Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 11.12

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

11.12.1

उत्तिष्ठत सं नह्यध्वमुदाराः केतुभिः सह ।
सर्पा इतरजना रक्षांस्यमित्रान् अनु धावत ॥ ११.१२.१ ॥

起来吧,高贵的战士们,与你们的旗帜一同披甲。追赶蛇、其他人、罗刹和敌人。

11.12.2

ईशां वो वेद राज्यं त्रिषन्धे अरुणैः केतुभिः सह ।
ये अन्तरिक्षे ये दिवि पृथिव्यां ये च मानवाः ।
त्रिषन्धेस्ते चेतसि दुर्णामान उपासताम् ॥ ११.१२.२ ॥

三束啊,我知你的主权与王国,与赤色旗帜同在。凡在虚空、天上、地上的,以及人类,愿他们在三束的心中以恶名侍奉他。

11.12.3

अयोमुखाः सूचीमुखा अथो विकङ्कतीमुखाः ।
क्रव्यादो वातरंहस आ सजन्त्वमित्रान् वज्रेण त्रिषन्धिना ॥ ११.१२.३ ॥

铁面者、针面者,以及毗康卡提面者,食肉者,疾如风者,愿他们以三束之金刚攀附于敌人。

11.12.4

अन्तर्धेहि जातवेद आदित्य कुणपं बहु ।
त्रिषन्धेरियं सेना सुहितास्तु मे वशे ॥ ११.१२.४ ॥

哦,遍知之火,哦,阿底提耶,将许多尸体置于其中。愿三束之此军在我的掌控之下稳固安定。

11.12.5

उत्तिष्ठ त्वं देवजनार्बुदे सेनया सह ।
अयं बलिर्व आहुतस्त्रिषन्धेराहुतिः प्रिया ॥ ११.१२.५ ॥

起来吧,天神之民阿尔布达,与军队同起。此供物为你们而献;三束之献祭甚为可爱。

11.12.6

शितिपदी सं द्यतु शरव्येयं चतुष्पदी ।
कृत्येऽमित्रेभ्यो भव त्रिषन्धेः सह सेनया ॥ ११.१२.६ ॥

愿此白足、如箭、四足者一同刺穿。哦,克尔提亚,与三束之军同心,去对抗敌人。

11.12.7

धूमाक्षी सं पततु कृधुकर्णी च क्रोशतु ।
त्रिषन्धेः सेनया जिते अरुणाः सन्तु केतवः ॥ ११.१२.७ ॥

愿烟眼者扑下,大耳者高声呼喊。以Triṣandhi之军得胜时,愿旗帜呈红色。

11.12.8

अवायन्तां पक्षिणो ये वयांस्यन्तरिक्षे दिवि ये चरन्ति ।
श्वापदो मक्षिकाः सं रभन्तामामादो गृध्राः कुणपे रदन्ताम् ॥ ११.१२.८ ॥

愿在虚空与天空中飞翔的鸟儿远去。愿猛兽与苍蝇一同扑来;愿食肉的秃鹫撕裂尸体。

11.12.9

यामिन्द्रेण संधां समधत्था ब्रह्मणा च बृहस्पते ।
तयाहमिन्द्रसंधया सर्वान् देवान् इह हुव इतो जयत मामुतः ॥ ११.१२.९ ॥

哦,Bṛhaspati,以你与因陀罗及梵咒所结的那种约束,我以此因陀罗之约在此召唤诸神。从此处取胜;从彼处胜过我。

11.12.10

बृहस्पतिराङ्गिरस ऋषयो ब्रह्मसंशिताः ।
असुरक्षयणं वधं त्रिषन्धिं दिव्याश्रयन् ॥ ११.१२.१० ॥

Bṛhaspati与Āṅgirasa诸仙,以梵咒磨砺,于天上依托Triṣandhi,以毁灭与诛杀阿修罗。

11.12.11

येनासौ गुप्त आदित्य उभाविन्द्रश्च तिष्ठतः ।
त्रिषन्धिं देवा अभजन्तौजसे च बलाय च ॥ ११.१२.११ ॥

由此,那位阿ditya得到保护,因陀罗与他二者皆得安立。诸神为了精力与力量而获得了Triṣandhi。

11.12.12

सर्वांल्लोकान्त्समजयन् देवा आहुत्यानया ।
बृहस्पतिराङ्गिरसो वज्रं यमसिञ्चतासुरक्षयणं वधम् ॥ ११.१२.१२ ॥

诸神以此供奉征服了一切世界。Āṅgirasa之子Bṛhaspati所灌注的金刚杵,乃是毁灭与诛杀阿修罗的工具。

11.12.13

बृहस्पतिराङ्गिरसो वज्रं यमसिञ्चतासुरक्षयणं वधम् ।
तेनाहममूं सेनां नि लिम्पामि बृहस्पतेऽमित्रान् हन्म्योजसा ॥ ११.१२.१३ ॥

安吉罗之子布里哈斯帕蒂倾注了摧毁阿修罗的金刚杵与杀戮之器。我以此遮蔽这支军队;啊,布里哈斯帕蒂,我以力量击杀敌人。

11.12.14

सर्वे देवा अत्यायन्ति ये अश्नन्ति वषट्कृतम् ।
इमां जुषध्वमाहुतिमितो जयत मामुतः ॥ ११.१२.१४ ॥

