阿闼婆吠陀 · 颂诗(Sūkta) 3.16
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.16.1
प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रावरुणा प्रातरश्विना ।
प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्रं हवामहे ॥ ३.१६.१ ॥
黎明时我们呼唤阿耆尼,黎明时呼唤因陀罗;黎明时呼唤弥陀罗与伐楼那,黎明时呼唤双马童。黎明时我们呼唤婆伽、普利商、梵主;黎明时呼唤苏摩与楼陀罗。
3.16.2
प्रातर्जितं भगमुग्रं हवामहे वयं पुत्रमदितेर्यो विधर्ता ।
आध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यं भगं भक्षीत्याह ॥ ३.१६.२ ॥
黎明时我们呼唤胜利的、威猛的婆伽,阿底提之子、承载者——弱者、疾行者,甚至国王都想着说:“愿我享用婆伽。”
3.16.3
भग प्रणेतर्भग सत्यराधो भगेमां धियमुदवा ददन् नः ।
भग प्र णो जनय गोभिरश्वैर्भग प्र नृभिर्नृवन्तः स्याम ॥ ३.१६.३ ॥
啊婆伽,引导者,真实施财的婆伽!请提升我们这祷告,赐予我们。啊婆伽,使我们因牛与马而生育繁盛;啊婆伽,愿我们因人众而富足。
3.16.4
उतेदानीं भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम् ।
उतोदितौ मघवन्त्सूर्यस्य वयं देवानां सुमतौ स्याम ॥ ३.१६.४ ॥
此刻我们也愿获得福运;日落时,日中时;啊慷慨者摩伽凡,在太阳升起时,愿我们处于诸神的恩宠之中。
3.16.5
भग एव भगवाँ अस्तु देवस्तेना वयं भगवन्तः स्याम ।
तं त्वा भग सर्व इज्जोहवीमि स नो भग पुरएता भवेह ॥ ३.१६.५ ॥
愿婆伽本身就成为有福的神;借着他,愿我们获得福运。啊婆伽,我们众人都呼唤你;愿那婆伽在此作我们的前导。
3.16.6
समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय ।
अर्वाचीनं वसुविदं भगं मे रथमिवाश्वा वाजिन आ वहन्तु ॥ ३.१६.६ ॥
为了顺畅的祭祀,愿晨曦俯身,如达提克拉瓦奔向明亮的目标。愿迅捷的骏马将寻得财富的薄伽(Bhaga)带到我这里,如同驾车一般。
3.16.7
अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुच्छन्तु भद्राः ।
घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥ ३.१६.७ ॥
愿富有马匹、牛群与英勇子嗣的吉祥晨曦永远为我们升起。挤出酥油,从四面被饮用的你们,愿以吉祥永远护佑我们。