Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 11.2

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

11.2.1

भवाशर्वौ मृडतं माभि यातं भूतपती पशुपती नमो वाम् ।
प्रतिहितामायतां मा वि स्राष्टं मा नो हिंसिष्टं द्विपदो मा चतुष्पदः ॥ ११.२.१ ॥

啊,薄婆与设嚩,请慈悲,不要来攻击我们!众生之主,牲畜之主,向你们二位致敬。愿所安立者安立不散;愿它不伤害我们的两足与四足众生。

11.2.2

शुने क्रोष्ट्रे मा शरीराणि कर्तमलिक्लवेभ्यो गृध्रेभ्यो ये च कृष्णा अविष्यवः ।
मक्षिकास्ते पशुपते वयांसि ते विघसे मा विदन्त ॥ ११.२.२ ॥

不要把我们的身体给狗和豺,也不要给阿利克利婆、秃鹫以及渴望血肉的黑色之物。众牲之主啊,愿苍蝇与你的鸟儿找不到你的残余。

11.2.3

क्रन्दाय ते प्राणाय याश्च ते भव रोपयः ।
नमस्ते रुद्र कृण्मः सहस्राक्षायामर्त्य ॥ ११.२.३ ॥

啊薄婆,向你的呼喊、你的气息以及你所有的创伤致敬。啊楼陀罗,我们向你致敬;啊千眼者,啊不死者。

11.2.4

पुरस्तात्ते नमः कृण्म उत्तरादधरादुत ।
अभीवर्गाद्दिवस्पर्यन्तरिक्षाय ते नमः ॥ ११.२.४ ॥

从东方我们向你致敬;从北方和南方也是;从近旁的围绕处,从天空之外,向你致敬,为了那中间的虚空。

11.2.5

मुखाय ते पशुपते यानि चक्षूंषि ते भव ।
त्वचे रूपाय संदृशे प्रतीचीनाय ते नमः ॥ ११.२.५ ॥

众牲之主啊,向你的面容致敬;啊薄婆,向你的眼睛致敬。向皮肤、形貌、视见,向面向西方的你,致敬。

11.2.6

अङ्गेभ्यस्त उदराय जिह्वाया आस्याय ते ।
दद्भ्यो गन्धाय ते नमः ॥ ११.२.६ ॥

向你的肢体致敬;向你的腹、舌、口致敬。向你的牙齿、香气致敬。

11.2.7

अस्त्रा नीलशिखण्डेन सहस्राक्षेण वाजिना ।
रुद्रेणार्धकघातिना तेन मा समरामहि ॥ ११.२.७ ॥

以武器,以深蓝色的羽冠,以千目,以迅疾者,以击杀阿尔达卡的鲁陀罗,愿我们与他相会。

11.2.8

स नो भवः परि वृणक्तु विश्वत आप इवाग्निः परि वृणक्तु नो भवः ।
मा नोऽभि मांस्त नमो अस्त्वस्मै ॥ ११.२.८ ॥

愿彼薄婆从四面环绕我们,如火环绕水;愿薄婆环绕我们。愿他不轻慢我们;敬礼于他。

11.2.9

चतुर्नमो अष्टकृत्वो भवाय दश कृत्वः पशुपते नमस्ते ।
तवेमे पञ्च पशवो विभक्ता गावो अश्वाः पुरुषा अजावयः ॥ ११.२.९ ॥

敬礼薄婆四次、八次、十次。敬礼你,牲畜之主。你的这五种牲畜已被分配:牛、马、人、山羊与绵羊。

11.2.10

तव चतस्रः प्रदिशस्तव द्यौस्तव पृथिवी तवेदमुग्रोर्वन्तरिक्षम् ।
तवेदं सर्वमात्मन्वद्यत्प्राणत्पृथिवीमनु ॥ ११.२.१० ॥

你的四方、你的天空、你的大地;啊猛烈者,这广阔的中空也是你的。这一切都是你的,具有气息——凡在大地上呼吸者。

11.2.11

उरुः कोशो वसुधानस्तवायं यस्मिन्न् इमा विश्वा भुवनान्यन्तः ।
स नो मृड पशुपते नमस्ते परः क्रोष्टारो अभिभाः श्वानः परो यन्त्वघरुदो विकेश्यः ॥ ११.२.११ ॥

