阿闼婆吠陀 · 颂诗(Sūkta) 15.2
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
15.2.1
स उदतिष्ठत्स प्राचीं दिशमनु व्यचलत् ॥ १५.२.१ ॥
他起身,沿着东方的方向前行。
15.2.2
तं बृहच्च रथन्तरं चादित्याश्च विश्वे च देवा अनुव्यचलन् ॥ १५.२.२ ॥
跟随他的有布哈特与罗陀檀多罗,阿ditya们以及一切诸神。
15.2.3
बृहते च वै स रथन्तराय चादित्येभ्यश्च विश्वेभ्यश्च देवेभ्य आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति ॥ १५.२.३ ॥
凡诽谤如此明智之婆罗多者,必将与布哈特、罗陀檀多罗、阿ditya们及一切诸神完全隔绝。
15.2.4
बृहतश्च वै स रथन्तरस्य चादित्यानां च विश्वेषां च देवानां प्रियं धाम भवति य एवं वेद ॥ १५.२.४ ॥
如此明智之人,将成为布哈特、罗陀檀多罗、阿ditya们及一切诸神所爱的居所。
15.2.5
तस्य प्राच्यां दिशि श्रद्धा पुंश्चली मित्रो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः ॥ १५.२.५ ॥
其东方之域有信仰、娼妓、蜜特拉·摩揭陀、以智慧为衣、以白昼为头巾、以黑夜为发、两轮青色的车、宝珠迦尔玛利。
15.2.6
भूतं च भविष्यच्च परिष्कन्दौ मनो विपथं ॥ १५.२.६ ॥
过去与未来为两侍从;心为歧途。
15.2.7
मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः ॥ १५.२.७ ॥
摩多利湿梵与净风是偏离之路的两匹驾马;风是御者,缰绳(reṣmā)与马鞭(pratoda)。
15.2.8
कीर्तिश्च यशश्च पुरःसरौ ।
ऐनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद ॥ १५.२.८ ॥
名声(kīrti)与荣誉(yaśas)是走在前面的两者。知此者,名声来到他那里,荣誉来到他那里。
15.2.9
स उदतिष्ठत्स दक्षिणां दिशमनु व्यचलत् ॥ १५.२.९ ॥
他起身,向南方而行。
15.2.10
तं यज्ञायज्ञियं च वामदेव्यं च यज्ञश्च यजमानश्च पशवश्चानुव्यचलन् ॥ १५.२.१० ॥
祭祀颂(yajñāyajñīya)与婆摩提婆颂(vāmadevya)、祭祀、施主与牲畜都跟随他而行。
15.2.11
यज्ञायज्ञियाय च वै स वामदेव्याय च यज्ञाय च यजमानाय च पशुभ्यश्चा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति ॥ १५.२.११ ॥
向如此知晓的vrātya说话者,不会与祭祀颂、婆摩提婆颂、祭祀、施主及牲畜相分离。
15.2.12
यज्ञायज्ञियस्य च वै स वामदेव्यस्य च यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति य एवं वेद ॥ १५.२.१२ ॥
知此者,成为祭祀颂与婆摩提婆颂、祭祀、施主及牲畜所喜爱的住所。
15.2.13
तस्य दक्षिणायां दिश्युषाः पुंश्चली मन्त्रो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः ॥ १५.२.१३ ॥
在他的南方是乌莎,妓女;咒语是颂诗人;知识是衣服;白昼是头巾;夜晚是头发;两个绿色的推动者;卡尔马利是宝石。
15.2.14
अमावास्या च पौर्णमासी च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः ।
कीर्तिश्च यशश्च पुरःसरौ ।
ऐनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद ॥ १५.२.१४ ॥
新月之夜与满月之夜是两侧奔驰者;心是歧途;摩怛利湿鸡与净风是歧途的两匹驾车马;风是御者;缰绳是鞭子。名声与荣耀是两个前导。凡如此知之者,名声与荣耀便归于他。
15.2.15
स उदतिष्ठत्स प्रतीचीं दिशमनु व्यचलत् ॥ १५.२.१५ ॥
他起身,向西方而去。
15.2.16
तं वैरूपं च वैराजं चापश्च वरुणश्च राजानुव्यचलन् ॥ १५.२.१६ ॥
随后,维卢帕与维罗阇、诸水以及国王伐楼那也出发了。
15.2.17
वैरूपाय च वै स वैराजाय चाद्भ्यश्च वरुणाय च राज्ञ आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति ॥ १५.२.१७ ॥
凡诽谤如此知之的vrātya者,便与维卢帕、维罗阇、诸水以及国王伐楼那相隔绝。
15.2.18
वैरूपस्य च वै स वैराजस्य चापां च वरुणस्य च राज्ञः प्रियं धाम भवति य एवं वेद ॥ १५.२.१८ ॥
凡如此知之者,成为维卢帕、维罗阇、诸水及国王伐楼那所喜爱的居所。
15.2.19
तस्य प्रतीच्यां दिशीरा पुंश्चली हसो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः ॥ १५.२.१९ ॥
在他的西方,有伊罗、淫荡女、天鹅、赞者;知识是他的衣服,白昼是他的头巾,黑夜是他的头发,两只绿色的转轮,斑点是他的宝珠。
15.2.20
अहश्च रात्री च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः ।
कीर्तिश्च यशश्च पुरःसरौ ।
ऐनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद ॥ १५.२.२० ॥
昼与夜是他的两个奔驰者;心是歧途;摩多利溪婆与净风是歧途之两马;风是御者;鞭子是策;名声与荣誉是前行者。凡如此知者,名声来到他那里,荣誉来到他那里。
15.2.21
स उदतिष्ठत्स उदीचीं दिशमनु व्यचलत् ॥ १५.२.२१ ॥
他站起来,向北方出发了。
15.2.22
तं श्यैतं च नौधसं च सप्तर्षयश्च सोमश्च राजानुव्यचलन् ॥ १५.२.२२ ॥
舍伊泰与瑙陀娑、七仙人,以及国王苏摩,都跟随着他前行。
15.2.23
श्यैताय च वै स नौधसाय च सप्तर्षिभ्यश्च सोमाय च राज्ञ आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति ॥ १५.२.२३ ॥
若有人如此诽谤知晓此理的伐罗多,便会与舍伊泰、瑙陀娑、七仙人及国王苏摩断绝联系。
15.2.24
श्यैतस्य च वै स नौधसस्य च सप्तर्षीणां च सोमस्य च राज्ञः प्रियं धाम भवति य एवं वेद ॥ १५.२.२४ ॥
凡如此知者,便成为舍伊泰、瑙陀娑、七仙人与国王苏摩所喜爱的居所。
15.2.25
तस्योदीच्यां दिशि विद्युत्पुंश्चली स्तनयित्नुर्मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः ॥ १५.२.२५ ॥
在他的北方:闪电是妓女,雷鸣是颂诗人;智慧是他的衣裳,白昼是他的头巾,夜晚是他的头发,两个绿色是车轮的轮缘,卡尔玛利是宝珠。
15.2.26
श्रुतं च विश्रुतं च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः ॥ १५.२.२६ ॥
闻与善闻是两位奔者;意是歧途;摩多利什文与清风是歧途的驾者;风是御者;尘埃是马鞭。
15.2.27
कीर्तिश्च यशश्च पुरःसरौ ॥ १५.२.२७ ॥
名声与荣誉是前行的二者。
15.2.28
ऐनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद ॥ १५.२.२८ ॥
名声降临于他,荣誉降临于他,凡如此知者。