阿闼婆吠陀 · 颂诗(Sūkta) 1.25
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.25.1
यदग्निरापो अदहत्प्रविश्य यत्राकृण्वन् धर्मधृतो नमांसि ।
तत्र त आहुः परमं जनित्रं स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥ १.२५.१ ॥
当阿耆尼入水焚烧之时,在持守法者献上礼敬之处,人们说那是你最高的起源。愿他知晓此事,将你从我们身边驱除,哦,多克曼(热病)。
1.25.2
यद्यर्चिर्यदि वासि शोचिः शकल्येषि यदि वा ते जनित्रम् ।
ह्रूडुर्नामासि हरितस्य देव स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥ १.२५.२ ॥
无论你是火焰还是光辉,无论你化为火星四散,或你的出生另有来处,哦,金黄之神,你的名字叫呼如(Hrūḍu)。愿他知晓此事,将你从我们身边驱除,哦,多克曼。
1.25.3
यदि शोको यदि वाभिशोको यदि वा राज्ञो वरुणस्यासि पुत्रः ।
ह्रूडुर्नामासि हरितस्य देव स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥ १.२५.३ ॥
无论你是灼热,或是猛烈的灼热,或是国王伐楼那之子,哦,金黄之神,你的名字叫呼如。愿他知晓此事,将你从我们身边驱除,哦,多克曼。
1.25.4
नमः शीताय तक्मने नमो रूराय शोचिषे कृणोमि ।
यो अन्येद्युरुभयद्युरभ्येति तृतीयकाय नमो अस्तु तक्मने ॥ १.२५.४ ॥
向寒热致敬,向咆哮灼热者致敬;我如此行。向隔日或两日而来者,向三日热病致敬,愿对热病致敬。