这广大的宝库,财富之源,是你的,此中住着一切世界。愿他恩慈于我们;敬礼你,牲畜之主。愿豺狼与猛吠的狗远去;愿为罪而哭泣者与披散头发者远去。

11.2.12

धनुर्बिभर्षि हरितं हिरण्ययं सहस्रघ्निं शतवधं शिखण्डिन् ।
रुद्रस्येषुश्चरति देवहेतिस्तस्यै नमो यतमस्यां दिशीतः ॥ ११.२.१२ ॥

羽冠者啊,你执持青金之弓,能杀千与百。楼陀罗之箭,诸神之武器,四处飞行;无论它从此处何方而来,都向它致敬。

11.2.13

योऽभियातो निलयते त्वां रुद्र निचिकीर्षति ।
पश्चादनुप्रयुङ्क्षे तं विद्धस्य पदनीरिव ॥ ११.२.१३ ॥

凡来攻击你而潜伏、欲加害于你的人,哦楼陀罗,我从后面追赶他,如追随受伤者的足迹。

11.2.14

भवारुद्रौ सयुजा संविदानावुभावुग्रौ चरतो वीर्याय ।
ताभ्यां नमो यतमस्यां दिशीतः ॥ ११.२.१४ ॥

婆婆与楼陀罗,相联相合,同心一意,二者皆猛烈,为显威力而巡行。向二者致敬,无论他们在此何方。

11.2.15

नमस्ते अस्त्वायते नमो अस्तु परायते ।
नमस्ते रुद्र तिष्ठत आसीनायोत ते नमः ॥ ११.२.१५ ॥

向你致敬,向来者致敬;向去者致敬。哦楼陀罗,向站立的你致敬,也向端坐的你致敬。

11.2.16

नमः सायं नमः प्रातर्नमो रात्र्या नमो दिवा ।
भवाय च शर्वाय चोभाभ्यामकरं नमः ॥ ११.२.१६ ॥

向黄昏致敬,向清晨致敬;向夜晚致敬,向白昼致敬。对婆婆与舍尔婆,我向二者都致了敬。

11.2.17

सहस्राक्षमतिपश्यं पुरस्ताद्रुद्रमस्यन्तं बहुधा विपश्चितम् ।
मोपाराम जिह्वयेयमानम् ॥ ११.२.१७ ॥

千眼者,从前方看见一切的楼陀罗——以多种方式投掷,全知者——在他行进之时,愿我们不以舌头接近他。

11.2.18

श्यावाश्वं कृष्णमसितं मृणन्तं भीमं रथं केशिनः पादयन्तम् ।
पूर्वे प्रतीमो नमो अस्त्वस्मै ॥ ११.२.१८ ॥

我们如先人般礼敬那黑马之主、黑暗者、暗色者、摧毁者、乘可怖战车者,他践踏长发的刻施人;愿敬礼归于他。

11.2.19

मा नोऽभि स्रा मत्यं देवहेतिं मा नः क्रुधः पशुपते नमस्ते ।
अन्यत्रास्मद्दिव्यां शाखां वि धूनु ॥ ११.२.१९ ॥

畜主啊,莫向凡人射出神器;莫对我们发怒。向你致敬。远离我们,在别处,抖落你天界的枝条。

11.2.20

मा नो हिंसीरधि नो ब्रूहि परि णो वृङ्धि मा क्रुधः ।
मा त्वया समरामहि ॥ ११.२.२० ॥

莫伤害我们;为我们说好话;使你的怒气远离我们;莫发怒;愿我们不与你一同陷入苦难。

11.2.21

मा नो गोषु पुरुषेषु मा गृधो नो अजाविषु ।
अन्यत्रोग्र वि वर्तय पियारूणां प्रजां जहि ॥ ११.२.२१ ॥

不要觊觎我们的牛、人、山羊和绵羊;猛烈者啊,把它们转到别处,击杀皮耶阿鲁的后代。

11.2.22

यस्य तक्मा कासिका हेतिरेकमश्वस्येव वृषणः क्रन्द एति ।
अभिपूर्वं निर्णयते नमो अस्त्वस्मै ॥ ११.२.२२ ॥

