Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 20.72

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

20.72.1

विश्वेषु हि त्वा सवनेषु तुञ्जते समानमेकं वृषमण्यवः पृथक्स्वः सनिष्यवः पृथक् ।
तं त्वा नावं न पर्षणिं शूषस्य धुरि धीमहि ।
इन्द्रं न यज्ञैश्चतयन्त आयव स्तोमेभिरिन्द्रमायवः ॥ २०.७२.१ ॥

在每次压榨时,那些心如公牛、人人相同的人呼唤你,各自追求天界,各自追求利益。我们把你——那渡人之舟——置于修沙的轭下。人们以祭祀唤醒因陀罗;人们以赞歌(唤醒)因陀罗。

20.72.2

वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः ।
यद्गव्यन्ता द्वा जना स्वर्यन्ता समूहसि ।
आविष्करिक्रद्वृषणं सचाभुवं वज्रमिन्द्र सचाभुवम् ॥ २०.७२.२ ॥

因陀罗啊,寻求帮助的成对之人伸展你;他们为胜利而努力释放圈中的牛群。当你聚集那两个渴望牛群、渴望天界的人。公牛啊,你显现了伴随的金刚杵,因陀罗啊,伴随的金刚杵。

20.72.3

उतो नो अस्या उषसो जुषेत ह्यर्कस्य बोधि हविषो हवीमभिः स्वर्षाता हवीमभिः ।
यदिन्द्र हन्तवे मृघो वृषा वज्रिं चिकेतसि ।
आ मे अस्य वेधसो नवीयसो मन्म श्रुधि नवीयसः ॥ २०.७२.३ ॥

愿这黎明也接纳我们;以呼唤唤醒赞歌的祭品,赢得天界者啊,以呼唤。因陀罗啊,当你知道击打敌人时,公牛,持金刚者。请向我倾听这新造者的新思想,新的。