Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 2.3

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.3.1

अदो यदवधावत्यवत्कमधि पर्वतात् ।
तत्ते कृणोमि भेषजं सुभेषजं यथाससि ॥ २.३.१ ॥

那从山上向下流去的(水)——为你,我把它制成良药,上好的良药,使你安好。

2.3.2

आदङ्गा कुविदङ्ग शतं या भेषजानि ते ।
तेषामसि त्वमुत्तममनास्रावमरोगणम् ॥ २.३.२ ॥

啊,亲爱的,你的百种良药之中,你确是最好的——无漏出,无疾病。

2.3.3

नीचैः खनन्त्यसुरा अरुस्राणमिदं महत् ।
तदास्रावस्य भेषजं तदु रोगमनीनशत् ॥ २.३.३ ॥

阿修罗向下挖掘这大出血。它是漏出的良药;确实消灭了病患。

2.3.4

उपजीका उद्भरन्ति समुद्रादधि भेषजम् ।
तदास्रावस्य भेषजं तदु रोगमशीशमत् ॥ २.३.४ ॥

蚂蚁从海中将良药带上来。它是漏出的良药;确实平息了病患。

2.3.5

अरुस्राणमिदं महत्पृथिव्या अध्युद्भृतम् ।
तदास्रावस्य भेषजं तदु रोगमनीनशत् ॥ २.३.५ ॥

这大出血已从大地带上来。它是漏出的良药;确实消灭了病患。

2.3.6

शं नो भवन्त्वप ओषधयः शिवाः ।
इन्द्रस्य वज्रो अप हन्तु रक्षस आराद्विसृष्टा इषवः पतन्तु रक्षसाम् ॥ २.३.६ ॥

愿水与吉祥的草药对我们平安。愿因陀罗的金刚从远处击退罗刹;愿从远方射出的箭落在罗刹身上。