阿闼婆吠陀 · 颂诗(Sūkta) 20.74
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
20.74.1
यच्चिद्धि सत्य सोमपा अनाशस्ता इव स्मसि ।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ २०.७४.१ ॥
真实者啊,饮苏摩者,我们仿佛未被赞颂;因陀罗啊,使我们在牛、马、光辉之物与千数之中受到赞颂,多赐予者啊!
20.74.2
शिप्रिन् वाजानां पते शचीवस्तव दंसना ।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ २०.७४.२ ॥
戴盔者啊,诸力之主,有力者啊,你的功业奇妙;因陀罗啊,使我们在牛、马、光辉之物与千数之中受到赞颂,多赐予者啊!
20.74.3
नि ष्वापया मिथूदृशा सस्तामबुध्यमाने ।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ २०.७४.३ ॥
令成对眼睛者好好入睡,使他们不觉醒而沉睡;因陀罗啊,使我们在牛、马、光辉之物与千数之中受到赞颂,多赐予者啊!
20.74.4
ससन्तु त्या अरातयो बोधन्तु शूर रातयः ।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ २०.७४.४ ॥
愿那些敌人入睡,愿我们的施主醒来,英雄啊;因陀罗啊,使我们在牛、马、光辉之物与千数之中受到赞颂,多赐予者啊!
20.74.5
समिन्द्र गर्दभं मृण नुवन्तं पपयामुया ।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ २०.७४.५ ॥
因陀罗啊,用那件兵器将那吼叫的驴(罗刹)彻底碾碎;因陀罗啊,使我们在牛、马、光辉之物与千数之中受到赞颂,多赐予者啊!
20.74.6
पताति कुण्डृणाच्या दूरं वातो वनादधि ।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ २०.७४.६ ॥
风与库德瑞纳其(一种鸟或灵)一同从林中远远飞去;因陀罗啊,使我们在牛、马、光辉之物与千数之中受到赞颂,多赐予者啊!
20.74.7
सर्वं परिक्रोशं जहि जम्भया कृकदाश्वम् ।
आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥ २०.७४.७ ॥
击倒一切喧嚷者,碾碎克里卡达什瓦。因陀罗啊,使我们在牛、马、光辉的财富与千数之中,真正得到称赞,你这丰饶的施主。