Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 12.1

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.1.1

सत्यं बृहदृतमुग्रं दीक्षा तपो ब्रह्म यज्ञः पृथिवीं धारयन्ति ।
सा नो भूतस्य भव्यस्य पत्न्युरुं लोकं पृथिवी नः कृणोतु ॥ १२.१.१ ॥

真理、大理法(ṛta)、猛烈的灌顶(dīkṣā)、苦行、梵与祭祀承载着大地。愿这位过去与未来的主妇为我们开辟广阔的世界。

12.1.2

असंबाधं मध्यतो मानवानां यस्या उद्वतः प्रवतः समं बहु ।
नानावीर्या ओषधीर्या बिभर्ति पृथिवी नः प्रथतां राध्यतां नः ॥ १२.१.२ ॥

那片在人类之中宽阔不受拥挤、高低之地平坦而广大、承载多种效力草药的大地,愿她为我们展开并兴旺。

12.1.3

यस्यां समुद्र उत सिन्धुरापो यस्यामन्नं कृष्टयः संबभूवुः ।
यस्यामिदं जिन्वति प्राणदेजत्सा नो भूमिः पूर्वपेये दधातु ॥ १२.१.३ ॥

海洋、河流与诸水都在她之中,食物与诸民族在她之中生成,一切有气息、会运动的都因她而有生命——愿这大地在第一次饮水时为我们安置。

12.1.4

यस्याश्चतस्रः प्रदिशः पृथिव्या यस्यामन्नं कृष्टयः संबभूवुः ।
या बिभर्ति बहुधा प्राणदेजत्सा नो भूमिर्गोष्वप्यन्ने दधातु ॥ १२.१.४ ॥

四方属于她,食物与诸民族在她之中生成,她以多种方式承载一切有气息、会运动的事物——愿这大地在牛群之中、在食物之中为我们安置。

12.1.5

यस्यां पूर्वे पूर्वजना विचक्रिरे यस्यां देवा असुरान् अभ्यवर्तयन् ।
गवामश्वानां वयसश्च विष्ठा भगं वर्चः पृथिवी नो दधातु ॥ १२.१.५ ॥

古时的祖先在其中立足,诸神在其中战胜阿修罗,她是牛、马与鸟的居所——愿这大地赐予我们福分与光辉。

12.1.6

विश्वंभरा वसुधानी प्रतिष्ठा हिरण्यवक्षा जगतो निवेशनी ।
वैश्वानरं बिभ्रती भूमिरग्निमिन्द्रऋषभा द्रविणे नो दधातु ॥ १२.१.६ ॥

承载万物、藏有财富、为根基、金色胸怀,是动转世界的安居之所的大地,承载吠舍婆罗那火,如因陀罗般如公牛,愿她使我们立于财富之中。

12.1.7

यां रक्षन्त्यस्वप्ना विश्वदानीं देवा भूमिं पृथिवीमप्रमादम् ।
सा नो मधु प्रियं दुहामथो उक्षतु वर्चसा ॥ १२.१.७ ॥

不眠之神们时时警觉守护的那片大地,那广阔的大地,愿她为我们挤出甘美可爱的蜜,并以光辉灌溉我们。

12.1.8

यार्णवेऽधि सलिलमग्र आसीत्यां मायाभिरन्वचरन् मनीषिणः ।
यस्या हृदयं परमे व्योमन्त्सत्येनावृतममृतं पृथिव्याः ।
सा नो भूमिस्त्विषिं बलं राष्ट्रे दधातूत्तमे ॥ १२.१.८ ॥

起初在海洋水面之上的大地,智者们以神通在其上游行,其心在最高天空,以真理覆盖的不死之地——愿这大地在最高的国度中为我们安立光辉与力量。

12.1.9

यस्यामापः परिचराः समानीरहोरात्रे अप्रमादं क्षरन्ति ।
सा नो भूमिर्भूरिधारा पयो दुहामथो उक्षतु वर्चसा ॥ १२.१.९ ॥

