阿闼婆吠陀 · 颂诗(Sūkta) 20.91
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
20.91.1
इमां धियं सप्तशीर्ष्णीं पिता न ऋतप्रजातां बृहतीमविन्दत् ।
तुरीयं स्विज्जनयद्विश्वजन्योऽयास्य उक्थमिन्द्राय शंसन् ॥ २०.९१.१ ॥
我们的父亲获得了这由ṛta所生的广大七首之思。众生共有的阿耶斯亚在为因陀罗诵唱赞歌时,确实生出了第四者。
20.91.2
ऋतं शंसन्त ऋजु दीध्याना दिवस्पुत्रासो असुरस्य वीराः ।
विप्रं पदमङ्गिरसो दधाना यज्ञस्य धाम प्रथमं मनन्त ॥ २०.९१.२ ॥
直行诵唱ṛta,光辉灿烂的天之子,阿修罗之主的英雄阿遍罗娑,承担着灵感先知的位置,沉思祭祀的第一处居所。
20.91.3
हंसैरिव सखिभिर्वावदद्भिरश्मन्मयानि नहना व्यस्यन् ।
बृहस्पतिरभिकनिक्रदद्गा उत प्रास्तौदुच्च विद्वामगायत् ॥ २०.९१.३ ॥
如同与伙伴鸣叫的天鹅,他们抛开了石头的枷锁。布里哈斯帕蒂朝向牛群咆哮,以智慧赞颂并歌唱。
20.91.4
अवो द्वाभ्यां पर एकया गा गुहा तिष्ठन्तीरनृतस्य सेतौ ।
बृहस्पतिस्तमसि ज्योतिरिच्छन् उदुस्रा आकर्वि हि तिस्र आवः ॥ २०.९१.४ ॥
在二者之下,远离一者,于虚妄之堤中,站在洞穴里的牛群被他解放。布里哈斯帕蒂在黑暗中寻求光明,使黎明显现,并确实驱出了三者。
20.91.5
विभिद्या पुरं शयथेमपाचीं निस्त्रीणि साकमुदधेरकृन्तत् ।
बृहस्पतिरुषसं सूर्यं गामर्कं विवेद स्तनयन्न् इव द्यौः ॥ २०.९१.५ ॥
他劈开沉睡倒置的城堡,从海洋中一同斩出三者。布里哈斯帕蒂获得了黎明、太阳、牛和光明之歌,如同天空雷鸣。
20.91.6
इन्द्रो वलं रक्षितारं दुघानां करेणेव वि चकर्ता रवेण ।
स्वेदाञ्जिभिराशिरमिच्छमानोऽरोदयत्पणिमा गा अमुष्णात् ॥ २०.९१.६ ॥
因陀罗满身汗水,渴望混合的饮料,以吼声如以手一般斩断了护牛者伐罗;他使吝啬的潘尼哭泣,夺回了牛群。
20.91.7
स ईं सत्येभिः सखिभिः शुचद्भिर्गोधायसं वि धनसैरदर्दः ।
ब्रह्मणस्पतिर्वृषभिर्वराहैर्घर्मस्वेदेभिर्द्रविणं व्यानट् ॥ २०.९१.७ ॥
他与真实而光辉的伙伴一起劈开了护牛者戈陀耶萨;梵之主与公牛、野猪一道,在热汗中获得了财富。
20.91.8
ते सत्येन मनसा गोपतिं गा इयानास इषणयन्त धीभिः ।
बृहस्पतिर्मिथोअवद्यपेभिरुदुस्रिया असृजत स्वयुग्भिः ॥ २०.९१.८ ॥
他们以真实的心意走向牛主的牛群,被意念所驱使;Bṛhaspati 与相互责备者一起,以各自的轭放出了牛群。
20.91.9
तं वर्धयन्तो मतिभिः शिवाभिः सिंहमिव नानदतं सधस्थे ।
बृहस्पतिं वृषणं शूरसातौ भरेभरे अनु मदेम जिष्णुम् ॥ २०.९१.९ ॥
以吉祥的颂歌赞美他,我们将欢喜于梵之主——他在共同的座位上如狮子般吼叫,是英雄获胜中强有力的胜者,在每一场争斗中。
20.91.10
यदा वाजमसनद्विश्वरूपमा द्यामरुक्षदुत्तराणि सद्म ।
बृहस्पतिं वृषणं वर्धयन्तो नाना सन्तो बिभ्रतो ज्योतिरासा ॥ २०.९१.१० ॥
当他获得万形之力,升上天空至更高的座位时,我们以不同的身份,面上带着光明,赞美并尊崇强大的梵之主。
20.91.11
सत्यमाशिषं कृणुता वयोधै कीरिं चिद्ध्यवथ स्वेभिरेवैः ।
पश्चा मृधो अप भवन्तु विश्वास्तद्रोदसी शृणुतं विश्वमिन्वे ॥ २०.९१.११ ॥
赐予长寿的真实祝福;以你们自己的助力护佑歌者。愿从后方来的一切敌人都被驱散。啊,罗陀西,请听,啊,驱动万物者。
20.91.12
इन्द्रो मह्ना महतो अर्णवस्य वि मूर्धानमभिनदर्बुदस्य ।
अहन्न् अहिमरिणात्सप्त सिन्धून् देवैर्द्यावापृथिवी प्रावतं नः ॥ २०.९१.१२ ॥
因陀罗以其伟力劈开大海之阿尔布达的头颅。他杀死蛇怪阿希,释放了七条河流。啊,天地,请与诸神一同护佑我们。