Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 11.4

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

11.4.1

ततश्चैनमन्येन शीर्ष्णा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।
ज्येष्ठतस्ते प्रजा मरिष्यतीत्येनमाह ।
तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
बृहस्पतिना शीर्ष्णा ।
तेनैनं प्राशिषं तेनैनमजीगमम् ।
एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३२ ॥ ११.४.१ ॥

此后应以另一头食用,即前代仙人食用时所用之头。对它说:“你的子孙将因长子而死。”我不以朝前、朝后或倒置之姿取之,而以布利哈斯帕蒂之头取之。以此我食用它,以此我得到了它。此奥达那具备全肢、全节、全身。如此知之者,便成为全肢、全节、全身,而得圆满。

11.4.2

ततश्चैनमन्याभ्यां श्रोत्राभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।
बधिरो भविष्यसीत्येनमाह ।
तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
द्यावापृथिवीभ्यां श्रोत्राभ्याम् ।
ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।
एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३३ ॥ ११.४.२ ॥

然后应当用另一对耳朵喂他;古代仙人曾食用此饭。应对他说:“你将变聋。”这饭,我无论从前、从后或倒着,都不接受。以天地之耳。以它们喂养他,以它们使他复活。此饭具有全肢、全节、全身。知此者便成为全肢、全节、全身。

11.4.3

ततश्चैनमन्याभ्यामक्षीभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।
अन्धो भविष्यसीत्येनमाह ।
तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
सूर्याचन्द्रमसाभ्यामक्षीभ्याम् ।
ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।
एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३४ ॥ ११.४.३ ॥

然后让他用另一只眼睛进食,古代仙人曾这样食用。对他说:“你将会失明。”我不让他靠近,也不让他远去,更不让他回头;我以日月二目喂养他,又以此二目使他复生。此奥达那具足诸肢,具足诸节,具足全身。知此者,便具足诸肢、诸节与全身。

11.4.4

ततश्चैनमन्येन मुखेन प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।
मुखतस्ते प्रजा मरिष्यतीत्येनमाह ।
तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
ब्रह्मणा मुखेन ।
तेनैनं प्राशिषं तेनैनमजीगमम् ।
एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३५ ॥ ११.४.४ ॥

然后让他用另一张嘴进食,古代仙人以口食用。对他说:“你的子孙将因你的口而死。”我不让他靠近,也不让他远去,更不让他回头;我以神圣之语作为口喂养他,又以此使他复生。此奥达那具足诸肢,具足诸节,具足全身。知此者,便具足诸肢、诸节与全身。

11.4.5

ततश्चैनमन्यया जिह्वया प्राशीर्यया चैतं पूर्व ऋषयः प्राश्नन् ।
जिह्वा ते मरिष्यतीत्येनमाह ।
तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
अग्नेर्जिह्वया ।
तयैनं प्राशिषं तयैनमजीगमम् ।
एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३६ ॥ ११.४.५ ॥

然后应以另一舌喂食他,前代仙人曾以此进食。应对他说:“你将因舌而死。”我不将他引向此,也不引向彼,也不引向后方。以阿耆尼之舌,我以此喂他,以此使他复活。此粥实为全肢、全节、全身。知此者即成为全肢、全节、全身。

11.4.6

ततश्चैनमन्यैर्दन्तैः प्राशीर्यैश्चैतं पूर्व ऋषयः प्राश्नन् ।
दन्तास्ते शत्स्यन्तीत्येनमाह ।
तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
ऋतुभिर्दन्तैः ।
तैरेनं प्राशिषं तैरेनमजीगमम् ।
एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३७ ॥ ११.४.६ ॥

然后应以另一齿喂食他,前代仙人曾以此进食。应对他说:“你的牙齿将脱落。”我不将他引向此,也不引向彼,也不引向后方。以四时之齿,我以此喂他,以此使他复活。此粥实为全肢、全节、全身。知此者即成为全肢、全节、全身。

