阿闼婆吠陀 · 颂诗(Sūkta) 3.19
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.19.1
संशितं म इदं ब्रह्म संशितं वीर्यं बलम् ।
संशितं क्षत्रमजरमस्तु जिष्णुर्येषामस्मि पुरोहितः ॥ ३.१९.१ ॥
愿我的梵言锋利,愿我的英勇之力与力量锋利。愿王权不朽而得胜,为我所作祭司的那些人。
3.19.2
समहमेषां राष्ट्रं स्यामि समोजो वीर्यं बलम् ।
वृश्चामि शत्रूणां बाहून् अनेन हविषा अहम् ॥ ३.१९.२ ॥
我使他们的国家完全兴旺,也使他们的活力、英勇之力与力量兴旺。以此祭品,我斩断敌人的臂膀。
3.19.3
नीचैः पद्यन्तामधरे भवन्तु ये नः सूरिं मघवानं पृतन्यान् ।
क्षिणामि ब्रह्मणामित्रान् उन् नयामि स्वान् अहम् ॥ ३.१९.३ ॥
愿那些想与我们的智者主君和慷慨的庇护者作战的人,跌落低处,沉于下方。我以梵言摧毁敌人,把自己人高举。
3.19.4
तीक्ष्णीयांसः परशोरग्नेस्तीक्ष्णतरा उत ।
इन्द्रस्य वज्रात्तीक्ष्णीयांसो येषामस्मि पुरोहितः ॥ ३.१९.४ ॥
比斧更锐利,比火更锐利,也比因陀罗的金刚杵更锐利——愿我所作祭司的那些人的兵器更加锐利。
3.19.5
एषामहमायुधा सं स्याम्येषां राष्ट्रं सुवीरं वर्धयामि ।
एषां क्षत्रमजरमस्तु जिष्ण्वेषां चित्तं विश्वेऽवन्तु देवाः ॥ ३.१९.५ ॥
我使他们的兵器完全坚固,使他们富有英雄的国家兴盛。愿他们的王权不朽而得胜;愿诸神守护他们的心意。
3.19.6
उद्धर्षन्तां मघवन् वाजिनान्युद्वीराणां जयतामेतु घोषः ।
पृथग्घोषा उलुलयः केतुमन्त उदीरताम् ।
देवा इन्द्रज्येष्ठा मरुतो यन्तु सेनया ॥ ३.१९.६ ॥
啊,慷慨的因陀罗!愿战士振奋,愿胜者的呼声升起。愿各自的呐喊、呼啸之声与旗帜下的吼声响起。愿以因陀罗为首的诸神与风神摩录多随军前进。
3.19.7
प्रेता जयता नर उग्रा वः सन्तु बाहवः ।
तीक्ष्णेषवोऽबलधन्वनो हतोग्रायुधा अबलान् उग्रबाहवः ॥ ३.१९.७ ॥
勇士们,前进并获胜吧;愿你们的臂膀猛烈。你们持利箭、强弓,执猛烈武器、臂膀猛烈,去击杀那些弱者。
3.19.8
अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते ।
जय अमित्रान् प्र पद्यस्व जह्येषां वरंवरं मामीषां मोचि कश्चन ॥ ३.१९.८ ॥
被射出吧,飞向远方,啊,被神圣咒语磨砺的箭!战胜敌人,扑向他们,将他们一一击倒;让他们无一人逃脱。