其热病、咳嗽与箭矢合而为一,如公马的嘶鸣而起,被驱向前——愿敬礼归于他。

11.2.23

योऽन्तरिक्षे तिष्ठति विष्टभितोऽयज्वनः प्रमृणन् देवपीयून् ।
तस्मै नमो दशभिः शक्वरीभिः ॥ ११.२.२३ ॥

站立于虚空之中、扶持不献祭者、击碎神之敌的那位——以十首沙克瓦里诗向他致敬。

11.2.24

तुभ्यमारण्याः पशवो मृगा वने हिता हंसाः सुपर्णाः शकुना वयांसि ।
तव यक्षं पशुपते अप्स्वन्तस्तुभ्यं क्षरन्ति दिव्या आपो वृधे ॥ ११.२.२४ ॥

为你而设的是林中的野兽和鹿,还有天鹅、羽翼美丽的鸟和其他鸟类。啊,帕舒帕蒂,在水中有你奇妙的生灵;为了你的增长,天上的水流淌。

11.2.25

शिंशुमारा अजगराः पुरीकया जषा मत्स्या रजसा येभ्यो अस्यसि ।
न ते दूरं न परिष्ठास्ति ते भव सद्यः सर्वां परि पश्यसि भूमिं पूर्वस्माद्धंस्युत्तरस्मिन्त्समुद्रे ॥ ११.२.२५ ॥

海豚与蟒蛇、带有purīka的海中生物以及鱼,你从水的领域中释放它们;对你而言没有距离,没有阻隔。啊,婆婆,你立刻遍观整个大地;从东方你俯冲而下,在北方则在海洋之中。

11.2.26

मा नो रुद्र तक्मना मा विषेण मा नः सं स्रा दिव्येनाग्निना ।
अन्यत्रास्मद्विद्युतं पातयैताम् ॥ ११.२.२६ ॥

啊,楼陀罗,不要以热病击打我们,不要以毒击打我们;不要让天上的火与我们相接。请把这道闪电抛到离我们远处的别处。

11.2.27

भवो दिवो भव ईशे पृथिव्या भव आ पप्र उर्वन्तरिक्षम् ।
तस्यै नमो यतमस्यां दिशीतः ॥ ११.२.२७ ॥

婆婆是天的主宰;婆婆是地的主宰;婆婆充满了广阔的虚空。向那个方向致敬,无论从此处何方。

11.2.28

भव राजन् यजमानाय मृड पशूनां हि पशुपतिर्बभूथ ।
यः श्रद्दधाति सन्ति देवा इति चतुष्पदे द्विपदेऽस्य मृड ॥ ११.२.२८ ॥

啊,国王婆婆,请善待祭主;你确已成为众牲畜之主。对那相信诸神存在的人,请善待他的四足与两足生灵。

11.2.29

मा नो महान्तमुत मा नो अर्भकं मा नो वहन्तमुत मा नो वक्ष्यतः ।
मा नो हिंसीः पितरं मातरं च स्वां तन्वं रुद्र मा रीरिषो नः ॥ ११.२.२९ ॥

啊楼陀罗,不要伤害我们的长者,也不要伤害我们的幼子;不要伤害负重者,也不要伤害将要成长的人。不要伤害我们的父亲和母亲,也不要伤害我们自己的身体,啊楼陀罗,不要使我们受损。

11.2.30

रुद्रस्यैलबकारेभ्योऽसंसूक्तगिलेभ्यः ।
इदं महास्येभ्यः श्वभ्यो अकरं नमः ॥ ११.२.३० ॥

我向楼陀罗的埃拉巴卡罗、阿桑苏克塔-吉拉们,向这些大口的狗,献上了敬礼。

11.2.31

नमस्ते घोषिणीभ्यो नमस्ते केशिनीभ्यः ।
नमो नमस्कृताभ्यो नमः संभुञ्जतीभ्यः ।
नमस्ते देव सेनाभ्यः स्वस्ति नो अभयं च नः ॥ ११.२.३१ ॥

向你致敬,向咆哮者致敬;向你致敬,向长发者致敬。向受礼敬者致敬,向共同吞食者致敬。向你的军队致敬,啊神;愿我们获得安好与无畏。