蚁垤《罗摩衍那》 · 篇 7.93
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.93.1
वर्तमाने तथाभूते यज्ञे च परमाद्भुते ।
सशिष्य आजगामाशु वाल्मीकिर्मुनिपुङ्गवः ॥ ७.९३.१ ॥
正当这场极其奇妙的祭祀进行之时,诸仙之首蚁垤仙人(Vālmīki)带着弟子迅速赶到了。
7.93.2
स दृष्ट्वा दिव्यसङ्काशं यज्ञमद्भुतदर्शनम् ।
एकान्ते ऋषिवाटानां चकार उटजाञ्छुभान् ॥ ७.९३.२ ॥
他见那祭祀如天界般,外观奇妙,便在僻静处为诸仙的修行居所建造了精美的茅屋。
7.93.3
शकटांश्च बहून्पूर्णान्फलमूलैश्च शोभनान् ।
वाल्मीकिवाटे रुचिरे स्थापयन्नविदूरतः ॥ ७.९३.३ ॥
他令人在离蚁垤仙人那可爱的修行处不远的地方,安置了许多装满果实与根茎的精美车辆。
7.93.4
आसीत्सुपूजितो राज्ञा मुनिभिश्च महात्मभिः ।
वाल्मीकिः सुमहातेजा न्यवसत्परमात्मवान् ॥ ७.९३.४ ॥
蚁垤仙人光辉卓著,深受国王与诸大德仙人的尊崇,他自持其心,在那里安住下来。
7.93.5
स शिष्यावब्रवीद्धृष्टौ युवां गत्वा समाहितौ ।
कृत्स्नं रामायणं काव्यं गायेथां परया मुदा ॥ ७.९३.५ ॥
他对两位欢喜的弟子说:"你们二人前去,专心致志,怀着无上的喜悦,把整部《罗摩衍那》诗篇吟唱出来。"
7.93.6
ऋषिवाटेषु पुण्येषु ब्राह्मणावसथेषु च ।
रथ्यासु राजमार्गेषु पार्थिवानां गृहेषु च ॥ ७.९३.६ ॥
在神圣的修行居所、婆罗门的住处、街巷与王道之上,也在诸王的宫殿之中(吟唱)。
7.93.7
रामस्य भवनद्वारि यत्र कर्म च कुर्वते ।
ऋत्विजामग्रतश्चैव तत्र गेयं विशेषतः ॥ ७.९३.७ ॥
在罗摩宫门及祭司面前举行仪式之处,应特别进行歌唱。
7.93.8
इमानि च फलान्यत्र स्वादूनि विविधानि च ।
जातानि पर्वताग्रेषु चास्वाद्यास्वाद्य गायताम् ॥ ७.९३.८ ॥
这些生长于山峰之上的甘甜多样的果实,让歌唱者一次又一次地品尝吧。
7.93.9
न यास्यथः श्रमं वत्सौ भक्षयित्वा फलानि वै ।
मूलानि च सुमृष्टानि नगराद्बहिरास्यथः ॥ ७.९३.९ ॥
吃了果实和精心烹制的根茎,你们二人便不会疲惫;你们将留在城外。
7.93.10
यदि शब्दापयेद्रामः श्रवणाय महीपतिः ।
ऋषीणामुपविष्टानां ततो गेयं प्रवर्तताम् ॥ ७.९३.१० ॥
若大地之主罗摩召见他们前来聆听,那么当诸仙人就座之时,便开始歌唱吧。
7.93.11
दिवसे विंशतिः सर्गा गेया मधुरया गिरा ।
प्रमाणैर्बहुभिस्तत्र यथोद्दिष्टा मया पुरा ॥ ७.९३.११ ॥
一日之内应以甜美的声音歌唱二十篇,依照我先前所规定的诸多法度。
7.93.12
लोभश्चापि न कर्तव्यः स्वल्पो ऽपि धनकाङ्क्षया ।
किं धनेनाश्रमस्थानां फलमूलोपजीविना ॥ ७.९३.१२ ॥
不可因贪求财富而生丝毫贪念;以果实和根茎为食的隐修者,要财富何用?
7.93.13
यदि पृच्छेत्स काकुत्स्थो युवां कस्येति दारकौ ।
आवां वाल्मीकिशिष्यौ स्वो ब्रूतमेवं नराधिपम् ॥ ७.९३.१३ ॥
若迦古德陀问:“你们二人是谁家的孩子?”你们应当对那位人主说:“我们二人是跋弥的弟子。”
7.93.14
इमास्तन्त्रीः सुमधुराः स्थानं वा ऽपूर्वदर्शनम् ।
मूर्च्छयित्वा सुमधुरं गायतां विगतज्वरौ ॥ ७.९३.१४ ॥
调好这些甜美的琴弦与前所未见的音位,你们二人无忧,请极其甜美地歌唱。
7.93.15
आदिप्रभृति गेयं स्यान्न चावज्ञाय पार्थिवम् ।
पिता हि सर्वभूतानां राजा भविति धर्मतः ॥ ७.९३.१५ ॥
此歌自始便应歌唱,不可轻慢君王;因为依法,国王乃一切众生之父。
7.93.16
तद्युवां हृष्टमनसौ श्वः प्रभाते समास्थितौ ।
गायेथां मधुरं गेयं तन्त्रीलयसमन्वितम् ॥ ७.९३.१६ ॥
因此,你们二人心怀欢喜,明日清晨端坐,请以琴弦与节拍相配,甜美地歌唱此歌。
7.93.17
वाल्मीकिः परमोदारस्तूष्णीमासीन्महायशाः ॥ ७.९३.१७ ॥
至为宽厚、名声显赫的跋弥默然不语。
7.93.18
सन्दिष्टौ मुनिना तेन तावुभौ मैथिलीसुतौ ।
तथैव करवावेति निर्जग्मतुररिन्दमौ ॥ ७.९३.१८ ॥
二子受那位圣人嘱咐,即毗提之子、降伏敌人者,说“我们便这样做”,遂离去。
7.93.19
तामद्भुतां तौ हृदये कुमारौ निवेश्य वाणीमृषिभाषितां तदा ।
समुत्सुकौ तौ सममूषतुर्निशां यथा ऽश्विनौ भार्गवनीतिसंहिताम् ॥ ७.९३.१९ ॥
两位少年将圣人所说的那番奇妙言语铭记于心,怀着急切之情共度此夜,正如双生神阿什文们守护婆迦婆的政治典籍一般。