Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 10.9

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

10.9.1

अघायतामपि नह्या मुखानि सपत्नेषु वज्रमर्पयैतम् ।
इन्द्रेण दत्ता प्रथमा शतौदना भ्रातृव्यघ्नी यजमानस्य गातुः ॥ १०.९.१ ॥

愿心怀恶意者的嘴也不得张开;向敌人投掷此金刚杵。因陀罗最初所赐的百施(Śatau-danā)是施主道路上击杀敌人的力量。

10.9.2

वेदिष्टे चर्म भवतु बर्हिर्लोमानि यानि ते ।
एषा त्वा रशनाग्रभीद्ग्रावा त्वैषोऽधि नृत्यतु ॥ १०.९.२ ॥

愿祭坛成为你的皮,圣草成为你的毛。此绳已缚住你;愿此压榨石在你身上舞动。

10.9.3

बालास्ते प्रोक्षणीः सन्तु जिह्वा सं मार्ष्टु अघ्न्ये ।
शुद्धा त्वं यज्ञिया भूत्वा दिवं प्रेहि शतौदने ॥ १०.९.३ ॥

愿你的毛成为洒水器;无害者啊,愿你的舌头将其彻底擦净。百施啊,你既已洁净、适于祭祀,便升往天界吧。

10.9.4

यः शतौदनां पचति कामप्रेण स कल्पते ।
प्रीता ह्यस्य ऋत्विजः सर्वे यन्ति यथायथम् ॥ १०.९.४ ॥

若有所求而烹煮百施者,便能配得此供;他的所有祭司都欢喜地依序前来。

10.9.5

स स्वर्गमा रोहति यत्रादस्त्रिदिवं दिवः ।
अपूपनाभिं कृत्वा यो ददाति शतौदनाम् ॥ १०.९.५ ॥

以饼为中心而施予百施者,便升往那天空的三重天界。

10.9.6

स तांल्लोकान्त्समाप्नोति ये दिव्या ये च पार्थिवाः ।
हिरण्यज्योतिषं कृत्वा यो ददाति शतौदनाम् ॥ १०.९.६ ॥

以金为光而施予百施者,便能获得天上与人间的一切世界。

10.9.7

ये ते देवि शमितारः पक्तारो ये च ते जनाः ।
ते त्वा सर्वे गोप्स्यन्ति मैभ्यो भैषीः शतौदने ॥ १०.९.७ ॥

女神啊,那些宰杀你的人、烹煮你的人,以及你的所有族人,都会保护你。不要怕他们,啊,舍陀娜那。

10.9.8

वसवस्त्वा दक्षिणत उत्तरान् मरुतस्त्वा ।
आदित्याः पश्चाद्गोप्स्यन्ति साग्निष्टोममति द्रव ॥ १०.९.८ ॥

诸婆苏从南方保护你,摩录多从北方保护你;阿底提亚们从后方保护你。与阿耆尼湿多摩祭一起快跑。

10.9.9

देवाः पितरो मनुष्या गन्धर्वाप्सरसश्च ये ।
ते त्वा सर्वे गोप्स्यन्ति सातिरात्रमति द्रव ॥ १०.९.९ ॥

诸神、祖先、人类、乾闼婆与阿普萨拉斯,他们都会保护你。与阿提罗多罗祭一起快跑。

10.9.10

अन्तरिक्षं दिवं भूमिमादित्यान् मरुतो दिशः ।
लोकान्त्स सर्वान् आप्नोति यो ददाति शतौदनाम् ॥ १०.९.१० ॥

施予舍陀娜者,得到所有世界:中界、天界、大地、阿底提亚们、摩录多和诸方。

10.9.11

घृतं प्रोक्षन्ती सुभगा देवी देवान् गमिष्यति ।
पक्तारमघ्न्ये मा हिंसीर्दिवं प्रेहि शतौदने ॥ १०.९.११ ॥

吉祥的女神洒着酥油,将前往诸神那里。啊,不可伤害者,不要伤害烹煮者。啊,舍陀娜,前往天界吧。

10.9.12

ये देवा दिविषदो अन्तरिक्षसदश्च ये ये चेमे भूम्यामधि ।
तेभ्यस्त्वं धुक्ष्व सर्वदा क्षीरं सर्पिरथो मधु ॥ १०.९.१२ ॥

为那些坐于天界、坐于中界、以及在此地上的诸神,你要永远挤出奶、酥油和蜂蜜。

10.9.13

यत्ते शिरो यत्ते मुखं यौ कर्णौ ये च ते हनू ।
आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥ १०.९.१३ ॥