那流水环绕、昼夜均匀不断奔流而不懈怠的大地,那多流之地,愿她为我们挤出乳汁,并以光辉灌溉我们。

12.1.10

यामश्विनावमिमातां विष्णुर्यस्यां विचक्रमे ।
इन्द्रो यां चक्र आत्मनेऽनमित्रां शचीपतिः ।
सा नो भूमिर्वि सृजतां माता पुत्राय मे पयः ॥ १२.१.१० ॥

双马童所量度、毗湿奴跨步其上、帝释天主宰神力为自己使之无敌的大地,愿她为我们流出乳汁,如母亲为其子。

12.1.11

गिरयस्ते पर्वता हिमवन्तोऽरण्यं ते पृथिवि स्योनमस्तु ।
बभ्रुं कृष्णां रोहिणीं विश्वरूपां ध्रुवां भूमिं पृथिवीमिन्द्रगुप्ताम् ।
अजीतोऽहतो अक्षतोऽध्यष्ठां पृथिवीमहम् ॥ १२.१.११ ॥

大地啊,愿你的山岳、雪峰与森林都令人安详。我立于那棕黄、黑暗、赤红、万相、坚固、由因陀罗守护的广阔大地之上,不被征服,不受伤害,完好无损。

12.1.12

यत्ते मध्यं पृथिवि यच्च नभ्यं यास्त ऊर्जस्तन्वः संबभूवुः ।
तासु नो धेह्यभि नः पवस्व माता भूमिः पुत्रो अहं पृथिव्याः पर्जन्यः पिता स उ नः पिपर्तु ॥ १२.१.१२ ॥

大地啊,你的中心与你的脐,以及从你而生的有活力的身体:请将我们安置于其中,并向我们流淌。大地是母亲,我是大地之子;帕尔贾尼亚是父亲,愿他滋养我们。

12.1.13

यस्यां वेदिं परिगृह्णन्ति भूम्यां यस्यां यज्ञं तन्वते विश्वकर्माणः ।
यस्यां मीयन्ते स्वरवः पृथिव्यामूर्ध्वाः शुक्रा आहुत्याः पुरस्तात् ।
सा नो भूमिर्वर्धयद्वर्धमाना ॥ १२.१.१३ ॥

在那围绕祭坛的大地上,在那万事之祭司展开祭祀的大地上,在那歌咏之声被度量的大地上,在那高举光明供物置于其前的大地上:愿这生长中的大地使我们也生长。

12.1.14

यो नो द्वेषत्पृथिवि यः पृतन्याद्योऽभिदासान् मनसा यो वधेन ।
तं नो भूमे रन्धय पूर्वकृत्वरि ॥ १२.१.१४ ॥

大地啊,凡憎恨我们者、率军攻击我们者、以心意或杀戮谋害我们者,请使他臣服于我们,你这古昔行事者。

12.1.15

त्वज्जातास्त्वयि चरन्ति मर्त्यास्त्वं बिभर्षि द्विपदस्त्वं चतुष्पदः ।
तवेमे पृथिवि पञ्च मानवा येभ्यो ज्योतिरमृतं मर्त्येभ्य उद्यन्त्सूर्यो रश्मिभिरातनोति ॥ १२.१.१५ ॥

由你而生、行走于你之上的凡人;你承载两足与四足的众生。哦,大地(Pṛthivī),这五个人类族群属于你;为了他们,升起的太阳以光线播撒不朽的光明。

12.1.16

ता नः प्रजाः सं दुह्रतां समग्रा वाचो मधु पृथिवि धेहि मह्यम् ॥ १२.१.१६ ॥

愿我们所有的那些生灵一同产奶。哦,大地(Pṛthivī),请将言语的蜜赐予我。

12.1.17

विश्वस्वं मातरमोषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम् ।
शिवां स्योनामनु चरेम विश्वहा ॥ १२.१.१७ ॥

