アタルヴァ・ヴェーダ · スークタ 2.1
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.1.1
वेनस्तत्पश्यत्परमं गुहा यद्यत्र विश्वं भवत्येकरूपम् ।
इदं पृश्निरदुहज्जायमानाः स्वर्विदो अभ्यनूषत व्राः ॥ २.१.१ ॥
ヴェナは、この全世界が一つの形となる至高の秘密の場所を見た。斑の大地は生まれ出る時にそれを搾り、天を知る者たちはそれを讃えた。
2.1.2
प्र तद्वोचेदमृतस्य विद्वान् गन्धर्वो धाम परमं गुहा यत् ।
त्रीणि पदानि निहिता गुहास्य यस्तानि वेद स पितुष्पितासत् ॥ २.१.२ ॥
不死の此の真理を知るガンダルヴァは、秘所にある至高の住処を宣言せよ。その三つの歩みは秘所に置かれている。それを知る者は父の父となれ。
2.1.3
स नः पिता जनिता स उत बन्धुर्धामानि वेद भुवनानि विश्वा ।
यो देवानां नामध एक एव तं संप्रश्नं भुवना यन्ति सर्वा ॥ २.१.३ ॥
彼こそ我らの父、生みの親、親族である。すべての世界と住処を知る者。神々の名の下にただ一つであるお方。彼についての問いへと、すべての世界は赴く。
2.1.4
परि द्यावापृथिवी सद्य आयमुपातिष्ठे प्रथमजामृतस्य ।
वाचमिव वक्तरि भुवनेष्ठा धास्युरेष नन्वेषो अग्निः ॥ २.१.४ ॥
私はすぐさま天と地を巡る。理(ṛta)の長子のそばに仕える。語り手にとっての言葉のように、諸世界に(それを)据える者がここにいる、まさにこのアグニである。
2.1.5
परि विश्वा भुवनान्यायमृतस्य तन्तुं विततं दृशे कम् ।
यत्र देवा अमृतमानशानाः समाने योनावध्यैरयन्त ॥ २.१.५ ॥
私はあらゆる世界を巡った。理(ṛta)の張り広げられた糸を喜んで見るために。そこでは神々が不死を得て、同じ胎の中で動かされた。