Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 3.8

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.8.1

आ यातु मित्र ऋतुभिः कल्पमानः संवेशयन् पृथिवीमुस्रियाभिः ।
अथास्मभ्यं वरुणो वायुरग्निर्बृहद्राष्ट्रं संवेश्यं दधातु ॥ ३.८.१ ॥

愿弥多罗随四时而来,以产乳之牛安定大地。然后愿伐楼那、风神与火神为我们确立广大的王国,使之稳固。

3.8.2

धाता रातिः सवितेदं जुषन्तामिन्द्रस्त्वष्टा प्रति हर्यन्तु मे वचः ।
हुवे देवीमदितिं शूरपुत्रां सजातानां मध्यमेष्ठा यथासानि ॥ ३.८.२ ॥

愿授予者持多罗、施予者萨维塔、因陀罗与特瓦什塔接纳并喜悦我的言辞。我呼唤拥有英雄之子的女神阿底提,愿我站立于亲族之中。

3.8.3

हुवे सोमं सवितारं नमोभिर्विश्वान् आदित्यामहमुत्तरत्वे ।
अयमग्निर्दीदायद्दीर्घमेव सजातैरिद्धोऽप्रतिब्रुवद्भिः ॥ ३.८.३ ॥

我以敬礼呼唤苏摩与萨维塔,以及处于至高境界的所有阿底提耶。愿这火神由亲族点燃、由不反对者激发,长久照耀。

3.8.4

इहेदसाथ न परो गमाथेर्यो गोपाः पुष्टपतिर्व आजत् ।
अस्मै कामायोप कामिनीर्विश्वे वो देवा उपसंयन्तु ॥ ३.८.४ ॥

请留在此处,不要远去。为了这位来到你们面前的牛群守护者与繁荣之主,诸位众神啊,愿渴望你们的牛群因这一愿望而靠近。

3.8.5

सं वो मनांसि सं व्रता समाकूतीर्नमामसि ।
अमी ये विव्रता स्थन तान् वः सं नमयामसि ॥ ३.८.५ ॥

我们一同使你们的心意柔顺,一同使你们的誓愿与决意柔顺。你们中那些持守相反誓愿的人,也与你们一同使之柔顺。

3.8.6

अहं गृभ्णामि मनसा मनांसि मम चित्तमनु चित्तेभिरेत ।
मम वशेषु हृदयानि वः कृणोमि मम यातमनुवर्त्मान एत ॥ ३.८.६ ॥

我以心意攫取你们的心意;顺从我的思虑,与你们的思虑一同前来。我使你们的心归于我的掌控;跟随我而来吧。