阿闼婆吠陀 · 颂诗(Sūkta) 3.22
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.22.1
हस्तिवर्चसं प्रथतां बृहद्यशो अदित्या यत्तन्वः संबभूव ।
तत्सर्वे समदुर्मह्यमेतद्विश्वे देवा अदितिः सजोषाः ॥ ३.२२.१ ॥
愿象的光辉散布,愿大名声散布,它生自阿迪提之身。愿众人都把它给我;愿一切天神与阿迪提同心欢喜。
3.22.2
मित्रश्च वरुणश्चेन्द्रो रुद्रश्च चेततु ।
देवासो विश्वधायसस्ते माञ्जन्तु वर्चसा ॥ ३.२२.२ ॥
愿弥陀罗与伐楼那、因陀罗与楼陀罗也留意;愿那些养育一切的天神以光辉为我涂油灌顶。
3.22.3
येन हस्ती वर्चसा संबभूव येन राजा मनुष्येस्वप्स्वन्तः ।
येन देवा देवतामग्र आयन् तेन मामद्य वर्चसाग्ने वर्चस्विनं कृणु ॥ ३.२२.३ ॥
以那使象生成的光辉,以那使王者在人中、在水中(显现)的光辉,以那使诸神先得神性的光辉——以此光辉,阿耆尼啊,今日使我光辉焕发。
3.22.4
यत्ते वर्चो जातवेदो बृहद्भवत्याहुतेः ।
यावत्सूर्यस्य वर्च आसुरस्य च हस्तिनः ।
तावन् मे अश्विना वर्च आ धत्तां पुष्करस्रजा ॥ ३.२२.४ ॥
哦,阁陀吠陀,你的光辉因献祭而变得伟大;太阳的光辉有多少,阿修罗与象的光辉有多少,那么多的光辉,哦,戴莲花花环的双阿输二神,请安放在我身上。
3.22.5
यावच्चतस्रः प्रदिशश्चक्षुर्यावत्समश्नुते ।
तावत्समैत्विन्द्रियं मयि तद्धस्तिवर्चसम् ॥ ३.२२.५ ॥
四方与眼所及之处,直至那里,愿感官之力聚集于我身中——那象的光辉。
3.22.6
हस्ती मृगाणां सुषदामतिष्ठावान् बभूव हि ।
तस्य भगेन वर्चसाभि षिञ्चामि मामहम् ॥ ३.२२.६ ॥
在那些安居的野兽之中,象确实成为了最强者。我以他的福运与光辉为自己涂油灌顶。