奥义书 · Chāndogya 3.1
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Chāndogya 3.1.1
असौ वा आदित्यो देवमधु तस्य द्यौरेव तिरश्चीनवꣳशोऽन्तरिक्षमपूपो मरीचयः पुत्राः ॥ ३.१.१ ॥
那太阳是诸神的蜜。它的天空是横梁,中间的虚空是饼,光线是它的儿子。
Chāndogya 3.1.2
तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्यः । ऋच एव मधुकृत ऋग्वेद एव पुष्पं ता अमृता आपस्ता वा एता ऋचः ॥ ३.१.२ ॥
其向东行进的光线便是它东方的蜜管。诗颂本身便是造蜜的蜜蜂,《梨俱吠陀》本身便是花。它们是不死的水,而这些正是诗颂。
Chāndogya 3.1.3
एतमृग्वेदमभ्यतपꣳस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यꣳरसोऽजायत ॥ ३.१.३ ॥
他们以苦行(tapas)炽热地观照此《梨俱吠陀》。由此被炽热者生出荣耀、光明、生命之力、精力、可食之食物与精华。
Chāndogya 3.1.4
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य रोहितꣳरूपम् ॥ ३.१.४ ॥
它流淌而出,从四面环绕太阳。这便是太阳的红色形态。