阿闼婆吠陀 · 颂诗(Sūkta) 20.128
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
20.128.1
यः सभेयो विदथ्यः सुत्वा यज्वाथ पूरुषः ।
सूर्यं चामू रिशादसस्तद्देवाः प्रागकल्पयन् ॥ २०.१२८.१ ॥
那适于会众、适于祭会、榨取苏摩而行祭祀的人;那边的太阳与那些摧毁敌人者,诸神早已创造了他们。
20.128.2
यो जाम्या अप्रथयस्तद्यत्सखायं दुधूर्षति ।
ज्येष्ठो यदप्रचेतास्तदाहुरधरागिति ॥ २०.१२८.२ ॥
那使亲族散离、攻击朋友的人;当长者无知时,人们称他为「卑下」。
20.128.3
यद्भद्रस्य पुरुषस्य पुत्रो भवति दाधृषिः ।
तद्विप्रो अब्रवीदु तद्गन्धर्वः काम्यं वचः ॥ २०.१२८.३ ॥
当善人之子变得大胆放肆时,智者说了这话;乾闼婆也说了那句悦耳之言。
20.128.4
यश्च पणि रघुजिष्ठ्यो यश्च देवामदाशुरिः ।
धीराणां शश्वतामहं तदपागिति शुश्रुम ॥ २०.१२८.४ ॥
吝啬的盘尼、疾行的罗古吉什底耶,以及嘲弄诸神的阿达舒利——我从智者与古老者那里听到:「让他远离。」
20.128.5
ये च देवा अयजन्ताथो ये च पराददिः ।
सूर्यो दिवमिव गत्वाय मघवा नो वि रप्शते ॥ २०.१२८.५ ॥
那些祭祀的诸神,以及施予的人——如太阳升上天空,富有者为我们放光。
20.128.6
योऽनाक्ताक्षो अनभ्यक्तो अमणिवो अहिरण्यवः ।
अब्रह्मा ब्रह्मणः पुत्रस्तोता कल्पेषु संमिता ॥ २०.१२८.६ ॥
眼无膏饰、身无涂油、无宝珠、无黄金;无梵智却是婆罗门之子——在仪式中合宜的赞颂者。
20.128.7
य आक्ताक्षः सुभ्यक्तः सुमणिः सुहिरण्यवः ।
सुब्रह्मा ब्रह्मणः पुत्रस्तोता कल्पेषु संमिता ॥ २०.१२८.७ ॥
眼上涂了眼膏、润泽得当、饰有宝珠与黄金、为善于梵咒的婆罗门之子、为赞颂者,他被任命于祭仪(kalpa)之中。
20.128.8
प्रपाणा च वेशन्ता रेवामप्रतिदिश्ययः ।
अयभ्या कन्या कल्याणी तोता कल्पेषु संमिता ॥ २०.१२८.८ ॥
Prapāṇā 与 Veśantā,富足的 Revā,方位无可比拟者,少女 Ayabhyā,吉祥者——她是赞颂者,被任命于祭仪之中。
20.128.9
सुप्रपाणा च वेशन्ता रेवान्त्सुप्रतिदिश्ययः ।
सुयभ्या कन्या कल्याणी तोता कल्पेषु संमिता ॥ २०.१२८.९ ॥
Suprapāṇā 与 Veśantā,富足的 Supratidiśyā,善束的少女 Suayabhyā,吉祥者——她是赞颂者,被任命于祭仪之中。
20.128.10
परिवृक्ता च महिषी स्वस्त्या च युधिं गमः ।
अनाशुरश्चायामी तोता कल्पेषु संमिता ॥ २०.१२८.१० ॥
Parivṛktā 与正妃,偕吉祥(svasti)赴战者;Anāśura 与 Ayāmī——他们是赞颂者,被任命于祭仪之中。
20.128.11
वावाता च महिषी स्वस्त्या च युधिं गमः ।
श्वाशुरश्चायामी तोता कल्पेषु संमिता ॥ २०.१२८.११ ॥
Vāvātā 与正妃,偕吉祥(svasti)赴战者;Śvāśura 与 Ayāmī——他们是赞颂者,被任命于祭仪之中。
20.128.12
यदिन्द्रादो दाशराज्ञे मानुषं वि गाहथाः ।
विरूपः सर्वस्मा आसीत्सह यक्षाय कल्पते ॥ २०.१२८.१२ ॥
当你作为因陀罗的赠礼,投身于 Dāśarājña 之战,在人群之中,他为众人化作种种形相,便适合于祭祀。
20.128.13
त्वं वृषाक्षुं मघवन्न् अम्रं मर्याकरो रविः ।
त्वं रौहिणं व्यास्यो वि वृत्रस्याभिनच्छिरः ॥ २०.१२८.१३ ॥
慷慨的因陀罗啊,你压制了Vṛṣākṣu、Amra、Maryākara和Ravi。你推倒了Rauhiṇa,劈开了Vṛtra的头颅。
20.128.14
यः पर्वतान् व्यदधाद्यो अपो व्यगाहथाः ।
इन्द्रो यो वृत्रहान्महं तस्मादिन्द्र नमोऽस्तु ते ॥ २०.१२८.१४ ॥
那安置群山、潜入水中将其释放的因陀罗——Vṛtra的杀者。故此,因陀罗啊,愿向你致敬!
20.128.15
पृष्ठं धावन्तं हर्योरौच्चैः श्रवसमब्रुवन् ।
स्वस्त्यश्व जैत्रायेन्द्रमा वह सुस्रजम् ॥ २०.१२८.१५ ॥
在奔跑的两匹栗色马背上,他们对乌刹希罗斯说:'骏马啊,愿你吉祥!为了胜利,请把佩戴美丽花环的因陀罗带来。'
20.128.16
ये त्वा श्वेता अजैश्रवसो हार्यो युञ्जन्ति दक्षिणम् ।
पूर्वा नमस्य देवानां बिभ्रदिन्द्र महीयते ॥ २०.१२८.१६ ॥
那些把你套在白色的Ajaiḥśravas栗色马右侧的人——因陀罗啊,诸神之首、值得礼敬的神——承载你,便获得荣耀。