Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 20.11

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

20.11.1

इन्द्रः पूर्भिदातिरद्दासमर्कैर्विदद्वसुर्दयमानो वि शत्रून् ।
ब्रह्मजूतस्तन्वा वावृधानो भूरिदात्र आपृणद्रोदसी उभे ॥ २०.११.१ ॥

因陀罗是摧毁城堡者。他越过达萨,借赞歌获得财富,施予恩惠,驱散了敌人。受梵语推动,在自身中增长强大,为伟大的施主充满了两个世界。

20.11.2

मखस्य ते तविषस्य प्र जूतिमियर्मि वाचममृताय भूषन् ।
इन्द्र क्षितीनामसि मानुषीणां विशां दैवीनामुत पूर्वयावा ॥ २०.११.२ ॥

因陀罗啊,我发出你令人振奋的强大力量之冲动,为了不死而装饰言语。你是居住的人民之主,无论人类还是神圣的民族,你也是走在他们前面的人。

20.11.3

इन्द्रो वृत्रमवृणोच्छर्धनीतिः प्र मायिनाममिनाद्वर्पणीतिः ।
अहन् व्यंसमुशधग्वनेष्वाविर्धेना अकृणोद्राम्याणाम् ॥ २०.११.३ ॥

因陀罗以力量为向导,阻挡了弗栗多;以他引导的形态,毁灭了欺诈者。他在林中杀死了宽肩的毗yaṃsa和公牛乌沙达克;他把隐藏在黑暗中的牛群带到了光明之中。

20.11.4

इन्द्रः स्वर्षा जनयन्न् अहानि जिगायोशिग्भिः पृतना अभिष्टिः ।
प्रारोचयन् मनवे केतुमह्नामविन्दज्ज्योतिर्बृहते रणाय ॥ २०.११.४ ॥

赢得天光的因陀罗创造诸日,与渴望的随从一同征服了军队;为人类使日之旗帜闪耀。为了伟大的战斗,他找到了光明。

20.11.5

इन्द्रस्तुजो बर्हणा आ विवेश नृवद्दधानो नर्या पुरूणि ।
अचेतयद्धिय इमा जरित्रे प्रेमं वर्णमतिरच्छुक्रमासाम् ॥ २०.११.५ ॥

因陀罗进入了强大的功业,像人一样承担了许多英勇的事迹。他为歌者唤醒了这些思想,并超过了这些水域的明亮光辉。

20.11.6

महो महानि पनयन्त्यस्येन्द्रस्य कर्म सुकृता पुरूणि ।
वृजनेन वृजिनान्त्सं पिपेष मायाभिर्दस्यूंरभिभूत्योजाः ॥ २०.११.६ ॥

伟大的因陀罗的伟大而善成的众多功业得到赞颂。他以力量彻底碾碎了恶人;以幻术他征服了达萨尤,他的威力压倒一切。

20.11.7

युधेन्द्रो मह्ना वरिवश्चकार देवेभ्यः सत्पतिश्चर्षणिप्राः ।
विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयो गृणन्ति ॥ २०.११.७ ॥

在战斗中,因陀罗以其伟大为诸神creat了财富;他是善者之主,滋养众人。在毗婆斯瓦特的座位上,灵感之圣者与诗人以赞歌宣颂他的这些功业。

20.11.8

सत्रासाहं वरेण्यं सहोदां ससवांसं स्वरपश्च देवीः ।
ससान यः पृथिवीं द्यामुतेमामिन्द्रं मदन्त्यनु धीरणासः ॥ २०.११.८ ॥

征服敌人者,卓越者,赐予力量者,赢得天界与神圣之水者,也赢得此地与天空者——追随因陀罗,坚定的人们欢欣。

20.11.9

ससानात्यामुत सूर्यं ससानेन्द्रः ससान पुरुभोजसं गाम् ।
हिरण्ययमुत भोगं ससान हत्वी दस्यून् प्रार्यं वर्णमावत् ॥ २०.११.९ ॥

他赢得了迅捷的骏马,也赢得了太阳;因陀罗赢得了富于享用的母牛;也赢得了金色的享受;杀死达萨尤之后,他护卫了雅利安种姓。

20.11.10

इन्द्र ओषधीरसनोदहानि वनस्पतींरसनोदन्तरिक्षम् ।
बिभेद बलं नुनुदे विवाचोऽथाभवद्दमिताभिक्रतूनाम् ॥ २०.११.१० ॥

因陀罗赐予草药与日子;赐予树木与虚空;他劈开了波罗,驱逐了喧嚣者;于是他成为压制敌对计谋的人。

20.11.11

शुनं हुवेम मघवानमिन्द्रमस्मिन् भरे नृतमं वाजसातौ ।
शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥ २०.११.११ ॥

在此争战之中、争夺战利品的竞赛里,我们为求吉祥呼唤因陀罗:他是施主,最为勇猛,是倾听者、威猛者,在战斗中为护佑而击杀阻碍者,是财富的征服者。