Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 20.70

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

20.70.1

वीलु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः ।
अविन्द उस्रिया अनु ॥ २०.७०.१ ॥

因陀罗啊,你以坚定而破碎的力量,也找到了藏在洞穴中的东西;你与承载的摩噜多一起,之后又找到了乌斯里雅(光明之牛)。

20.70.2

देवयन्तो यथा मतिमछा विदद्वसुं गिरः ।
महामनूषत श्रुतम् ॥ २०.७०.२ ॥

如同渴望诸神的人将心思转向寻得财富者,颂歌也将极大地尊崇那位著名者。

20.70.3

इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा ।
मन्दू समानवर्चसा ॥ २०.७०.३ ॥

你们确实与因陀罗一同显现;与无畏者相聚,啊,光辉相等的欢悦摩噜多们。

20.70.4

अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति ।
गणैरिन्द्रस्य काम्यैः ॥ २०.७०.४ ॥

以无瑕疵、光辉的队伍,祭祀有力地歌颂,与因陀罗可爱的部众同在。

20.70.5

अतः परिज्मन्न् आ गहि दिवो वा रोचनादधि ।
समस्मिन्न् ऋञ्जते गिरः ॥ २०.७०.५ ॥

从这里来吧,啊,遍行于广阔天空者;或从天上,或从光明之界而来;在此,颂歌被妥善地装饰。

20.70.6

इतो वा सातिमीमहे दिवो वा पार्थिवादधि ।
इन्द्रं महो वा रजसः ॥ २०.७०.६ ॥

无论从这里、从天上,还是从大地之上,我们求取财富;求因陀罗——从大界或从虚空中而来。

20.70.7

इन्द्रमिद्गथिनो बृहदिन्द्रमर्केभिरर्किणः ।
इन्द्रं वाणीरनूषत ॥ २०.७०.७ ॥

歌者以大颂赞因陀罗;诵者以诗歌赞美因陀罗;言辞赞颂了因陀罗。

20.70.8

इन्द्र इद्धर्योः सचा संमिश्ल आ वचोयुजा ।
इन्द्रो वज्री हिरण्ययः ॥ २०.७०.८ ॥

因陀罗自己与两匹栗色马相伴而来,以言语相系;因陀罗持金刚,金色。

20.70.9

इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि ।
वि गोभिरिन्द्रमैरयत् ॥ २०.७०.९ ॥

因陀罗为长远之视,在天上升起太阳;以光线使因陀罗动起来。

20.70.10

इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च ।
उग्र उग्राभिरूतिभिः ॥ २०.७०.१० ॥

因陀罗啊,在争斗中、在千宝之战中庇护我们;以猛烈之助,显示你的威猛。

20.70.11

इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे ।
युजं वृत्रेषु वज्रिणम् ॥ २०.७०.११ ॥

在大财富之争中我们呼唤因陀罗,在小争斗中我们呼唤因陀罗;那持金刚、在对抗阻碍者之战中为伴的因陀罗。

20.70.12

स नो वृषन्न् अमुं चरुं सत्रादावन्न् अपा वृधि ।
अस्मभ्यमप्रतिष्कुतः ॥ २०.७०.१२ ॥

愿他,为我们,啊公牛,立即享用那供食,开启并增益之;为我们,那不受阻碍者。

20.70.13

तुञ्जेतुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः ।
न विन्धे अस्य सुष्टुतिम् ॥ २०.७०.१३ ॥

每逢吉时,赞颂持金刚杵的因陀罗的上好颂歌,我找不到他的善颂。

20.70.14

वृषा यूथेव वंसगः कृष्टीरियर्त्योजसा ।
ईशानो अप्रतिष्कुतः ॥ २०.७०.१४ ॥

如公牛奔向牛群,他以其力量驱动众民;他是无人能抗的主宰。

20.70.15

य एकश्चर्षणीनां वसूनामिरज्यति ।
इन्द्रः पञ्च क्षितीनाम् ॥ २०.७०.१५ ॥

唯一统治众民与财富者,因陀罗统治五方之地。

20.70.16

इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः ।
अस्माकमस्तु केवलः ॥ २०.७०.१६ ॥

为了你们,我们从四面八方召唤因陀罗;愿他独属于我们。

20.70.17

एन्द्र सानसिं रयिं सजित्वानं सदासहम् ।
वर्षिष्ठमूतये भर ॥ २०.७०.१७ ॥

啊因陀罗,为了我们的庇护,把最丰盛、能赐予、常共胜、永远得胜的财富带来吧。

20.70.18

नि येन मुष्टिहत्यया नि वृत्रा रुणधामहै ।
त्वोतासो न्यर्वता ॥ २०.७०.१८ ॥

凭借拳击,我们制伏遮挡者;在你的助佑下,我们连同马将他们击倒。

20.70.19

इन्द्र त्वोतासो आ वयं वज्रं घना ददीमहि ।
जयेम सं युधि स्पृधः ॥ २०.७०.१९ ॥

因陀罗啊,得你助佑的我们,执持金刚杵与棍棒;愿我们在战斗中战胜敌人。

20.70.20

वयं शूरेभिरस्तृभिरिन्द्र त्वया युजा वयम् ।
सासह्याम पृतन्यतः ॥ २०.७०.२० ॥

因陀罗啊,我们与英雄和无伤的勇士同行,以你为伴,愿我们战胜那些好战的敌人。