阿闼婆吠陀 · 颂诗(Sūkta) 2.6
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.6.1
समास्त्वाग्न ऋतवो वर्धयन्तु संवत्सरा ऋषयो यानि सत्या ।
सं दिव्येन दीदिहि रोचनेन विश्वा आ भाहि प्रदिशश्चतस्रः ॥ २.६.१ ॥
阿耆尼啊,愿季节、岁月与真实的仙人使你增长。以神圣的光辉闪耀,照亮四方。
2.6.2
सं चेध्यस्वाग्ने प्र च वर्धयेममुच्च तिष्ठ महते सौभगाय ।
मा ते रिषन्न् उपसत्तारो अग्ने ब्रह्माणस्ते यशसः सन्तु मान्ये ॥ २.६.२ ॥
阿耆尼啊,请旺盛燃烧,使此人增长;为了大福运而挺立。愿你身边的侍者不致毁灭;阿耆尼啊,愿你的婆罗门荣耀受敬。
2.6.3
त्वामग्ने वृणते ब्राह्मणा इमे शिवो अग्ने संवरणे भवा नः ।
सपत्नहाग्ने अभिमातिजिद्भव स्वे गये जागृह्यप्रयुच्छन् ॥ २.६.३ ॥
阿耆尼啊,这些婆罗门选择了你。阿耆尼啊,在守护中对我们吉祥吧。阿耆尼啊,成为敌人的摧毁者与仇敌的征服者;在你自己的居所中永远警醒。
2.6.4
क्षत्रेणाग्ने स्वेन सं रभस्व मित्रेणाग्ने मित्रधा यतस्व ।
सजातानां मध्यमेष्ठा राज्ञामग्ने विहव्यो दीदिहीह ॥ २.६.४ ॥
阿耆尼啊,与你自身的刹帝利之力相合;阿耆尼啊,努力与朋友结成友谊。立于同族之中与诸王之间,阿耆尼啊,值得受献,就在此处光耀吧。
2.6.5
अति निहो अति सृधोऽत्यचित्तीरति द्विषः ।
विश्वा ह्यग्ने दुरिता तर त्वमथास्मभ्यं सहवीरं रयिं दाः ॥ २.६.५ ॥
越过隐秘的恶意,越过敌对的攻击,越过无思的行为,越过仇恨。阿耆尼啊,唯你能引我们度过一切厄难;然后赐予我们财富,连同英勇的子嗣。