Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 19.31

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

19.31.1

औदुम्बरेण मणिना पुष्टिकामाय वेधसा ।
पशूनां सर्वेषां स्फातिं गोष्ठे मे सविता करत् ॥ १९.३१.१ ॥

以无花果木护符,为求兴旺者,借造物主之力,愿萨维特里在我的牛栏中使一切牲畜增多。

19.31.2

यो नो अग्निर्गार्हपत्यः पशूनामधिपा असत् ।
औदुम्बरो वृषा मणिः सं मा सृजतु पुष्ट्या ॥ १९.३१.२ ॥

愿我们的家火成为牲畜之主;愿强健的无花果木护符使我与兴旺相连。

19.31.3

करीषिणीं फलवतीं स्वधामिरां च नो गृहे ।
औदुम्बरस्य तेजसा धाता पुष्टिं दधातु मे ॥ १९.३१.३ ॥

愿我们的家中多肥沃、多果实,富有食物与饲草;借无花果木的光辉,愿安排者赐我兴旺。

19.31.4

यद्द्विपाच्च चतुष्पाच्च यान्यन्नानि ये रसाः ।
गृह्णेऽहं त्वेषां भूमानं बिभ्रदौदुम्बरं मणिम् ॥ १९.३१.४ ॥

凡是两足的、四足的,凡是食物与汁液,我佩戴无花果木护符,承受它们活力的丰盛。

19.31.5

पुष्टिं पशूनां परि जग्रभाहं चतुष्पदां द्विपदां यच्च धान्यम् ।
पयः पशूनां रसमोषधीनां बृहस्पतिः सविता मे नि यच्छात् ॥ १९.३१.५ ॥

我已完全获得牲畜的兴旺——四足、两足与谷物的;牲畜的乳,药草的汁——愿布里哈斯帕蒂与萨维特里将这些赐予我。

19.31.6

अहं पशूनामधिपा असानि मयि पुष्टं पुष्टपतिर्दधातु ।
मह्यमौदुम्बरो मणिर्द्रविणानि नि यच्छतु ॥ १९.३१.६ ॥

愿我成为牲畜之主;愿兴旺在我身中确立;愿兴旺之主将其置于我身;愿无花果木护符赐我财富。

19.31.7

उप मौदुम्बरो मणिः प्रजया च धनेन च ।
इन्द्रेण जिन्वितो मणिरा मागन्त्सह वर्चसा ॥ १९.३१.७ ॥

愿乌敦跋罗护符与子嗣、财富一同靠近我。愿因因陀罗而被激发的护符与威力一同来到我身边。

19.31.8

देवो मणिः सपत्नहा धनसा धनसातये ।
पशोरन्नस्य भूमानं गवां स्फातिं नि यच्छतु ॥ १९.३१.८ ॥

这神圣的护符能杀死敌人,能赢得财富。愿它稳稳地赐予牲畜、食物的丰裕以及牛群的增长。

19.31.9

यथाग्रे त्वं वनस्पते पुष्ट्या सह जज्ञिषे ।
एवा धनस्य मे स्फातिमा दधातु सरस्वती ॥ १९.३१.९ ॥

正如你,林中之主,最初便伴随繁盛而生,愿萨拉斯瓦蒂为我确立财富的增长。

19.31.10

आ मे धनं सरस्वती पयस्फातिं च धान्यम् ।
सिनीवाल्युपा वहादयं चौदुम्बरो मणिः ॥ १९.३१.१० ॥

愿萨拉斯瓦蒂为我带来财富、牛奶的增长和谷物。愿西尼瓦利与这乌敦跋罗护符将其带近。

19.31.11

त्वं मणीणामधिपा वृषासि त्वयि पुष्टं पुष्टपतिर्जजान ।
त्वयीमे वाजा द्रविणानि सर्वौदुम्बरः स त्वमस्मत्सहस्वारादारादरातिममतिं क्षुधं च ॥ १९.३१.११ ॥

你是护符之主,是强者。繁盛在你之中生起;繁盛之主生出了你。这一切力量与财富都在你之中。乌敦跋罗啊,请将敌意、恶意与饥饿从我们身边远远地驱走吧。

19.31.12

ग्रामणीरसि ग्रामणीरुत्थाय अभिषिक्तोऽभि मा सिञ्च वर्चसा ।
तेजोऽसि तेजो मयि धारयाधि रयिरसि रयिं मे धेहि ॥ १९.३१.१२ ॥

你是村庄之长;村庄之长啊,起身受膏,将威光洒于我身。你是光辉,请在我之中确立光辉。你是财富,请将财富置于我身。

19.31.13

पुष्टिरसि पुष्ट्या मा समङ्ग्धि गृहमेधी गृहपतिं मा कृणु ।
औदुम्बरः स त्वमस्मासु धेहि रयिं च नः सर्ववीरं नि यच्छ रायस्पोषाय प्रति मुञ्चे अहं त्वाम् ॥ १९.३१.१३ ॥

你是滋养;以滋养使我圆满,使我成为持家者,使我成为家主。优敦跋啰(无花果木),你请在我们之中安置财富,赐予我们与一切英雄之子同在的财富。为了财富的增长,我系上你。

19.31.14

अयमौदुम्बरो मणिर्वीरो वीराय बध्यते ।
स नः सनिं मधुमतीं कृणोतु रयिं च नः सर्ववीरं नि यच्छात् ॥ १९.३१.१४ ॥

这枚优敦跋啰护符是英雄;它为英雄而系上。愿他为我们带来甘甜的收获,并赐予我们与一切英雄之子同在的财富。