阿闼婆吠陀 · 颂诗(Sūkta) 19.46
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
19.46.1
प्रजापतिष्ट्वा बध्नात्प्रथममस्तृतं वीर्याय कम् ।
तत्ते बध्नाम्यायुषे वर्चस ओजसे च बलाय चास्तृतस्त्वाभि रक्षतु ॥ १९.४६.१ ॥
生主起初以不死(护符)束缚你,为了力量与安康。我同样把这束缚系在你身上,为了长寿、光辉、活力与气力;愿不死者从四面保护你。
19.46.2
ऊर्ध्वस्तिष्ठतु रक्षन्न् अप्रमादमस्तृतेमं मा त्वा दभन् पणयो यातुधानाः ।
इन्द्र इव दस्यून् अव धूनुष्व पृतन्यतः सर्वां छत्रून् वि षहस्वास्तृतस्त्वाभि रक्षतु ॥ १९.४६.२ ॥
啊,不死者,愿此人挺立,不懈守护。愿Paṇi与法术魔不伤害你。如因陀罗那般抖落达修,战胜所有成群来犯的敌人;愿不死者从四面保护你。
19.46.3
शतं च न प्रहरन्तो निघ्नन्तो न तस्तिरे ।
तस्मिन्न् इन्द्रः पर्यदत्त चक्षुः प्राणमथो बलमस्तृतस्त्वाभि रक्षतु ॥ १९.४६.३ ॥
纵有百敌击打、杀害,也不能战胜他。因陀罗在他身上置入了视力、气息与力量;愿不死者从四面保护你。
19.46.4
इन्द्रस्य त्वा वर्मणा परि धापयामो यो देवानामधिराजो बभूव ।
पुनस्त्वा देवाः प्र णयन्तु सर्वेऽस्तृतस्त्वाभि रक्षतु ॥ १९.४६.४ ॥
我们以因陀罗的铠甲将你环绕,他在诸神中成为至尊之王。愿诸神再次引领你前行;愿不死者从四面保护你。
19.46.5
अस्मिन् मणावेकशतं वीर्याणि सहस्रं प्राणा अस्मिन्न् अस्तृते ।
व्याघ्रः शत्रून् अभि तिष्ठ सर्वान् यस्त्वा पृतन्यादधरः सो अस्त्वस्तृतस्त्वाभि रक्षतु ॥ १९.४६.५ ॥
此护符中有一百种力量与一千口气息。不散之物啊,如虎般立于一切敌人之上;凡以军队之势攻击你者,愿他低落。愿不散者守护你。
19.46.6
घृतादुल्लुप्तो मधुमान् पयस्वान्त्सहस्रप्राणः शतयोनिर्वयोधाः ।
शम्भूश्च मयोभूश्चोर्जस्वांश्च पयस्वांश्चास्तृतस्त्वाभि रक्षतु ॥ १९.४६.६ ॥
从酥油中取出,甘美而滋养,具千息与百源,赐予活力,带来吉祥与喜乐,充满力量且富含乳汁:愿不散者守护你。
19.46.7
यथा त्वमुत्तरोऽसो असपत्नः सपत्नहा ।
सजातानामसद्वशी तथा त्वा सविता करदस्तृतस्त्वाभि रक्षतु ॥ १९.४६.७ ॥
愿你高居其上、无敌、能杀敌,愿萨维特里使你在同族之中成为统御者。愿不散者守护你。