拥有一切者,草木之母,坚定的大地,被法(dharma)所支持的广阔大地(Pṛthivī):知其吉祥而慈惠,愿我们永远依她而行。

12.1.18

महत्सधस्थं महती बभूविथ महान् वेग एजथुर्वेपथुष्टे ।
महांस्त्वेन्द्रो रक्षत्यप्रमादम् ।
सा नो भूमे प्र रोचय हिरण्यस्येव संदृशि मा नो द्विक्षत कश्चन ॥ १२.१.१८ ॥

你成为了伟大的居所,因而变得伟大;你的强大动力、颤动与震动都是伟大的。伟大的因陀罗警觉地守护着你。那么,哦大地,请使我们如金子般在视线中闪耀;愿无人憎恨我们。

12.1.19

अग्निर्भूम्यामोषधीष्वग्निमापो बिभ्रत्यग्निरश्मसु ।
अग्निरन्तः पुरुषेषु गोष्वश्वेष्वग्नयः ॥ १२.१.१९ ॥

阿耆尼在大地与草木之中;水承载着阿耆尼;阿耆尼在石头中。阿耆尼在人之内,在牛与马之中有诸火。

12.1.20

अग्निर्दिव आ तपत्यग्नेर्देवस्योर्वन्तरिक्षम् ।
अग्निं मर्तास इन्धते हव्यवाहं घृतप्रियम् ॥ १२.१.२० ॥

阿耆尼从天上照耀,神阿耆尼的广阔虚空也在照耀。凡人点燃阿耆尼——负载祭品、喜爱酥油的神火。

12.1.21

अग्निवासाः पृथिव्यसितज्ञूस्त्विषीमन्तं संशितं मा कृणोतु ॥ १२.१.२१ ॥

以阿耆尼为衣的大地,黑膝者,愿她使我光辉而锐利。

12.1.22

भूम्यां देवेभ्यो ददति यज्ञं हव्यमरंकृतम् ।
भूम्यां मनुष्या जीवन्ति स्वधयान्नेन मर्त्याः ।
सा नो भूमिः प्राणमायुर्दधातु जरदष्टिं मा पृथिवी कृणोतु ॥ १२.१.२२ ॥

人们在大地上向诸神献上祭祀与精心备好的祭品。凡人在大地上依靠斯瓦达与食物而生存。愿这大地赐予我们气息与寿命;愿大地使我活到衰老。

12.1.23

यस्ते गन्धः पृथिवि संबभूव यं बिभ्रत्योषधयो यमापः ।
यं गन्धर्वा अप्सरसश्च भेजिरे तेन मा सुरभिं कृणु मा नो द्विक्षत कश्चन ॥ १२.१.२३ ॥

大地啊,以那在你之中生起的香气——草药所承载、水所承载、乾达婆与阿普萨拉所获得的香气,使我芬芳;愿无人憎恨我们。

12.1.24

यस्ते गन्धः पुष्करमाविवेश यं संजभ्रुः सूर्याया विवाहे ।
अमर्त्याः पृथिवि गन्धमग्रे तेन मा सुरभिं कृणु मा नो द्विक्षत कश्चन ॥ १२.१.२४ ॥

大地啊,你那进入莲花的香气,不死者在苏尔雅的婚礼上所聚集的香气,大地啊,以你original所具有的那香气,使我芬芳;愿无人憎恨我们。

12.1.25

यस्ते गन्धः पुरुषेषु स्त्रीषु पुंसु भगो रुचिः ।
यो अश्वेषु वीरेषु यो मृगेषूत हस्तिषु ।
कन्यायां वर्चो यद्भूमे तेनास्माँ अपि सं सृज मा नो द्विक्षत कश्चन ॥ १२.१.२५ ॥

大地啊,你在男子、女子与雄性之中的香气、福运与光辉,在马、勇士、鹿与象之中的,以及少女身上的光采,愿以此也使我们结合;愿无人憎恨我们。

12.1.26

शिला भूमिरश्मा पांसुः सा भूमिः संधृता धृता ।
तस्यै हिरण्यवक्षसे पृथिव्या अकरं नमः ॥ १२.१.२६ ॥

