Vedyatra वेदयात्रा
検索

アタルヴァ・ヴェーダ · スークタ 2.35

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

2.35.1

ये भक्षयन्तो न वसून्यानृधुर्यान् अग्नयो अन्वतप्यन्त धिष्ण्याः ।
या तेषामवया दुरिष्टिः स्विष्टिं नस्तां कृणवद्विश्वकर्मा ॥ २.३५.१ ॥

富を食べながら栄えず、設置された火(ディシュニヤ)に苦しめられた者たちのための贖罪、それをヴィシュヴァカルマンが我らの悪しき祭祀を善き祭祀にしてくださるように。

2.35.2

यज्ञपतिमृषयः एनसाहुर्निर्भक्तं प्रजा अनुतप्यमानम् ।
मथव्यान्त्स्तोकान् अप यान् रराध सं नष्टेभिः सृजतु विश्वकर्मा ॥ २.३५.२ ॥

聖者たちは祭主が過失によって分け前を奪われたと言い、民は後悔に苦しむ。彼が退けた、かき乱された幼子たちを、ヴィシュヴァカルマンが失われた者たちと再び結び合わせますように。

2.35.3

अदान्यान्त्सोमपान् मन्यमानो यज्ञस्य विद्वान्त्समये न धीरः ।
यदेनश्चकृवान् बद्ध एष तं विश्वकर्मन् प्र मुञ्चा स्वस्तये ॥ २.३५.३ ॥

祭祀の好機に学識と堅固さを備えながら、施しをしない者をソーマを飲む者と見なす者──彼が犯した罪によって縛られた彼を、ヴィシュヴァカルマンよ、幸福のために解き放ちたまえ。

2.35.4

घोरा ऋषयो नमो अस्त्वेभ्यश्चक्षुर्यदेषां मनसश्च सत्यम् ।
बृहस्पतये महिष द्युमन्न् नमो विश्वकर्मन् नमस्ते पाह्यस्मान् ॥ २.३५.४ ॥

恐るべき聖者たちに礼拝あれ。その眼と心には真実がある。ブリハスパティに礼拝あれ。偉大にして輝ける者よ、ヴィシュヴァカルマンよ、汝に礼拝あれ——我らを守りたまえ。

2.35.5

यज्ञस्य चक्षुः प्रभृतिर्मुखं च वाचा श्रोत्रेण मनसा जुहोमि ।
इमं यज्ञं विततं विश्वकर्मणा देवा यन्तु सुमनस्यमानाः ॥ २.३५.५ ॥

祭祀の眼、初供物、口によって、また言葉、耳、心によって私は供える。ヴィシュヴァカルマンによって広げられたこの祭祀に、神々が好意をもって来られますように。