Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 19.13

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

19.13.1

इन्द्रस्य बाहू स्थविरौ वृषाणौ चित्रा इमा वृषभौ पारयिष्णू ।
तौ योक्षे प्रथमो योग आगते याभ्यां जितमसुराणां स्वर्यत् ॥ १९.१३.१ ॥

因陀罗的两臂坚实如公牛,奇妙而能渡人。它们到来时,我先将这两臂套上第一轭,凭它们战胜了阿修罗,并得以趋向天光。

19.13.2

आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् ।
संक्रन्दनोऽनिमिष एकवीरः शतं सेना अजयत्साकमिन्द्रः ॥ १९.१३.२ ॥

迅捷、锐利、如公牛般可畏,击杀击杀者,震动众人,于战中咆哮,目不转睛,独一无二的英雄因陀罗一并战胜了一百支军队。

19.13.3

संक्रन्दनेनानिमिषेण जिष्णुनायोध्येन दुश्च्यवनेन धृष्णुना ।
तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा ॥ १९.१३.३ ॥

凭借那咆哮者、不瞬者、胜利者、不可攻破者、难以撼动者、勇猛者——借那因陀罗而获胜吧,一同坚持吧,战士们,人们啊,借那手持箭矢的雄健者。

19.13.4

स इषुहस्तैः स निषङ्गिभिर्वशी संस्रष्टा स युध इन्द्रो गणेन ।
संसृष्टजित्सोमपा बाहुशर्ध्युग्रधन्वा प्रतिहिताभिरस्ता ॥ १९.१३.४ ॥

他是因陀罗——手持箭矢,携带箭囊,征服者,聚集战士者,率领其众,战胜聚集之敌,饮用苏摩,臂力强盛,持猛烈弓——箭已搭好。

19.13.5

बलविज्ञायः स्थविरः प्रवीरः सहस्वान् वाजी सहमान उग्रः ।
अभिवीरो अभिषत्वा सहोजिज्जैत्रमिन्द्र रथमा तिष्ठ गोविदम् ॥ १९.१३.५ ॥

以力量著称,坚定,首要的英雄,能忍耐,强盛,克服一切,猛烈,面对群雄,压倒对手,以力取胜者——啊因陀罗,登上那使你获胜、寻得牛群的战车吧!

19.13.6

इमं वीरमनु हर्षध्वमुग्रमिन्द्रं सखायो अनु सं रभध्वम् ।
ग्रामजितं गोजितं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा ॥ १९.१३.६ ॥

朋友们,随这位英雄欢欣吧;追随猛烈的因陀罗,同心振奋起来——他征服村落,征服牛群,手持金刚杵,在竞争中取胜,以力量碾碎敌人。

19.13.7

अभि गोत्राणि सहसा गाहमानोऽदाय उग्रः शतमन्युरिन्द्रः ।
दुश्च्यवनः पृतनाषाडयोध्योऽस्माकं सेना अवतु प्र युत्सु ॥ १९.१३.७ ॥

以力量深入敌人牛栏的、不屈的、猛烈的、怀百种怒火的因陀罗——不可撼动,征服军队,无可攻破;愿他在战斗中护卫我们的军队。

19.13.8

बृहस्पते परि दीया रथेन रक्षोहामित्रामपबाधमानः ।
प्रभञ्जंछत्रून् प्रमृणन्न् अमित्रान् अस्माकमेध्यविता तनूनाम् ॥ १९.१३.८ ॥

啊,布哈斯帕蒂,乘车环绕而行,诛杀罗刹,驱赶敌人;击碎、摧毁敌人与仇敌,愿你成为我们身体的守护者。

19.13.9

इन्द्र एषां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः ।
देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्तु मध्ये ॥ १९.१३.९ ॥

愿因陀罗为他们的领袖;愿布哈斯帕蒂、达克希那、祭祀与苏摩走在前面;愿风神们行于破敌获胜的诸神军队之中。

19.13.10

इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्ध उग्रम् ।
महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् ॥ १९.१३.१० ॥

雄健的因陀罗、国王伐楼那、阿底提亚们与风神们的猛烈战声响起了——那些心胸宏大、震动世界、得胜的诸神之声已经升起。

19.13.11

अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु ।
अस्माकं वीरा उत्तरे भवन्त्वस्मान् देवासोऽवता हवेषु ॥ १९.१३.११ ॥

在集结的战阵与旗帜之中,愿因陀罗站在我们一边。愿我们的箭取得胜利。愿我们的勇士居于上风。在战斗的呼声中,诸神啊,请保护我们。