阿闼婆吠陀 · 颂诗(Sūkta) 3.7
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.7.1
हरिणस्य रघुष्यदोऽधि शीर्षणि भेषजम् ।
स क्षेत्रियं विषाणया विषूचीनमनीनशत् ॥ ३.७.१ ॥
在迅速流出的鹿的头上有药。它用角把遗传之病向四方驱散并消灭了它。
3.7.2
अनु त्वा हरिणो वृषा पद्भिश्चतुर्भिरक्रमीत् ।
विषाणे वि ष्य गुष्पितं यदस्य क्षेत्रियं हृदि ॥ ३.७.२ ॥
强壮的鹿以四足追随你。角啊,分开看看,把此人心中的遗传之病驱逐出来。
3.7.3
अदो यदवरोचते चतुष्पक्षमिव छदिः ।
तेना ते सर्वं क्षेत्रियमङ्गेभ्यो नाशयामसि ॥ ३.७.३ ॥
那在下方闪耀的,如同四翼之盖,我们借此将你肢体中一切遗传之病消除。
3.7.4
अमू ये दिवि सुभगे विचृतौ नाम तारके ।
वि क्षेत्रियस्य मुञ्चतामधमं पाशमुत्तमम् ॥ ३.७.४ ॥
天上那两颗名为毗尺多的吉祥星,愿它们解开遗传之病的下套与上套。
3.7.5
आप इद्वा उ भेषजीरापो अमीवचातनीः ।
आपो विश्वस्य भेषजीस्तास्त्वा मुञ्चन्तु क्षेत्रियात् ॥ ३.७.५ ॥
水实在是药;水能驱除疾病。那作为万物之药的水,愿它们把你从遗传之病中解脱。
3.7.6
यदासुतेः क्रियमानायाः क्षेत्रियं त्वा व्यानशे ।
वेदाहं तस्य भेषजं क्षेत्रियं नाशयामि त्वत् ॥ ३.७.६ ॥
当压榨苏摩时,遗传之病侵袭了你,我知道它的药;我把遗传之病从你身上消除。
3.7.7
अपवासे नक्षत्राणामपवास उषसामुत ।
अपास्मत्सर्वं दुर्भूतमप क्षेत्रियमुच्छतु ॥ ३.७.७ ॥
星辰隐没之时,曙光隐没之时,愿一切恶生之物离我们而去;愿遗传之病也离去。