愿所有食用以“瓦沙特”所供奉之物的诸神前来。请接受这份祭献;从此处与彼处,使我获胜。

11.12.15

सर्वे देवा अत्यायन्तु त्रिषन्धेराहुतिः प्रिया ।
संधां महतीं रक्षत ययाग्रे असुरा जिताः ॥ ११.१२.१५ ॥

愿诸神全都前来。三联之祭献令人喜爱。请守护那份伟大的盟约,凭借它,阿修罗曾被征服。

11.12.16

वायुरमित्राणामिष्वग्राण्याञ्चतु ।
इन्द्र एषां बाहून् प्रति भनक्तु मा शकन् प्रतिधामिषुम् ।
आदित्य एषामस्त्रं वि नाशयतु चन्द्रमा युतामगतस्य पन्थाम् ॥ ११.१२.१६ ॥

愿风神使敌人箭头弯折。愿因陀罗折断他们的手臂,使他们不能发箭。愿阿提亚毁灭他们的兵器;愿月亮阻断那离散而未至者的道路。

11.12.17

यदि प्रेयुर्देवपुरा ब्रह्म वर्माणि चक्रिरे ।
तनूपानं परिपाणं कृण्वाना यदुपोचिरे सर्वं तदरसं कृधि ॥ ११.१२.१७ ॥

若他们以诸神为先锋而进发,以梵为甲胄,以所作的身体护卫与全面护佑而裹身,请使这一切皆无力量。

11.12.18

क्रव्यादानुवर्तयन् मृत्युना च पुरोहितम् ।
त्रिषन्धे प्रेहि सेनया जयामित्रान् प्र पद्यस्व ॥ ११.१२.१८ ॥

使食肉者与家祭司一同被死亡追随。啊,三联,率军前进;征服敌人;向他们冲击。

11.12.19

त्रिषन्धे तमसा त्वममित्रान् परि वारय ।
पृषदाज्यप्रणुत्तानां मामीषां मोचि कश्चन ॥ ११.१२.१९ ॥

啊,特利山底,以黑暗包围敌人!被洒落之酥油驱逐者,愿无一人从他们中逃脱。

11.12.20

शितिपदी सं पतत्वमित्राणाममूः सिचः ।
मुह्यन्त्वद्यामूः सेना अमित्राणां न्यर्बुदे ॥ ११.१२.२० ॥

愿黑脚之夜降临于敌人的那些洪流之上。今日愿敌人的那些军队陷入迷惘,啊,尼尔布达。

11.12.21

मूढा अमित्रा न्यर्बुदे जह्येषां वरंवरम् ।
अनया जहि सेनया ॥ ११.१२.२१ ॥

啊,尼尔布达,愿敌人陷入迷惘!逐一击杀他们中最优秀者。以此军队击杀他们。

11.12.22

यश्च कवची यश्चाकवचोऽमित्रो यश्चाज्मनि ।
ज्यापाशैः कवचपाशैरज्मनाभिहतः शयाम् ॥ ११.१२.२२ ॥

那身披甲胄的敌人,那未披甲胄的敌人,以及那在战场上的敌人,愿他被弓弦之套与甲胄之套在战场上击倒而躺卧。

11.12.23

ये वर्मिणो येऽवर्माणो अमित्रा ये च वर्मिणः ।
सर्वांस्तामर्बुदे हतां छ्वानोऽदन्तु भूम्याम् ॥ ११.१२.२३ ॥

所有披甲的敌人、未披甲的敌人,以及披甲的敌人——啊,阿尔布达,将他们全部杀死后,愿狗在地上吞食他们。

11.12.24

ये रथिनो ये अरथा असादा ये च सादिनः ।
सर्वान् अदन्तु तान् हतान् गृध्राः श्येनाः पतत्रिणः ॥ ११.१२.२४ ॥

所有乘车的敌人,无车的敌人,无马的敌人,以及骑马的敌人——愿他们被杀之后,秃鹫、鹰隼和飞禽吞食他们。

11.12.25

सहस्रकुणपा शेतामामित्री सेना समरे वधानाम् ।
विविद्धा ककजाकृता ॥ ११.१२.२५ ॥

愿敌军与千具尸体同卧于战场的阵亡者之中,被刺穿,充满寒鸦的哀鸣。

11.12.26

मर्माविधं रोरुवतं सुपर्णैरदन्तु दुश्चितं मृदितं शयानम् ।
य इमां प्रतीचीमाहुतिममित्रो नो युयुत्सति ॥ ११.१२.२६ ॥

愿雕鹰吞食那些要害被刺穿、哀号、被碾碎、倒卧于厄运中的人,以及那想要违逆此逆转祭品与我们交战的敌人。

11.12.27

यां देवा अनुतिष्ठन्ति यस्या नास्ति विराधनम् ।
तयेन्द्रो हन्तु वृत्रहा वज्रेण त्रिषन्धिना ॥ ११.१२.२७ ॥

以诸神所追随、从无败绩的那物,愿杀灭弗栗多的因陀罗以金刚杵与三结之力击打。