Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 6.4

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 6.4.1

यदग्ने रोहितँरूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागादग्नेरग्नित्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ६.४.१ ॥

火的红色形态是热的形态;白色是水的形态;黑色是食物的形态。火之为火的火性离去,只是言语的起始、一种变化、一个名称。只有三种形态;这才是真实。

Chāndogya 6.4.2

यदादित्यस्य रोहितँरूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागादादित्यादादित्यत्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ६.४.२ ॥

太阳的红色形态是热的形态;白色是水的形态;黑色是食物的形态。太阳之为太阳的日性离去,只是言语的起始、一种变化、一个名称。只有三种形态;这才是真实。

Chāndogya 6.4.3

यच्छन्द्रमसो रोहितँरूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागाच्चन्द्राच्चन्द्रत्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ६.४.३ ॥

月亮的红色形态是热的形态;白色是水的形态;黑色是食物的形态。月亮之为月的月性离去,只是言语的起始、一种变化、一个名称。只有三种形态;这才是真实。

Chāndogya 6.4.4

यद्विद्युतो रोहितँरूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागाद्विद्युतो विद्युत्त्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ६.४.४ ॥

闪电的红色形态是热的形态;白色是水的形态;黑色是食物的形态。闪电之为闪电的电性离去,只是言语的起始、一种变化、一个名称。只有三种形态;这才是真实。

Chāndogya 6.4.5

एतद्ध स्म वै तद्विद्वाँस आहुः पूर्वे महाशाला महाश्रोत्रिया न नोऽद्य कश्चनाश्रुतममतमविज्ञातमुदाहरिष्यतीति ह्येभ्यो विदाञ्चक्रुः ॥ ६.४.५ ॥

古代的大家主与大学者知晓此事,说道:“今日无人会为我们宣说未曾听闻、未曾思及、未曾知晓之事”;因此他们得以知晓这些。

Chāndogya 6.4.6

यदु रोहितमिवाभूदिति तेजसस्तद्रूपमिति तद्विदाञ्चक्रुर्यदु शुक्लमिवाभूदित्यपाँरूपमिति तद्विदाञ्चक्रुर्यदु कृष्णमिवाभूदित्यन्नस्य रूपमिति तद्विदाञ्चक्रुः ॥ ६.४.६ ॥

“变得如红色者,乃火(tejas)之形”,他们知道了这一点;“变得如白色者,乃水(apas)之形”,他们知道了这一点;“变得如黑色者,乃食物(anna)之形”,他们知道了这一点。

Chāndogya 6.4.7

यद्वविज्ञातमिवाभूदित्येतासामेव देवतानाँसमास इति तद्विदाञ्चक्रुर्यथा नु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति तन्मे विजानीहीति ॥ ६.४.७ ॥

“变得如未知者,乃此三神之结合”,他们知道了这一点。“亲爱的,这三神抵达人身时,每一者都成为三重(trivṛt);请为我理解此事。”