुतः सुरुचिरानने ।
भजस्व मां वरारोहे भक्त्या स्निग्धेन चक्षुषा ॥ ७.८९.४ ॥
美丽的女子啊,我是月神最心爱的儿子。美丽的腰身啊,请以虔诚而温柔的目光接纳我吧。
7.89.5
तस्य तद्वचनं श्रुत्वा शून्ये स्वजनवर्जिते ।
इला सुरुचिरप्रख्यं प्रत्युवाच महाग्रहम् ॥ ७.८९.५ ॥
伊拉在无亲人相伴的空寂之地听了他的话,便回答那位外貌俊美的大神灵。
7.89.6
अहं कामचरी सौम्य तवास्मि वशवर्तिनी ।
प्रशाधि मां सोमसुत यथेच्छसि तथा कुरु ॥ ७.८९.६ ॥
温和的人啊,我可以随意行走,也听从你的支配。月神之子啊,你想怎样就怎样吩咐我,照你所愿去做吧。
7.89.7
तस्यास्तदद्भुतप्रख्यं श्रुत्वा हर्षमुपागतः ।
स वै कामी सह तया रेमे चन्द्रमसः सुतः ॥ ७.८९.७ ॥
他听到她那奇妙的话语,心中充满喜悦,这位多情的月神之子便与她欢爱。
7.89.8
बुधस्य माधवो मासस्तामिलां रुचिराननाम् ।
गतो रमयतो ऽत्यर्थं क्षणवत्तस्य कामिनः ॥ ७.८९.८ ॥
对于那位与容貌秀丽的达罗(Tārā)欢乐的多情者,毗摩婆月(Mādhava,即布陀之月)仿佛只是一瞬间便过去了。
7.89.9
अथ मासे तु सम्पूर्णे पूर्णेन्दुसदृशाननः ।
प्रजापतिसुतः श्रीमाञ्छयने प्रत्यबुध्यत ॥ ७.८९.९ ॥
月满之后,面如满月的生主之子、光彩照人的他在床榻上醒来。
7.89.10
सो ऽपश्यत्सोमजं तत्र तपन्तं सलिलाशये ।
ऊर्ध्वबाहुं निरालम्बं तं राजा प्रत्यभाषत ॥ ७.८९.१० ॥
他在那里看见月神之子在水池中苦修,双臂高举,无所依靠;国王便对他回应。
7.89.11
भगवन्पर्वतं दुर्गं प्रविष्टो ऽस्मि सहानुगः ।
न च पश्यामि तत्सैन्यं क्व नु ते मामका गताः ॥ ७.८९.११ ॥
尊者啊!我与随从进入了这座险峻的山中,却看不见那支军队。我的部下们究竟去了哪里?
7.89.12
तच्छ्रुत्वा तस्य राजर्षेर्नष्टसञ्ज्ञस्य भाषितम् ।
प्रत्युवाच शुभं वाक्यं सान्त्वयन्परया गिरा ॥ ७.८९.१२ ॥
他听到这位失去神志的王仙所说的话,便以善意的言语回答,并以极温和的声音安慰他。
7.89.13
अश्मवर्षेण महता भृत्यास्ते विनिपातिताः ।
त्वं चाश्रमपदे सुप्तो वातवर्षभयार्दितः ॥ ७.८९.१३ ॥
一场巨大的石雨击倒了你的仆从,而你在修行处沉睡,被风雨之惧所折磨。
7.89.14
समाश्वसिहि भद्रं ते निर्भयो विगतज्वरः ।
फलमूलाशनो वीर निवसेह यथासुखम् ॥ ७.८९.१४ ॥
宽心吧,愿你平安。无所畏惧,无忧无虑,英雄啊,就在此处安然居住,以果实和根茎为食。
7.89.15
स राजा तेन वाक्येन प्रत्याश्वस्तो महामतिः ।
प्रत्युवाच ततो वाक्यं दीनो भृत्यक्षयाद् भृशम् ॥ ७.८९.१५ ॥
那位大智之王听了这番话,心中稍安,却因仆从的覆灭而深感悲痛,于是说出了这些话。
7.89.16
त्यक्ष्याम्यहं स्वकं राज्यं नाहं भृत्यैर्विनाकृतः ।
वर्तयेयं क्षणं ब्रह्मन्समनुज्ञातुमर्हसि ॥ ७.८९.१६ ॥
我将舍弃自己的王国,因为没有仆从,我连一刻也无法存活。婆罗门啊,您应当允许我。
7.89.17
सुतो धर्मपरो ब्रह्मञ्ज्येष्ठो मम महायशाः ।
शशबिन्दुरिति ख्यातः स मे राज्यं प्रपत्स्यते ॥ ७.८९.१७ ॥
婆罗门啊,我的长子笃守正法,声名显赫,人称舍舍频度,他将继承我的王国。
7.89.18
न हि शक्ष्याम्यहं हित्वा भृत्यदारान्सुखान्वितान् ।
प्रतिवक्तुं महातेजः किञ्चिदप्यशुभं वचः ॥ ७.८९.१८ ॥
大光明者啊,抛弃了生活安乐的仆从和妻子,我不能对你说出哪怕一句不吉利的话。
7.89.19
तथा ब्रुवति राजेन्द्रे बुधः परममद्भुतम् ।
सान्त्वपूर्वमथोवाच वासस्त इह रोचताम् ॥ ७.८९.१९ ॥
王中之王如此说时,布陀以安慰之语开口,说出了极为奇妙的话:“愿你在此居住称心。”
7.89.20
न सन्तापस्त्वया कार्यः कार्दमेय महाबल ।
संवत्सरोषितस्येह कारयिष्यामि ते हितम् ॥ ७.८९.२० ॥
卡尔达马之子、大力者啊,你不必忧伤。若你在此居住一年,我将为你行善。
7.89.21
तस्य तद्वचनं श्रुत्वा बुधस्याक्लिष्टकर्मणः ।
वासाय विदधे बुद्धिं यदुक्तं ब्रह्मवादिना ॥ ७.८९.२१ ॥
他听了无倦行者布陀的那些话,便依照梵的宣说者所言,决定在那里居住。
7.89.22
मासं स स्त्री तदा भूत्वा रमयत्यनिशं शुदा ।
मासं पुरुषभावेन धर्मबुद्धिं चकार सः ॥ ७.८९.२२ ॥
一个月间他化为女子,不停地欢娱;一个月间以男子之身,怀着正法之心行事。
7.89.23
ततः सा नवमे मासि इला सोमसुतात्सुतम् ।
जनयामास सुश्रोणी पुरूरवसमूर्जितम् ॥ ७.८९.२३ ॥
此后,纤腰的伊拉在第九个月从月神之子处生下一个强壮的儿子,名为补卢罗婆娑。
7.89.24
जातमात्रं तु सुश्रोणी पितुर्हस्ते न्यवेशयत् ।
बुधस्य समवर्णभमिला पुत्रं महाबलम् ॥ ७.८९.२४ ॥
婴儿刚一出生,纤腰的伊拉便将这强大的儿子交到父亲布陀手中;此子光辉与布陀相同。
7.89.25
बुधस्तु पुरुषीभूतं स वै संवत्सरान्तरम् ।
कथाभी रमयामास धर्मयुक्ताभिरात्मवान् ॥ ७.८९.२५ ॥
自制的布陀以充满法义的故事,使已变为男身的他欢悦了整整一年。