你的头、你的口、你的两耳与两颚——愿为施主挤出凝乳、乳汁、酥油与蜂蜜。

10.9.14

यौ त ओष्ठौ ये नासिके ये शृङ्गे ये च तेऽक्षिणी ।
आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥ १०.९.१४ ॥

你的两唇、两鼻孔、角,以及你的双眼——愿为施主挤出凝乳、乳汁、酥油与蜂蜜。

10.9.15

यत्ते क्लोमा यद्धृदयं पुरीतत्सहकण्ठिका ।
आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥ १०.९.१५ ॥

你的肺、心,以及 purītat 与 saha-kaṇṭhikā——愿为施主挤出凝乳、乳汁、酥油与蜂蜜。

10.9.16

यत्ते यकृद्ये मतस्ने यदान्त्रं याश्च ते गुदाः ।
आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥ १०.९.१६ ॥

你的肝、肾、肠,以及你的下肠道——愿为施主挤出凝乳、乳汁、酥油与蜂蜜。

10.9.17

यस्ते प्लाशिर्यो वनिष्ठुर्यौ कुक्षी यच्च चर्म ते ।
आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥ १०.९.१७ ॥

你的脾、vaniṣṭhu、两侧腹以及你的皮——愿为施主挤出凝乳、乳汁、酥油与蜂蜜。

10.9.18

यत्ते मज्जा यदस्थि यन् मंसं यच्च लोहितम् ।
आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥ १०.९.१८ ॥

你的骨髓、骨头、肌肉与血——愿为施主挤出凝乳、乳汁、酥油与蜂蜜。

10.9.19

यौ ते बाहू ये दोषणी यावंसौ या च ते ककुत् ।
आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥ १०.९.१९ ॥

愿你的双臂、双前臂、双肩与你的肩峰,为施者挤出凝乳、牛奶、酥油与蜂蜜。

10.9.20

यास्ते ग्रीवा ये स्कन्धा याः पृष्टीर्याश्च पर्शवः ।
आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥ १०.९.२० ॥

愿你的颈项、双肩、脊背与肋骨,为施者挤出凝乳、牛奶、酥油与蜂蜜。

10.9.21

यौ त उरू अष्ठीवन्तौ ये श्रोणी या च ते भसत् ।
आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥ १०.९.२१ ॥

愿你的双股、双膝、双胯与你的臀部,为施者挤出凝乳、牛奶、酥油与蜂蜜。

10.9.22

यत्ते पुच्छं ये ते बाला यदूधो ये च ते स्तनाः ।
आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥ १०.९.२२ ॥

愿你的尾巴、毛发、乳房与乳头,为施者挤出凝乳、牛奶、酥油与蜂蜜。

10.9.23

यास्ते जङ्घाः याः कुष्ठिका ऋच्छरा ये च ते शफाः ।
आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥ १०.९.२३ ॥

愿你的胫、关节 kuṣṭhikā 与 ṛcchara,以及你的蹄,为施者挤出凝乳、牛奶、酥油与蜂蜜。

10.9.24

यत्ते चर्म शतौदने यानि लोमान्यघ्न्ये ।
आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥ १०.९.२४ ॥

噢,百施者啊,噢,不可害者!愿你的皮与毛,为施者挤出凝乳、牛奶、酥油与蜂蜜。

10.9.25

क्रोडौ ते स्तां पुरोडाशावाज्येनाभिघारितौ ।
तौ पक्षौ देवि कृत्वा सा पक्तारं दिवं वह ॥ १०.९.२५ ॥

女神啊,愿你的两侧成为浸透酥油的净饭饼。以此二者为翅,她将烹煮者送往天界。

10.9.26

उलूखले मुसले यश्च चर्मणि यो वा शूर्पे तण्डुलः कणः ।
यं वा वातो मातरिश्वा पवमानो ममाथाग्निष्टद्धोता सुहुतं कृणोतु ॥ १०.९.२६ ॥

臼中、杵上、皮上,或簸箕中的任何一粒米或碎屑,凡风、摩多利什文、净风所吹散者,愿火神、祭司使其成为善献之供物。

10.9.27

अपो देवीर्मधुमतीर्घृतश्चुतो ब्रह्मणां हस्तेषु प्रपृथक्सादयामि ।
यत्काम इदमभिषिञ्चामि वोऽहं तन् मे सर्वं सं पद्यतां वयं स्याम पतयो रयीणाम् ॥ १०.९.२७ ॥

神圣的水啊,甘美而滴落酥油的,我将你们分别安置于婆罗门之手。凡我以此洒于你们之上所求之愿,愿其全都为我成就;愿我们成为财富的主人。