岩石、大地、石头、尘土——那大地被牢牢承载,也承载万物。对那金胸的大地,我致以敬礼。

12.1.27

यस्यां वृक्षा वानस्पत्या ध्रुवास्तिष्ठन्ति विश्वहा ।
पृथिवीं विश्वधायसं धृतामछावदामसि ॥ १२.१.२७ ॥

树木与林中草木永远稳立在她之上;我们赞颂那承载一切、被承载的大地。

12.1.28

उदीराणा उतासीनास्तिष्ठन्तः प्रक्रामन्तः ।
पद्भ्यां दक्षिणसव्याभ्यां मा व्यथिष्महि भूम्याम् ॥ १२.१.२८ ॥

起身、坐下、站立、前行之时,以右脚与左脚,愿我们在大地上不致跌倒。

12.1.29

विमृग्वरीं पृथिवीमा वदामि क्षमां भूमिं ब्रह्मणा वावृधानाम् ।
ऊर्जं पुष्टं बिभ्रतीमन्नभागं घृतं त्वाभि नि षीदेम भूमे ॥ १२.१.२९ ॥

我呼唤那极其柔和、宽容的大地,她借梵言而增长,承载活力、滋养与食物的份额;大地啊,愿我们以酥油坐于你之上。

12.1.30

शुद्धा न आपस्तन्वे क्षरन्तु यो नः सेदुरप्रिये तं नि दध्मः ।
पवित्रेण पृथिवि मोत्पुनामि ॥ १२.१.३० ॥

愿清净之水为我们的身体流动;凡与我们为敌、令人不悦者,我们将其压下。大地啊,我以清净之物净化你。

12.1.31

यास्ते प्राचीः प्रदिशो या उदीचीर्यास्ते भूमे अधराद्याश्च पश्चात् ।
स्योनास्ता मह्यं चरते भवन्तु मा नि पप्तं भुवने शिश्रियाणः ॥ १२.१.३१ ॥

大地啊,愿你的东方、北方,以及下方与后方的方位皆令人愉悦,并归于我这行走之人。依止于世间,愿我不致倾倒。

12.1.32

मा नः पश्चान् मा पुरस्तान् नुदिष्ठा मोत्तरादधरादुत ।
स्वस्ति भूमे नो भव मा विदन् परिपन्थिनो वरीयो यावया वधम् ॥ १२.१.३२ ॥

不要从后面推我们,也不要从前面、从上面或从下面推我们。大地啊,愿你为我们带来吉祥。愿阻挡道路者找不到我们;驱开那宽大的兵器。

12.1.33

यावत्तेऽभि विपश्यामि भूमे सूर्येण मेदिना ।
तावन् मे चक्षुर्मा मेष्टोत्तरामुत्तरां समाम् ॥ १२.१.३३ ॥

大地啊,我借太阳所见你的远近,愿我的眼睛便保持到那里;直到一年又一年,愿我的眼睛不致失明。

12.1.34

यच्छयानः पर्यावर्ते दक्षिणं सख्यमभि भूमे पार्श्वमुत्तानास्त्वा प्रतीचीं यत्पृष्टीभिरधिशेमहे ।
मा हिंसीस्तत्र नो भूमे सर्वस्य प्रतिशीवरि ॥ १२.१.३४ ॥

当我们躺卧时向右侧翻身,大地啊,当我们仰面以背靠在你身上时,在那里不要伤害我们,大地啊,你是众人卧床的守护者。

12.1.35

यत्ते भूमे विखनामि क्षिप्रं तदपि रोहतु ।
मा ते मर्म विमृग्वरि मा ते हृदयमर्पिपम् ॥ १२.१.३५ ॥

大地啊,我从你身上挖出的东西,愿它迅速重新长出。哦,被磨损的大地,愿我不刺伤你的要害,不刺穿你的心。

12.1.36

ग्रीष्मस्ते भूमे वर्षाणि शरद्धेमन्तः शिशिरो वसन्तः ।
ऋतवस्ते विहिता हायनीरहोरात्रे पृथिवि नो दुहाताम् ॥ १२.१.३६ ॥