11.4.7

ततश्चैनमन्यैः प्राणापानैः प्राशीर्यैश्चैतं पूर्व ऋषयः प्राश्नन् ।
प्राणापानास्त्वा हास्यन्तीत्येनमाह ।
तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
सप्तऋषिभिः प्राणापानैः ।
तैरेनं प्राशिषं तैरेनमजीगमम् ।
एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३८ ॥ ११.४.७ ॥

随后,他人以气息(prāṇa)与下行气(apāna)使其被食用;古昔的仙人也以此食用它。对它说:「气息与下行气将离弃你。」我没有把它引向此方,也没有引向后方,或相反的方向。与七位仙人、与气息和下行气一起,我使它被食用;借助它们,我将它带来。此饭食确实是全肢、全节、全身的。如此知之者,也会成为全肢、全节、全身,并得以昌盛。

11.4.8

ततश्चैनमन्येन व्यचसा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।
राजयक्ष्मस्त्वा हनिष्यतीत्येनमाह ।
तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
अन्तरिक्षेण व्यचसा ।
तेनैनं प्राशिषं तेनैनमजीगमम् ।
एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३९ ॥ ११.४.८ ॥

随后,他人以广阔的虚空使其被食用;古昔的仙人也以此食用它。对它说:「王疾将击倒你。」我没有把它引向此方,也没有引向后方,或相反的方向。以广阔的虚空,我使它被食用;借助它,我将它带来。此饭食确实是全肢、全节、全身的。如此知之者,也会成为全肢、全节、全身,并得以昌盛。

11.4.9

ततश्चैनमन्येन पृष्ठेन प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।
विद्युत्त्वा हनिष्यतीत्येनमाह ।
तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
दिवा पृष्ठेन ।
तेनैनं प्राशिषं तेनैनमजीगमम् ।
एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४० ॥ ११.४.९ ॥

然后应以另一后背喂他,古代仙人正是以此而食。“闪电将击中你。”他这样对他说。那个我认为既非来近者,亦非去远者,亦非转向者:以白昼之背。我以它使他进食,以它使他复生。此欧陀那具有全肢、全节、全身。如此知者,便成为全肢、全节、全身。

11.4.10

ततश्चैनमन्येनोरसा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।
कृष्या न रात्स्यसीत्येनमाह ।
तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
पृथिव्योरसा ।
तेनैनं प्राशिषं तेनैनमजीगमम् ।
एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४१ ॥ ११.४.१० ॥

然后应以另一胸膛喂他,古代仙人正是以此而食。“耕种你将一无所获。”他这样对他说。那个我认为既非来近者,亦非去远者,亦非转向者:以大地之胸。我以它使他进食,以它使他复生。此欧陀那具有全肢、全节、全身。如此知者,便成为全肢、全节、全身。

11.4.11

ततश्चैनमन्येनोदरेण प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।
उदरदारस्त्वा हनिष्यतीत्येनमाह ।
तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
सत्येनोदरेण ।
तेनैनं प्राशिषं तेनैनमजीगमम् ।
एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४२ ॥ ११.४.११ ॥

然后以另一个腹部喂养他,古代仙人正是以此食用它。他对他说:“剖腹者将杀你。”我不把他近拿、远拿、或反拿;以真实的腹部。以此我喂养他,以此我使他到达。此奥达那是全肢、全节、全身的。知此者成为全肢、全节、全身的。

11.4.12

ततश्चैनमन्येन वस्तिना प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।
अप्सु मरिष्यसीत्येनमाह ।
तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
समुद्रेण वस्तिना ।
तेनैनं प्राशिषं तेनैनमजीगमम् ।
एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४३ ॥ ११.४.१२ ॥

然后以另一个膀胱喂养他,古代仙人正是以此食用它。他对他说:“你将死于水中。”我不把他近拿、远拿、或反拿;以海洋之膀胱。以此我喂养他,以此我使他到达。此奥达那是全肢、全节、全身的。知此者成为全肢、全节、全身的。

