阿闼婆吠陀 · 颂诗(Sūkta) 19.27
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
19.27.1
गोभिष्ट्वा पात्वृषभो वृषा त्वा पातु वाजिभिः ।
वायुष्ट्वा ब्रह्मणा पात्विन्द्रस्त्वा पात्विन्द्रियैः ॥ १९.२७.१ ॥
愿公牛Ṛṣabha以牛群护佑你,愿雄健的Vṛṣā以力量护佑你。愿Vāyu以梵力护佑你,愿Indra以诸根护佑你。
19.27.2
सोमस्त्वा पात्वोषधीभिर्नक्षत्रैः पातु सूर्यः ।
माद्भ्यस्त्वा चन्द्रो वृत्रहा वातः प्राणेन रक्षतु ॥ १९.२७.२ ॥
愿Soma以草药护佑你,愿太阳以星宿护佑你。愿杀死Vṛtra的月神使你免于醉人之水;愿风以气息守护你。
19.27.3
तिस्रो दिवस्तिस्रः पृथिवीस्त्रीण्यन्तरिक्षाणि चतुरः समुद्रान् ।
त्रिवृतं स्तोमं त्रिवृत आप आहुस्तास्त्वा रक्षन्तु त्रिवृता त्रिवृद्भिः ॥ १९.२७.३ ॥
三天、三地、三中界与四海——人们称三重赞颂与三重之水。愿它们与三重者一同护佑你。
19.27.4
त्रीन् नाकांस्त्रीन् समुद्रांस्त्रीन् ब्रध्नांस्त्रीन् वैष्टपान् ।
त्रीन् मातरिश्वनस्त्रीन्त्सूर्यान् गोप्तॄन् कल्पयामि ते ॥ १९.२७.४ ॥
三界天、三海、三根基、三居所、三风神、三太阳——我为你设立它们为守护者。
19.27.5
घृतेन त्वा समुक्षाम्यग्ने आज्येन वर्धयन् ।
अग्नेश्चन्द्रस्य सूर्यस्य मा प्राणं मायिनो दभन् ॥ १९.२७.५ ॥
我以酥油涂抹你,啊阿耆尼,以澄清酥油使你增长。愿阿耆尼、月与日的气息不被欺诈者所伤害。
19.27.6
मा वः प्राणं मा वोऽपानं मा हरो मायिनो दभन् ।
भ्राजन्तो विश्ववेदसो देवा दैव्येन धावत ॥ १९.२७.६ ॥
愿诡诈者不夺取、不伤害你们的生气与下气。光明的诸神,全知者啊,以神力奔来。
19.27.7
प्राणेनाग्निं सं सृजति वातः प्राणेन संहितः ।
प्राणेन विश्वतोमुखं सूर्यं देवा अजनयन् ॥ १९.२७.७ ॥
风与生气相合,以生气生出火。боги以生气生出面向四方的太阳。
19.27.8
आयुषायुःकृतां जीवायुष्मान् जीव मा मृथाः ।
प्राणेनात्मन्वतां जीव मा मृत्योरुदगा वशम् ॥ १९.२७.८ ॥
以寿命,与赐予寿命者同在,长寿而生,不要死去。以生气,有灵魂地生活,不要落入死亡之手。
19.27.9
देवानां निहितं निधिं यमिन्द्रोऽन्वविन्दत्पथिभिर्देवयानैः ।
आपो हिरण्यं जुगुपुस्त्रिवृद्भिस्तास्त्वा रक्षन्तु त्रिवृता त्रिवृद्भिः ॥ १९.२७.९ ॥
诸神隐藏的宝藏,因陀罗沿着神道找到;水以三重之力守护着黄金。愿它们以三重之力护佑你。
19.27.10
त्रयस्त्रिंशद्देवतास्त्रीणि च वीर्याणि प्रियायमाणा जुगुपुरप्स्वन्तः ।
अस्मिंश्चन्द्रे अधि यद्धिरण्यं तेनायं कृणवद्वीर्याणि ॥ १९.२७.१० ॥
三十三位神祇与三种力量,珍爱它,在水中守护着它;愿此人借这月亮上的黄金,生出自己的力量。
19.27.11
ये देवा दिव्येकादश स्थ ते देवासो हविरिदं जुषध्वम् ॥ १९.२७.११ ॥
在天上为十一者的诸神啊,请享用此供物。
19.27.12
ये देवा अन्तरिक्ष एकादश स्थ ते देवासो हविरिदं जुषध्वम् ॥ १९.२७.१२ ॥
在虚空中有十一位的诸神啊,诸神啊,请享受这份供品。
19.27.13
ये देवा पृथिव्यामेकादश स्थ ते देवासो हविरिदं जुषध्वम् ॥ १९.२७.१३ ॥
在大地上有十一位的诸神啊,诸神啊,请享受这份供品。
19.27.14
असपत्नं पुरस्तात्पश्चान् नो अभयं कृतम् ।
सविता मा दक्षिणत उत्तरान् मा शचीपतिः ॥ १९.२७.१४ ॥
愿东方为我们带来无敌之境,西方带来无惧之安。愿萨维特里从南方护我,愿舍基之主从北方护我。
19.27.15
दिवो मादित्या रक्षन्तु भूम्या रक्षन्त्वग्नयः ।
इन्द्राग्नी रक्षतां मा पुरस्तादश्विनावभितः शर्म यच्छताम् ।
तिरश्चीन् अघ्न्या रक्षतु जातवेदा भूतकृतो मे सर्वतः सन्तु वर्म ॥ १९.२७.१५ ॥
愿诸阿底提从天护我,愿诸火从地护我。愿因陀罗与阿耆尼从前护我,愿双马童从两侧赐我庇护。愿不可伤害的母牛从斜侧护我;愿遍知者与造物主在四方成为我的铠甲。