Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 2.7

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.7.1

अघद्विष्टा देवजाता वीरुच्छपथयोपनी ।
आपो मलमिव प्राणैक्षीत्सर्वान् मच्छपथामधि ॥ २.७.१ ॥

憎恶邪恶、生于诸神的草药 vīrudh,能斩断诅咒:如水洗去污垢,愿它从我身上洗去一切诅咒。

2.7.2

यश्च सापत्नः शपथो जाम्याः शपथश्च यः ।
ब्रह्मा यन् मन्युतः शपात्सर्वं तन् नो अधस्पदम् ॥ २.७.२ ॥

情敌之咒、亲属女子之咒,以及婆罗门愤怒中所下之咒——愿这一切都落到我们脚下。

2.7.3

दिवो मूलमवततं पृथिव्या अध्युत्ततम् ।
तेन सहस्रकाण्डेन परि णः पाहि विश्वतः ॥ २.७.३ ॥

天之根,向下伸展;地上之物,向上伸展——愿你以那千茎之草从四面八方守护我们。

2.7.4

परि मां परि मे प्रजां परि णः पाहि यद्धनम् ।
अरातिर्नो मा तारीन् मा नस्तारिशुरभिमातयः ॥ २.७.४ ॥

从四面保护我,从四面保护我的子嗣,从四面保护我们的财富。愿敌人不能胜过我们,愿敌意也不能胜过我们。

2.7.5

शप्तारमेतु शपथो यः सुहार्त्तेन नः सह ।
चक्षुर्मन्त्रस्य दुर्हार्दः पृष्टीरपि शृणीमसि ॥ २.७.५ ॥

与我们朋友同来的诅咒,愿它回到诅咒者那里。对心怀恶意者的眼睛咒语,我们连他的脊背也要折断。