Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 1.7

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.7.1

स्तुवानमग्न आ वह यातुधानं किमीदिनम् ।
त्वं हि देव वन्दितो हन्ता दस्योर्बभूविथ ॥ १.७.१ ॥

阿耆尼啊,把咒术师和狡诈的骗子带到赞颂你的人面前吧;神啊,你受到礼赞,你已成为敌人的杀戮者。

1.7.2

आज्यस्य परमेष्ठिन् जातवेदस्तनूवशिन् ।
अग्ने तौलस्य प्राशान यातुधानान् वि लापय ॥ १.७.२ ॥

清酥油的至上者啊,全知的阿耆尼,控制身体者啊:吞食咒术师,使他们哀号吧。

1.7.3

वि लपन्तु यातुधाना अत्त्रिणो ये किमीदिनः ।
अथेदमग्ने नो हविरिन्द्रश्च प्रति हर्यतम् ॥ १.७.३ ॥

愿咒术师、食人者和狡诈者哀号;然后,阿耆尼啊,愿因陀罗也接受并欢喜我们的这份献礼。

1.7.4

अग्निः पूर्व आ रभतां प्रेन्द्रो नुदतु बाहुमान् ।
ब्रवीतु सर्वो यातुमान् अयमस्मीत्येत्य ॥ १.७.४ ॥

先让阿耆尼捉住他;让臂膀有力的因陀罗驱逐他;让每一个咒术师走来说:「我在这里。」

1.7.5

पश्याम ते वीर्यं जातवेदः प्र णो ब्रूहि यातुधानान् नृचक्षः ।
त्वया सर्वे परितप्ताः पुरस्तात्त आ यन्तु प्रब्रुवाणा उपेदम् ॥ १.७.५ ॥

全知者啊,愿我们见到你的威力;观察众人者啊,请告诉我们关于咒术师的事;愿所有被你烧焦的人从前方走来,在此诉说。

1.7.6

आ रभस्व जातवेदोऽस्माकार्थाय जज्ञिषे ।
दूतो नो अग्ने भूत्वा यातुधानान् वि लापय ॥ १.७.६ ॥

全知者啊,开始吧;你是为我们的目的而生的。阿耆尼啊,你作为我们的使者,使咒术师哀号吧。

1.7.7

त्वमग्ने यातुधानान् उपबद्धामिहा वह ।
अथैषामिन्द्रो वज्रेणापि शीर्षाणि वृश्चतु ॥ १.७.७ ॥

阿耆尼啊,把被缚的夜叉(yātudhāna)带到这里来。然后愿因陀罗以金刚杵斩断他们的头颅。