大地啊,夏、雨季、秋、冬、晨露季与春,这些季节都是为你而设定的。广阔的大地啊,愿你所定的季节、岁月、昼与夜为我们挤出乳汁。

12.1.37

याप सर्पं विजमाना विमृग्वरी यस्यामासन्न् अग्नयो ये अप्स्वन्तः ।
परा दस्यून् ददती देवपीयून् इन्द्रं वृणाना पृथिवी न वृत्रं शक्राय दध्रे वृषभाय वृष्णे ॥ १२.१.३७ ॥

抖落蛇的大地啊,哦,被磨损的大地,你水中曾有火——驱散敌视诸神的达萨,选择因陀罗,犹如选择弗栗多,为那强大的公牛、雄健者而承载。

12.1.38

यस्यां सदोहविर्धाने यूपो यस्यां निमीयते ।
ब्रह्माणो यस्यामर्चन्त्यृग्भिः साम्ना यजुर्विदः युज्यन्ते यस्यामृत्विजः सोममिन्द्राय पातवे ॥ १२.१.३८ ॥

在其上设有萨达斯与祭品车,其上竖立祭柱;在其上,婆罗门以颂诗与歌咏礼拜,即通晓夜柔之人;在其上,祭司们为因陀罗饮用而备好苏摩。

12.1.39

यस्यां पूर्वे भूतकृत ऋषयो गा उदानृचुः ।
सप्त सत्रेण वेधसो यज्ञेन तपसा सह ॥ १२.१.३९ ॥

在其中,古代创造众生的仙人唱出了牛群;七位造物主与萨特拉祭、祭祀和苦行共在。

12.1.40

सा नो भूमिरा दिशतु यद्धनं कामयामहे ।
भगो अनुप्रयुङ्क्तामिन्द्र एतु पुरोगवः ॥ १२.१.४० ॥

愿那大地赐予我们所渴望的财富。愿薄伽相助,愿因陀罗走在前面。

12.1.41

यस्यां गायन्ति नृत्यन्ति भूम्यां मर्त्या व्यैलबाः ।
युध्यन्ते यस्यामाक्रन्दो यस्यां वदति दुन्दुभिः ।
सा नो भूमिः प्र णुदतां सपत्नान् असपत्नं मा पृथिवी कृणोतु ॥ १२.१.४१ ॥

愿那片人们歌舞、交战、战吼与鼓声回响的大地驱逐我们的敌人;愿广阔的大地使我们无敌。

12.1.42

यस्यामन्नं व्रीहियवौ यस्या इमाः पञ्च कृष्टयः ।
भूम्यै पर्जन्यपत्न्यै नमोऽस्तु वर्षमेदसे ॥ १२.१.४२ ॥

敬礼大地,波遮婆尼耶之妻,被雨水浸润者;大地上有食物、稻米与大麦,有这五族人民。

12.1.43

यस्याः पुरो देवकृताः क्षेत्रे यस्या विकुर्वते ।
प्रजापतिः पृथिवीं विश्वगर्भामाशामाशां रण्यां नः कृणोतु ॥ १२.१.४३ ॥

愿生主使这包容万物的大地为我们在每个方向都令人喜悦;其东方由诸神所造,其田野中有所变化。

12.1.44

निधिं बिभ्रती बहुधा गुहा वसु मणिं हिरण्यं पृथिवी ददातु मे ।
वसूनि नो वसुदा रासमाना देवी दधातु सुमनस्यमाना ॥ १२.१.४४ ॥

愿以多种方式承载宝藏、隐藏的财富、宝石与黄金的大地赐予我。愿施予财富、慷慨、心怀善意的女神为我们安置财富。

12.1.45

जनं बिभ्रती बहुधा विवाचसं नानाधर्माणं पृथिवी यथौकसम् ।
सहस्रं धारा द्रविणस्य मे दुहां ध्रुवेव धेनुरनपस्फुरन्ती ॥ १२.१.४५ ॥

