Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 2.36

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.36.1

आ नो अग्ने सुमतिं संभलो गमेदिमां कुमारीं सह नो भगेन ।
जुष्टा वरेषु समनेषु वल्गुरोषं पत्या सौभगमस्तु अस्यै ॥ २.३६.१ ॥

啊,阿耆尼,愿此少女以善意来到我们这里,与薄伽同在我们身边。她在求婚者与集会中受人喜爱、姿容秀美,心无怒气;愿她与夫君同享福分。

2.36.2

सोमजुष्टं ब्रह्मजुष्टमर्यम्णा संभृतं भगम् ।
धातुर्देवस्य सत्येन कृणोमि पतिवेदनम् ॥ २.३६.२ ॥

为苏摩所爱、为梵力所爱、由阿利耶曼所聚的薄伽,我借造化神达多的真实,使其成为觅得夫君之道。

2.36.3

इयमग्ने नारी पतिं विदेष्ट सोमो हि राजा सुभगां कृणोति ।
सुवाना पुत्रान् महिषी भवाति गत्वा पतिं सुभगा वि राजतु ॥ २.३६.३ ॥

啊,阿耆尼,愿此女子得遇夫君,因为国王苏摩使她享有福分。愿她生育诸子,成为正室;到夫君身边后,愿她以福分光彩照人。

2.36.4

यथाखरो मघवंश्चारुरेष प्रियो मृगाणां सुषदा बभूव ।
एवा भगस्य जुष्टेयमस्तु नारी संप्रिया पत्याविराधयन्ती ॥ २.३६.४ ॥

啊,慷慨的因陀罗,正如这匹优美可爱的骏马在鹿群中变得易于接近,愿此女子为薄伽所爱;愿她深受夫君珍爱,不冒犯他。

2.36.5

भगस्य नावमा रोह पूर्णामनुपदस्वतीम् ।
तयोपप्रतारय यो वरः प्रतिकाम्यः ॥ २.३६.५ ॥

登上薄伽的船,它满载而不沉没于足下。借此船渡过去吧,那位被对方所渴望的求婚者。

2.36.6

आ क्रन्दय धनपते वरमामनसं कृणु ।
सर्वं प्रदक्षिणं कृणु यो वरः प्रतिकाम्यः ॥ २.३६.६ ॥

啊,财富之主,召唤那求婚者,使他心怀渴慕。使那位被对方渴望的求婚者全然顺从于我。

2.36.7

इदं हिरण्यं गुल्गुल्वयमौक्षो अथो भगः ।
एते पतिभ्यस्त्वामदुः प्रतिकामाय वेत्तवे ॥ २.३६.७ ॥

这金子、古古尔树脂、牛所赐的礼物,以及婆伽(福运)——这些丈夫们已经给了你,以求得心中所愿的夫婿。

2.36.8

आ ते नयतु सविता नयतु पतिर्यः प्रतिकाम्यः ।
त्वमस्यै धेह्योषधे ॥ २.३६.८ ॥

愿萨维特里将那位心中所愿的丈夫带到你这里。哦,草药啊,你为她安置他吧。