アタルヴァ・ヴェーダ · スークタ 1.19
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.19.1
मा नो विदन् विव्याधिनो मो अभिव्याधिनो विदन् ।
आराच्छरव्या अस्मद्विषूचीरिन्द्र पातय ॥ १.१९.१ ॥
遠くから射る者も近くから射る者も、われわれに届かぬように。インドラよ、われわれから散らばる矢を落とせ。
1.19.2
विष्वञ्चो अस्मच्छरवः पतन्तु ये अस्ता ये चास्याः ।
दैवीर्मनुष्येषवो ममामित्रान् वि विध्यत ॥ १.१९.२ ॥
われわれから四方へ散る矢よ、落ちよ。放たれたものも、ここから放たれるものも。神々の矢と人の矢よ、わが敵を射抜け。
1.19.3
यो नः स्वो यो अरणः सजात उत निष्ट्यो यो अस्मामभिदासति ।
रुद्रः शरव्ययैतान् ममामित्रान् वि विध्यतु ॥ १.१९.३ ॥
われわれの身内であれ、他人であれ、同胞であれ、他の氏族であれ、われわれを隷属させようとする者であれ——ルドラよ、わが敵どもを矢で射抜け。
1.19.4
यः सपत्नो योऽसपत्नो यश्च द्विषन् छपाति नः ।
देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम् ॥ १.१९.४ ॥
敵である者、敵でない者、憎しみをもってわれわれを呪う者——神々よ、彼らすべてを滅ぼせ。ブラフマン(聖なる言葉)はわが内なる鎧である。