阿闼婆吠陀 · 颂诗(Sūkta) 11.9
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
11.9.1
उच्छिष्टे नाम रूपं चोच्छिष्टे लोक आहितः ।
उच्छिष्ट इन्द्रश्चाग्निश्च विश्वमन्तः समाहितम् ॥ ११.९.१ ॥
名与色置于残余之中,世界安立于残余之中。因陀罗与火神在残余之中,整个宇宙包含于其内。
11.9.2
उच्छिष्टे द्यावापृथिवी विश्वं भूतं समाहितम् ।
आपः समुद्र उच्छिष्टे चन्द्रमा वात आहितः ॥ ११.९.२ ॥
残余中有天与地,一切众生皆聚于其中。残余中有水与海洋;月亮与风亦安立其中。
11.9.3
सन्न् उच्छिष्टे असंश्चोभौ मृत्युर्वाजः प्रजापतिः ।
लौक्या उच्छिष्ट आयत्ता व्रश्च द्रश्चापि श्रीर्मयि ॥ ११.९.३ ॥
残余中既有有也有无;死亡、勇力与生主皆在其中。残余中世俗之物依附其上;亦有 vraś 与 draś;我身中有吉祥(śrī)。
11.9.4
दृढो दृंह स्थिरो न्यो ब्रह्म विश्वसृजो दश ।
नाभिमिव सर्वतश्चक्रमुच्छिष्टे देवताः श्रिताः ॥ ११.९.४ ॥
令坚者更坚,令定者更定;梵与造世的十者皆在其中。如车轮之毂处处皆在,诸神依止于残余之中。
11.9.5
ऋक्साम यजुरुच्छिष्ट उद्गीथः प्रस्तुतं स्तुतम् ।
हिङ्कार उच्छिष्टे स्वरः साम्नो मेडिश्च तन् मयि ॥ ११.९.५ ॥
梨俱、娑摩与夜柔在残余之中;优吉陀、普罗斯图塔、斯图塔亦然。残余中有嗡嗡声(hiṅkāra)、娑摩之音与 medi;我身中有那一身躯。
11.9.6
ऐन्द्राग्नं पावमानं महानाम्नीर्महाव्रतम् ।
उच्छिष्टे यज्ञस्याङ्गान्यन्तर्गर्भ इव मातरि ॥ ११.९.६ ॥
因陀罗-火之歌、净化之歌、大名诗与大誓在残余之中;祭祀的诸肢体亦在残余之中,如胎儿在母体之内。
11.9.7
राजसूयं वाजपेयमग्निष्टोमस्तदध्वरः ।
अर्काश्वमेधावुच्छिष्टे जीवबर्हिर्मदिन्तमः ॥ ११.९.७ ॥
王权灌顶祭、胜利饮祭、火祭,即那祭礼;Ucchiṣṭa中的arka与马祭;活祭草,最令人陶醉。
11.9.8
अग्न्याधेयमथो दीक्षा कामप्रश्छन्दसा सह ।
उत्सन्ना यज्ञाः सत्राण्युच्छिष्टेऽधि समाहिताः ॥ ११.९.८ ॥
设立火坛,然后是灌顶礼,与欲望-韵律(kāmapraś-chandas)同在;衰落的祭祀与长祭会都聚集于Ucchiṣṭa之中。
11.9.9
अग्निहोत्रं च श्रद्धा च वषट्कारो व्रतं तपः ।
दक्षिणेष्टं पूर्तं चोच्छिष्टेऽधि समाहिताः ॥ ११.९.९ ॥
火供与信心,vaṣaṭ之呼,誓愿与苦行;附有布施(dakṣiṇā)的祭祀与功德之事,皆置于Ucchiṣṭa之中。
11.9.10
एकरात्रो द्विरात्रः सद्यःक्रीः प्रक्रीरुक्थ्यः ।
ओतं निहितमुच्छिष्टे यज्ञस्याणूनि विद्यया ॥ ११.९.१० ॥
一日祭、二日祭、sadyaskra、prakrī与ukthya;祭祀的细微部分,以明智编织并安置于Ucchiṣṭa之中。
11.9.11
चतूरात्रः पञ्चरात्रः षड्रात्रश्चोभयः सह ।
षोडशी सप्तरात्रश्चोच्छिष्टाज्जज्ञिरे सर्वे ये यज्ञा अमृते हिताः ॥ ११.९.११ ॥
四日祭、五日祭、六日祭及二者并列;ṣoḍaśin与七日祭皆生于Ucchiṣṭa——凡有益于不死的诸祭祀,皆由此而生。
11.9.12
प्रतीहारो निधनं विश्वजिच्चाभिजिच्च यः ।
साह्नातिरात्रावुच्छिष्टे द्वादशाहोऽपि तन् मयि ॥ ११.९.१२ ॥
Pratīhāra与nidhana,Viśvajit与Abhijit——凡此;Ucchiṣṭa中的sāhnātirātra,以及十二日祭——愿此皆在我之中。
11.9.13
सूनृता संनतिः क्षेमः स्वधोर्जामृतं सहः ।
उच्छिष्टे सर्वे प्रत्यञ्चः कामाः कामेन तातृपुः ॥ ११.९.१३ ॥
真实之语、谦逊、安康、svadhā、精力、不死与力量——这一切都在残余之中。所有转向内在的欲望,都已借欲望得到满足。
11.9.14
