阿闼婆吠陀 · 颂诗(Sūkta) 19.10
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
19.10.1
शं न इन्द्राग्नी भवतामवोभिः शं न इन्द्रावरुणा रातहव्या ।
शमिन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ ॥ १९.१०.१ ॥
愿因陀罗与阿耆尼以其护佑赐予我们安宁。愿接受祭品的因陀罗与伐楼那赐予我们安宁。愿因陀罗与苏摩为幸福赐予安宁与福祉。愿因陀罗与普沙在争取财富时赐予我们安宁。
19.10.2
शं नो भगः शमु नः शंसो अस्तु शं नः पुरंधिः शमु सन्तु रायः ।
शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु ॥ १९.१०.२ ॥
愿薄伽赐予我们安宁,愿我们的赞颂也带来安宁。愿普兰迪赐予我们安宁,愿财富也带来安宁。愿对真理与善制的赞颂为我们带来安宁。愿多生的阿利耶曼为我们带来安宁。
19.10.3
शं नो धाता शमु धर्ता नो अस्तु शं न उरूची भवतु स्वधाभिः ।
शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु ॥ १९.१०.३ ॥
愿授予者赐予我们安宁,愿持守者亦属于我们。愿广大的女神乌鲁吉以其斯瓦陀赐予我们安宁。愿伟大的天地二者为我们带来安宁;愿压榨石也为我们带来安宁。愿诸神的善召唤为我们带来安宁。
19.10.4
शं नो अग्निर्ज्योतिरनीको अस्तु शं नो मित्रावरुणावश्विना शम् ।
शं नः सुकृतां सुकृतानि सन्तु शं न इषिरो अभि वातु वातः ॥ १९.१०.४ ॥
愿以光明为面的阿耆尼为我们带来安宁。愿弥多罗与伐楼那,以及双马童,为我们带来安宁。愿行善者的善行为我们带来安宁。愿迅疾的风向我们吹来,带着安宁。
19.10.5
शं नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशये नो अस्तु ।
शं न ओषधीर्वनिनो भवन्तु शं नो रजसस्पतिरस्तु जिष्णुः ॥ १९.१०.५ ॥
在最初的呼唤中,愿天与地赐予我们安宁。愿中界为我们的视野带来安宁。愿草木为我们带来安宁。愿空间的得胜之主为我们带来安宁。
19.10.6
शं न इन्द्रो वसुभिर्देवो अस्तु शमादित्येभिर्वरुणः सुशंसः ।
शं नो रुद्रो रुद्रेभिर्जलाषः शं नस्त्वष्टा ग्नाभिरिह शृणोतु ॥ १९.१०.६ ॥
愿天神因陀罗与诸婆苏同在,赐我们平安;愿善被赞颂的伐楼那与诸阿提耶同在,赐我们平安。愿施水的楼陀罗与诸楼陀罗赐我们平安;愿特瓦希多与其妻在此听取我们。
19.10.7
शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शमु सन्तु यज्ञाः ।
शं नः स्वरूनां मितयो भवन्तु शं नः प्रस्वः शं वस्तु वेदिः ॥ १९.१०.७ ॥
愿苏摩为我们带来平安,神圣的梵言赐我们平安;愿压榨石带来平安,愿祭祀平安。愿神圣支柱的尺度赐我们平安;愿压榨之处平安,祭坛平安。
19.10.8
शं नः सूर्य उरुचक्षा उदेतु शं नो भवन्तु प्रदिशश्चतस्रः ।
शं नः पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शमु सन्त्वापः ॥ १९.१०.८ ॥
愿广视之太阳为我们安详升起;愿四方为我们带来平安。愿坚固的山岳赐我们平安;愿河流平安,愿水域平安。
19.10.9
शं नो अदितिर्भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्काः ।
शं नो विष्णुः शमु पूषा नो अस्तु शं नो भवित्रं शं वस्तु वायुः ॥ १९.१०.९ ॥
愿阿底提以其誓戒赐我们平安;愿善歌的摩录多赐我们平安。愿毗湿奴赐我们平安,愿普善也赐我们平安;愿福祉平安,愿风神赐我们平安。
19.10.10
शं नो देवः सविता त्रायमाणः शं नो भवन्तूषसो विभातीः ।
शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिरस्तु शंभुः ॥ १९.१०.१० ॥
愿护佑之神娑维陀赐我们平安;愿光辉的晨曦赐我们平安。愿帕尔贾尼亚对我们的子孙平安;愿田地之主商布赐我们平安。