アタルヴァ・ヴェーダ · スークタ 19.30
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
19.30.1
यत्ते दर्भ जरामृत्यु शतं वर्मसु वर्म ते ।
तेनेमं वर्मिणं कृत्वा सपत्नां जहि वीर्यैः ॥ १९.३०.१ ॥
ダルバ草よ、老いと死に対するおまえの百の鎧のうち、おまえこそが鎧である。それによってこの人を鎧をまとった者とし、おまえの力で敵を打ち倒せ。
19.30.2
शतं ते दर्भ वर्माणि सहस्रं वीर्याणि ते ।
तमस्मै विश्वे त्वां देवा जरसे भर्तवा अदुः ॥ १९.३०.२ ॥
ダルバ草よ、おまえには百の鎧と千の力がある。老いに至るまで身につけさせるため、すべての神々がこの人のためにおまえを与えた。
19.30.3
त्वामाहुर्देववर्म त्वां दर्भ ब्रह्मणस्पतिम् ।
त्वामिन्द्रस्याहुर्वर्म त्वं राष्ट्राणि रक्षसि ॥ १९.३०.३ ॥
ダルバ草よ、人々はおまえを神々の鎧と呼ぶ。ダルバ草よ、おまえを祈りの主ブラフマナスパティと呼ぶ。おまえをインドラの鎧と呼ぶ。おまえは国々を守る。
19.30.4
सपत्नक्षयणं दर्भ द्विषतस्तपनं हृदः ।
मणिं क्षत्रस्य वर्धनं तनूपानं कृणोमि ते ॥ १९.३०.४ ॥
ダルバ草よ、おまえは敵を滅ぼし、敵意ある者の心を焼く。戦士を増し、身体を守る宝珠として、おまえのためにこれを作る。
19.30.5
यत्समुद्रो अभ्यक्रन्दत्पर्जन्यो विद्युता सह ।
ततो हिरण्ययो बिन्दुस्ततो दर्भो अजायत ॥ १९.३०.५ ॥
海が吠え、雨雲が稲妻と合わさったとき、そこから金色の滴が生じた。そこからダルバ草が生まれた。