Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 11.3

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

11.3.1

तस्यौदनस्य बृहस्पतिः शिरो ब्रह्म मुखम् ॥ ११.३.१ ॥

那饭的头是布利诃斯帕提,梵是口。

11.3.2

द्यावापृथिवी श्रोत्रे सूर्याचन्द्रमसावक्षिणी सप्तऋषयः प्राणापानाः ॥ ११.३.२ ॥

天与地是它的耳,日与月是它的眼,七仙人与气息是它的。

11.3.3

चक्षुर्मुसलं काम उलूखलम् ॥ ११.३.३ ॥

眼是杵,欲是臼。

11.3.4

दितिः शूर्पमदितिः शूर्पग्राही वातोऽपाविनक् ॥ ११.३.४ ॥

提提是簸箕,阿提提持簸箕,风将其扬去。

11.3.5

अश्वाः कणा गावस्तण्डुला मशकास्तुषाः ॥ ११.३.५ ॥

马是碎米,牛是精米,蚊是糠皮。

11.3.6

कब्रु फलीकरणाः शरोऽभ्रम् ॥ ११.३.६ ॥

卡布鲁是剥荚者,芦苇是云。

11.3.7

श्याममयोऽस्य मांसानि लोहितमस्य लोहितम् ॥ ११.३.७ ॥

其肉为暗色,其血为红色。

11.3.8

त्रपु भस्म हरितं वर्णः पुष्करमस्य गन्धः ॥ ११.३.८ ॥

锡与灰烬是其青黄之色,莲花是其香气。

11.3.9

खलः पात्रं स्फ्यावंसावीषे अनूक्ये ॥ ११.३.९ ॥

打谷场是其器皿,铲是其双肩,轭杆与轭钉是其肢体。

11.3.10

आन्त्राणि जत्रवो गुदा वरत्राः ॥ ११.३.१० ॥

肠腑是其锁骨,肛门是其皮带。

11.3.11

इयमेव पृथिवी कुम्भी भवति राध्यमानस्यौदनस्य द्यौरपिधानम् ॥ ११.३.११ ॥

此大地即为正在烹煮的奥达那之锅,天空即为其盖。

11.3.12

सीताः पर्शवः सिकता ऊबध्यम् ॥ ११.३.१२ ॥

犁沟是其肋骨,沙子是其乳膜。

11.3.13

ऋतं हस्तावनेजनं कुल्योपसेचनम् ॥ ११.३.१३ ॥

ṛta是洗手,是从沟渠中洒水。

11.3.14

ऋचा कुम्भ्यधिहितार्त्विज्येन प्रेषिता ॥ ११.३.१४ ॥

以诵句置于锅中,以祭司之职派遣。

11.3.15

ब्रह्मणा परिगृहीता साम्ना पर्यूढा ॥ ११.३.१५ ॥

被梵咒所持,被颂歌(sāman)环绕而行。

11.3.16

बृहदायवनं रथन्तरं दर्विः ॥ ११.३.१६ ॥

Bṛhat是搅拌之器,Rathantara是勺。

11.3.17

ऋतवः पक्तार आर्तवाः समिन्धते ॥ ११.३.१७ ॥

四季是烹者;属于四季者共同点燃火焰。

11.3.18

चरुं पञ्चबिलमुखं घर्मोऽभीन्धे ॥ ११.३.१८ ॥

五孔之口的鼎(caru);热(gharma)燃烧起来。

11.3.19

ओदनेन यज्ञवतः सर्वे लोकाः समाप्याः ॥ ११.३.१९ ॥

以奥丹那,为行祭者,一切世界皆可获得。

11.3.20

यस्मिन्त्समुद्रो द्यौर्भूमिस्त्रयोऽवरपरं श्रिताः ॥ ११.३.२० ॥

其中海洋、天空、大地三者,上下皆依止。

11.3.21

यस्य देवा अकल्पन्तोच्छिष्टे षडशीतयः ॥ ११.३.२१ ॥

其残余中诸神成形,八十六(分)。

11.3.22

तं त्वौदनस्य पृच्छामि यो अस्य महिमा महान् ॥ ११.३.२२ ॥

我问那奥丹那:其大威德是谁?

11.3.23

स य ओदनस्य महिमानं विद्यात् ॥ ११.३.२३ ॥

能知奥丹那之威德者,即是其人。

11.3.24

नाल्प इति ब्रूयान् नानुपसेचन इति नेदं च किं चेति ॥ ११.३.२४ ॥

不可说“此少”,不可说“无添汁”,不可说“此是何物”及“何”。

11.3.25

यावद्दाताभिमनस्येत तन् नाति वदेत् ॥ ११.३.२५ ॥

只要施者心中不生不悦,就不应过多谈论此事。

11.3.26

ब्रह्मवादिनो वदन्ति पराञ्चमोदनं प्राशी३ः प्रत्यञ्चा३ इति ॥ ११.३.२६ ॥

梵言者说:「饭啊,背向而食;面向前而食。」

11.3.27

त्वमोदनं प्राशी३ त्वामोदना३ इति ॥ ११.३.२७ ॥

「你食饭」;「愿饭食你」——如是说。

11.3.28

पराञ्चं चैनं प्राशीः प्राणास्त्वा हास्यन्तीत्येनमाह ॥ ११.३.२८ ॥

对背向而食者,他说:「诸气将离弃你。」

11.3.29

प्रत्यञ्चं चैनं प्राशीरपानास्त्वा हास्यन्तीत्येनमाह ॥ ११.३.२९ ॥

对向前而食者,他说:「下行之气将离弃你。」

11.3.30

नैवाहमोदनं न मामोदनः ॥ ११.३.३० ॥

我非饭,饭亦不食我。

11.3.31

ओदन एवौदनं प्राशीत् ॥ ११.३.३१ ॥

奥达那自己吃了奥达那。