大地以多种方式承载说着多种语言、性情各异的众人,如承载自己的居所;愿她为我挤出千道财富之流,如同不动摇的稳定母牛。

12.1.46

यस्ते सर्पो वृश्चिकस्तृष्टदंश्मा हेमन्तजब्धो भृमलो गुहा शये ।
क्रिमिर्जिन्वत्पृथिवि यद्यदेजति प्रावृषि तन् नः सर्पन् मोप सृपद्यच्छिवं तेन नो मृड ॥ १२.१.४६ ॥

大地啊,凡在你之中的蛇与蝎,以毒刺咬人者,被寒冬冻僵的、褐色的、藏身洞穴中的;凡虫类蠕动,凡雨季中有所动作者,愿它不爬向我们、不靠近我们。以吉祥之物,慈悲地待我们。

12.1.47

ये ते पन्थानो बहवो जनायना रथस्य वर्त्मानसश्च यातवे ।
यैः संचरन्त्युभये भद्रपापास्तं पन्थानं जयेमानमित्रमतस्करं यच्छिवं तेन नो मृड ॥ १२.१.४७ ॥

你那许多道路,供人行走,供车辆通行,善人与恶人都由此往来;愿我们征服那条道路,无敌无贼。以吉祥之物,慈悲地待我们。

12.1.48

मल्वं बिभ्रती गुरुभृद्भद्रपापस्य निधनं तितिक्षुः ।
वराहेण पृथिवी संविदाना सूकराय वि जिहीते मृगाय ॥ १२.१.४८ ॥

承载污秽,承担重负,忍受善恶的终结,与野猪相契合的大地,为野猪和鹿而敞开自己。

12.1.49

ये त आरण्याः पशवो मृगा वने हिताः सिंहा व्याघ्राः पुरुषादश्चरन्ति ।
उलं वृकं पृथिवि दुछुनामित ऋक्षीकां रक्षो अप बाधयास्मत् ॥ १२.१.४९ ॥

凡你的林中野兽、鹿、狮子、虎、食人者在游荡,啊大地,请将豺狼、狼、丑面者与熊形罗刹Ṛkṣīkā从此处驱离我们。

12.1.50

ये गन्धर्वा अप्सरसो ये चारायाः किमीदिनः ।
पिशाचान्त्सर्वा रक्षांसि तान् अस्मद्भूमे यावय ॥ १२.१.५० ॥

乾闥婆与阿提罗摩,游荡的遮罗耶与奇弥丁,所有毕舍遮与罗刹——大地啊,把他们从我们身边驱走吧!

12.1.51

यां द्विपादः पक्षिणः संपतन्ति हंसाः सुपर्णाः शकुना वयांसि ।
यस्यां वातो मातरिश्वेयते रजांसि कृण्वंश्च्यावयंश्च वृक्षान् ।
वातस्य प्रवामुपवामनु वात्यर्चिः ॥ १२.१.५१ ॥

在其上,两足众生与飞禽、天鹅、金翅鸟及一切鸟类飞翔;其中,风神摩多利sva吹动,扬起尘土、摇撼树木;随着风的前后吹拂,火焰随之燃烧。

12.1.52

यस्यां कृष्णमरुणं च संहिते अहोरात्रे विहिते भूम्यामधि ।
वर्षेण भूमिः पृथिवी वृतावृता सा नो दधातु भद्रया प्रिये धामनिधामनि ॥ १२.१.५२ ॥

在大地之上,黑与赤、夜与昼相合而设立;广阔的大地被雨水一再覆盖——愿她以吉祥之福,在每一处可爱的居所中护持我们。

12.1.53

द्यौश्च म इदं पृथिवी चान्तरिक्षं च मे व्यचः ।
अग्निः सूर्य आपो मेधां विश्वे देवाश्च सं ददुः ॥ १२.१.५३ ॥