नव भूमीः समुद्रा उच्छिष्टेऽधि श्रिता दिवः ।
आ सूर्यो भात्युच्छिष्टेऽहोरात्रे अपि तन् मयि ॥ ११.९.१४ ॥
九地与海洋,依托于天空,都在残余之中。残余之中太阳闪耀;愿白昼与黑夜也同样在我之中。
11.9.15
उपहव्यं विषूवन्तं ये च यज्ञा गुहा हिताः ।
बिभर्ति भर्ता विश्वस्योच्छिष्टो जनितुः पिता ॥ ११.९.१५ ॥
上呼、遍在者,以及安放于洞穴中的祭祀——残余承载它们全部;它是一切的持有者,是生育者的父亲。
11.9.16
पिता जनितुरुच्छिष्टोऽसोः पौत्रः पितामहः ।
स क्षियति विश्वस्येशानो वृषा भूम्यामतिघ्न्यः ॥ ११.९.१६ ॥
残余是生育者的父亲;它是气息的孙子,也是祖父。它作为主宰统治一切,如强健的公牛,在大地上不受伤害地居住。
11.9.17
ऋतं सत्यं तपो राष्ट्रं श्रमो धर्मश्च कर्म च ।
भूतं भविष्यदुच्छिष्टे वीर्यं लक्ष्मीर्बलं बले ॥ ११.९.१७ ॥
宇宙秩序、真理、苦行、王国、劳作、法与业——过去与未来、勇力、吉祥与力量——皆在残余之中:力量在力量之中。
11.9.18
समृद्धिरोज आकूतिः क्षत्रं राष्ट्रं षडुर्व्यः ।
संवत्सरोऽध्युच्छिष्ट इडा प्रैषा ग्रहा हविः ॥ ११.९.१८ ॥
繁荣、精力、志愿、统治、王国与六方广域;年岁依托于残余之上——还有伊达、召请、杯盏与供物。
11.9.19
चतुर्होतार आप्रियश्चातुर्मास्यानि नीविदः ।
उच्छिष्टे यज्ञा होत्राः पशुबन्धास्तदिष्टयः ॥ ११.९.१९ ॥
四位荷塔的阿普利颂、四月祭仪与尼维咒语;在残余(Ucchiṣṭa)中有祭祀、荷塔诵请、牲畜束缚以及那些献祭。
11.9.20
अर्धमासाश्च मासाश्चार्तवा ऋतुभिः सह ।
उच्छिष्टे घोषिणीराप स्तनयित्नुः श्रुतिर्मही ॥ ११.९.२० ॥
半月与月份,以及与季节相随的季节期;在残余(Ucchiṣṭa)中有轰鸣的水、雷声与大音。
11.9.21
शर्कराः सिकता अश्मान ओषधयो वीरुधस्तृणा ।
अभ्राणि विद्युतो वर्षमुच्छिष्टे संश्रिता श्रिता ॥ ११.९.२१ ॥
砾石、沙子、石头、草药、藤蔓与草;云、闪电与雨——在残余(Ucchiṣṭa)中,它们相互结合并依托。
11.9.22
राद्धिः प्राप्तिः समाप्तिर्व्याप्तिर्मह एधतुः ।
अत्याप्तिरुच्छिष्टे भूतिश्चाहिता निहिता हिता ॥ ११.९.२२ ॥
成就、获得、圆满、遍及,以及伟大的两种增长;在残余(Ucchiṣṭa)中,超越的圆满与兴盛被安置、储藏并确立。
11.9.23
यच्च प्राणति प्राणेन यच्च पश्यति चक्षुषा ।
उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥ ११.९.२३ ॥
凡以气息呼吸、以眼睛观看者——一切皆生于残余(Ucchiṣṭa),天上所居的一切诸神。
11.9.24
ऋचः सामानि छन्दांसि पुराणं यजुषा सह ।
उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥ ११.९.२४ ॥
诗句、歌咏、韵律与古老传承,连同祭祀祷词——一切皆生于残余(Ucchiṣṭa),天上所居的一切诸神。
11.9.25
प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या ।
उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥ ११.९.२५ ॥
气与下气、眼与耳、不坏者与可坏者,凡此皆是——从余供中诞生了所有安居于天界的诸神。
11.9.26
आनन्दा मोदाः प्रमुदोऽभीमोदमुदश्च ये ।
उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥ ११.९.२६ ॥
欢喜、喜悦、大欢、狂喜与欣慰,凡此皆是——从余供中诞生了所有安居于天界的诸神。
11.9.27
देवाः पितरो मनुष्या गन्धर्वाप्सरसश्च ये ।
उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥ ११.९.२७ ॥
诸天、祖先、人类、乾闼婆与阿普萨拉斯,凡此皆是——从余供中诞生了所有安居于天界的诸神。