阿闼婆吠陀 · 颂诗(Sūkta) 3.10
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.10.1
प्रथमा ह व्युवास सा धेनुरभवद्यमे ।
सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् ॥ ३.१०.१ ॥
最初的黎明升起;她在阎摩处成为乳牛。愿这富含乳汁的她年年为我们挤奶。
3.10.2
यां देवाः प्रतिनन्दन्ति रात्रिं धेनुमुपायतीम् ।
संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली ॥ ३.१०.२ ॥
那接近而来的夜之牛,诸神欢喜迎接,她是岁月的妻子——愿她对我们吉祥。
3.10.3
संवत्सरस्य प्रतिमां यां त्वा रात्र्युपास्महे ।
सा न आयुष्मतीं प्रजां रायस्पोषेण सं सृज ॥ ३.१०.३ ॥
啊夜晚,你是岁月的化身,我们崇敬你;愿她赐予我们长寿的子嗣,并带来财富的滋养。
3.10.4
इयमेव सा या प्रथमा व्यौच्छदास्वितरासु चरति प्रविष्टा ।
महान्तो अस्यां महिमानो अन्तर्वधूर्जिगाय नवगज्जनित्री ॥ ३.१०.४ ॥
她正是最初破晓者;进入众者之中而行走。伟大的荣耀在她之内;新娘获胜,如同新生之母。
3.10.5
वानस्पत्या ग्रावाणो घोषमक्रत हविष्कृण्वन्तः परिवत्सरीणम् ।
एकाष्टके सुप्रजसः सुवीरा वयं स्याम पतयो रयीणाम् ॥ ३.१०.५ ॥
木制的压石发出声响,准备年度的供物。在一日八节,愿我们拥有良好的子嗣与英雄,成为财富的主人。
3.10.6
इडायास्पदं घृतवत्सरीसृपं जातवेदः प्रति हव्या गृभाय ।
ये ग्राम्याः पशवो विश्वरूपास्तेषां सप्तानां मयि रन्तिरस्तु ॥ ३.१०.६ ॥
在伊达之处,啊迦陀吠陀,接受那富含酥油、流动的供物。在那些形态各异的村中家畜之中,愿那七者中有喜乐在我身上。
3.10.7
आ मा पुष्टे च पोषे च रात्रि देवानां सुमतौ स्याम ।
पूर्णा दर्वे परा पत सुपूर्णा पुनरा पत ।
सर्वान् यज्ञान्त्संभुञ्जतीषमूर्जं न आ भर ॥ ३.१०.७ ॥
夜啊,使我得享兴盛与滋养;愿我们处于诸神的恩惠之中。满满的勺啊,满满地向前倾注;再满满地回来。共同享用一切祭祀,为我们带来食物与力量。
3.10.8
आयमगन्त्संवत्सरः पतिरेकाष्टके तव ।
सा न आयुष्मतीं प्रजां रायस्पोषेण सं सृज ॥ ३.१०.८ ॥
这一年已作为你的夫君到来,一月八日啊。愿它赐予我们长寿的子嗣,并以财富的滋养使我们相连。
3.10.9
ऋतून् यज ऋतुपतीन् आर्तवान् उत हायनान् ।
समाः संवत्सरान् मासान् भूतस्य पतये यजे ॥ ३.१०.९ ॥
我敬祭四季、四季之主、时令之神,以及岁月;岁月、年、月也一并敬祭。我为万物之主而献祭。
3.10.10
ऋतुभ्यष्ट्वार्तवेभ्यो माद्भ्यः संवत्सरेभ्यः ।
धात्रे विधात्रे समृधे भूतस्य पतये यजे ॥ ३.१०.१० ॥
为你,为四季、时令之神、月与年;为生主、分配者与兴盛者,为万物之主,我献祭。
3.10.11
इडया जुह्वतो वयं देवान् घृतवता यजे ।
गृहान् अलुभ्यतो वयं सं विशेमोप गोमतः ॥ ३.१०.११ ॥
以伊达献祭,我们以酥油敬拜诸神。愿我们进入未受损害的家宅,富有牲畜。
3.10.12
एकाष्टका तपसा तप्यमाना जजान गर्भं महिमानमिन्द्रम् ।
तेन देवा व्यसहन्त शत्रून् हन्ता दस्यूनामभवच्छचीपतिः ॥ ३.१०.१२ ॥
一月八日以苦行加热,在胎中孕育了伟大的因陀罗。借他,诸神战胜了敌人;他成为斩杀恶魔的主,舍姬之夫。
3.10.13
इन्द्रपुत्रे सोमपुत्रे दुहितासि प्रजापतेः ।
कामान् अस्माकं पूरय प्रति गृह्णाहि नो हविः ॥ ३.१०.१३ ॥
啊,因陀罗之子的女儿,苏摩之子的女儿,你是生主的女儿。请满足我们的愿望,接受我们的供物。