天、此地与虚空,是我的广阔;火神、日神、诸水与一切天神共同赐予我智慧。

12.1.54

अहमस्मि सहमान उत्तरो नाम भूम्याम् ।
अभीषाडस्मि विश्वाषाडाशामाशां विषासहिः ॥ १२.१.५४ ॥

我是胜利者,至高者,在大地上名为「乌答罗」;我是一切近前之物的征服者,一切的征服者,在每一方向都获胜的人。

12.1.55

अदो यद्देवि प्रथमाना पुरस्ताद्देवैरुक्ता व्यसर्पो महित्वम् ।
आ त्वा सुभूतमविशत्तदानीमकल्पयथाः प्रदिशश्चतस्रः ॥ १२.१.५५ ॥

女神啊,你在古时被诸神宣告为首位,你展开了你的伟大。那时丰盛进入了你,你安排了四方。

12.1.56

ये ग्रामा यदरण्यं याः सभा अधि भूम्याम् ।
ये संग्रामाः समितयस्तेषु चारु वदेम ते ॥ १२.१.५६ ॥

在大地上的村落、荒野、集会、战斗与聚会中,愿我们对你说善言。

12.1.57

अश्व इव रजो दुधुवे वि तान् जनान् य आक्षियन् पृथिवीं यादजायत ।
मन्द्राग्रेत्वरी भुवनस्य गोपा वनस्पतीनां गृभिरोषधीनाम् ॥ १२.१.५७ ॥

她如马一般抖落尘土,她出生时,便将居住在大地上的那些民族分开。她可爱而先行,是世界的守护者,握于树木与草药之中。

12.1.58

यद्वदामि मधुमत्तद्वदामि यदीक्षे तद्वनन्ति मा ।
त्विषीमान् अस्मि जूतिमान् अवान्यान् हन्मि दोधतः ॥ १२.१.५८ ॥

我所说的甘甜,我所看的,他们为我赢得。我光辉而充满活力;我击打那些抗拒我的低下者。

12.1.59

शन्तिवा सुरभिः स्योना कीलालोध्नी पयस्वती ।
भूमिरधि ब्रवीतु मे पृथिवी पयसा सह ॥ १२.१.५९ ॥

带来安宁、芬芳、慈和,乳房充满乳汁,富于乳液的大地,愿与乳汁一同对我说话。

12.1.60

यामन्वैच्छद्धविषा विश्वकर्मान्तरर्णवे रजसि प्रविष्टाम् ।
भुजिष्यं पात्रं निहितं गुहा यदाविर्भोगे अभवन् मातृमद्भ्यः ॥ १२.१.६० ॥

毗湿伐羯磨以供物寻求的她,进入了海洋深处与虚空;如珍贵的器皿藏于洞中,当她在享用中显现时,便属于有母之人。

12.1.61

त्वमस्यावपनी जनानामदितिः कामदुघा पप्रथाना ।
यत्त ऊनं तत्त आ पूरयाति प्रजापतिः प्रथमजा ऋतस्य ॥ १२.१.६१ ॥

你是这些民族的播种者,阿底提,满足欲望的乳牛,广延伸展。你所缺少的,由秩序的长子生主补足。

12.1.62

उपस्थास्ते अनमीवा अयक्ष्मा अस्मभ्यं सन्तु पृथिवि प्रसूताः ।
दीर्घं न आयुः प्रतिबुध्यमाना वयं तुभ्यं बलिहृतः स्याम ॥ १२.१.६२ ॥

愿从你怀中生出的,对我们而言无病无痨,大地啊。我们保持警醒,获得长寿,并成为向你献上供品的人。

12.1.63

भूमे मातर्नि धेहि मा भद्रया सुप्रतिष्ठितम् ।
संविदाना दिवा कवे श्रियां मा धेहि भूत्याम् ॥ १२.१.६३ ॥

大地啊,母亲,以吉祥使我稳固安立。智者啊,白昼中与我和谐,使我安立于光辉与兴旺之中。