11.4.13

ततश्चैनमन्याभ्यामूरुभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।
ऊरू ते मरिष्यत इत्येनमाह ।
तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
मित्रावरुणयोरूरुभ्याम् ।
ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।
एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४४ ॥ ११.४.१३ ॥

随后应以另一股腿食用它,古代仙人曾如此食用。人们对它说:“你的双腿将会毁灭。”我不以面向前、向后或相对的方式食用它,而是以弥陀罗与伐楼那的双腿。我以它们食用它,以它们使它复活。此饭(odana)是全肢、全节、全身的。知此者便成为全肢、全节、全身之人。

11.4.14

ततश्चैनमन्याभ्यामष्ठीवद्भ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।
स्रामो भविष्यसीत्येनमाह ।
तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
त्वष्टुरष्ठीवद्भ्याम् ।
ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।
एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४५ ॥ ११.४.१४ ॥

然后应以另外两个膝盖骨食用之,如古代仙人所食。应对它说:“你将坚固。”我不从前、不从后、不从正面取之。以Tvaṣṭṛ的膝盖骨。我以此二者食之,以此二者使之生成。此奥达那具足诸肢、诸节、诸身。知此者亦成为具足诸肢、诸节、诸身而圆满。

11.4.15

ततश्चैनमन्याभ्यां पादाभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।
बहुचारी भविष्यसीत्येनमाह ।
तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
अश्विनोः पादाभ्याम् ।
ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।
एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४६ ॥ ११.४.१५ ॥

随后应以另外两只脚食用它,前代仙人即以此食之。他对它说:“你将成为远行之人。”我既未向前、也未向后、未向相反方向携带它——以双马童(Aśvin)之脚。我以此食之,以此吞之。此欧陀那(odana)实为具足诸肢、诸节、全身之物。如此知者,便成为具足诸肢、诸节、全身者。

11.4.16

ततश्चैनमन्याभ्यां प्रपदाभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।
सर्पस्त्वा हनिष्यतीत्येनमाह ।
तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
सवितुः प्रपदाभ्याम् ।
ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।
एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४७ ॥ ११.४.१६ ॥

随后,前代仙人以另外两只前足食用它。他对它说:“蛇将击中你。”我食用它,不来、不去、不回转,以萨维陀的前足食用。我以它们食用它,以它们使它复生。此奥达那确是全肢、全节、全身的。知此者便成为全肢、全节、全身,并得以聚合。

11.4.17

ततश्चैनमन्याभ्यां हस्ताभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।
ब्राह्मणं हनिष्यसीत्येनमाह ।
तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
ऋतस्य हस्ताभ्याम् ।
ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।
एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४८ ॥ ११.४.१७ ॥

随后应以另一只手食用,古代仙人正是如此食用。他对它说:「你将击打婆罗门。」我不把他引向近处,也不引向远处或逆向;以Ṛta之手。我以这些手吃了他,以这些手带来了他。此奥达那具有全肢、全节、全身。知此者亦成为全肢、全节、全身,得以兴旺。

11.4.18

ततश्चैनमन्यया प्रतिष्ठया प्राशीर्यया चैतं पूर्व ऋषयः प्राश्नन् ।
अप्रतिष्ठानोऽनायतनो मरिष्यसीत्येनमाह ।
तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
सत्ये प्रतिष्ठाय ।
तयैनं प्राशिषं तयैनमजीगमम् ।
एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४९ ॥ ११.४.१८ ॥

随后应以另一基础食用,古代仙人正是如此食用。他对它说:「你将无根无居而死。」我不把他引向近处,也不引向远处或逆向;安立于真理之中。我以那基础吃了他,以它带来了他。此奥达那具有全肢、全节、全身。知此者亦成为全肢、全节、全身,得以兴旺。