阿闼婆吠陀 · 颂诗(Sūkta) 19.58
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
19.58.1
घृतस्य जूतिः समना सदेवा संवत्सरं हविषा वर्धयन्ती ।
श्रोत्रं चक्षुः प्राणोऽछिन्नो नो अस्त्वछिन्ना वयमायुषो वर्चसः ॥ १९.५८.१ ॥
酥油之流,与诸神同心,借祭品增长一年:愿我们的听觉、视觉与气息完整无缺;愿我们在寿命与光辉中保持完整。
19.58.2
उपास्मान् प्राणो ह्वयतामुप प्राणं हवामहे ।
वर्चो जग्राह पृथिव्यन्तरिक्षं वर्चः सोमो बृहस्पतिर्विधत्ता ॥ १९.५८.२ ॥
愿气息召唤我们;我们召唤气息。大地与虚空已握住光辉;愿苏摩与梵主赐予光辉。
19.58.3
वर्चसो द्यावापृथिवी संग्रहणी बभूवथुर्वर्चो गृहीत्वा पृथिवीमनु सं चरेम ।
यशसं गावो गोपतिमुप तिष्ठन्त्यायतीर्यशो गृहीत्वा पृथिवीमनु सं चरेम ॥ १९.५८.३ ॥
天与地成为聚集光辉者;我们得到光辉,便行于大地之上。走近荣耀的牛主的牛群,立于其侧;我们得到荣耀,便行于大地之上。
19.58.4
व्रजं कृणुध्वं स हि वो नृपाणो वर्मा सीव्यध्वं बहुला पृथूनि ।
पुरः कृणुध्वमायसीरधृष्टा मा वः सुस्रोच्चमसो दृंहत तम् ॥ १९.५८.४ ॥
筑成栏圈——他是你们的人主护卫。缝制许多宽阔的铠甲。造出铁制的不可攻破的城堡;愿你们的杯不漏——使它坚固。
19.58.5
यज्ञस्य चक्षुः प्रभृतिर्मुखं च वाचा श्रोत्रेण मनसा जुहोमि ।
इमं यज्ञं विततं विश्वकर्मणा देवा यन्तु सुमनस्यमानाः ॥ १९.५८.५ ॥
祭祀之眼、献礼与口——我以言语、听觉与心意献上供物。愿诸神心怀欢喜,来到这由毗湿伐羯磨所铺陈的祭祀之中。
19.58.6
ये देवानामृत्विजो ये च यज्ञिया येभ्यो हव्यं क्रियते भागधेयम् ।
इमं यज्ञं सह पत्नीभिरेत्य यावन्तो देवास्तविषा मादयन्ताम् ॥ १९.५८.६ ॥
那些是诸神祭司的、那些配享祭祀的、以祭品为其份额而奉献的:愿他们偕同各自的妻子来到此祭,愿所有的神,凭其威力而欢喜。