阿闼婆吠陀 · 颂诗(Sūkta) 3.9
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.9.1
कर्शफस्य विशफस्य द्यौः पिता पृथिवी माता ।
यथाभिचक्र देवास्तथाप कृणुता पुनः ॥ ३.९.१ ॥
天是卡尔沙帕与毗沙帕的父亲,地是他们的母亲。诸神如何(对付他们)行事,你们也如此再次行事。
3.9.2
अश्रेष्माणो अधारयन् तथा तन् मनुना कृतम् ।
कृणोमि वध्रि विष्कन्धं मुष्काबर्हो गवामिव ॥ ३.९.२ ॥
无畏者们握住了它;按照摩奴所定而行。我造成阉割者、脊柱弯曲者,如同割去牛的睾丸一般。
3.9.3
पिशङ्गे सूत्रे खृगलं तदा बध्नन्ति वेधसः ।
श्रवस्युं शुष्मं काबवं वध्रिं कृण्वन्तु बन्धुरः ॥ ३.९.३ ॥
创造者们便用黄褐色的线系住门闩;愿弯曲者使那有名而强壮的迦跋与阉割者成形。
3.9.4
येना श्रवस्यवश्चरथ देवा इवासुरमायया ।
शुनां कपिरिव दूषणो बन्धुरा काबवस्य च ॥ ३.९.४ ॥
你们诸神借此因追求名声而以阿修罗的幻术四处游走,如同污染狗与猴子之人,以及弯曲者与迦跋。
3.9.5
दुष्ट्यै हि त्वा भत्स्यामि दूषयिष्यामि काबवम् ।
उदाशवो रथा इव शपथेभिः सरिष्यथ ॥ ३.९.५ ॥
我正是为了玷污而斥责你,并将玷污迦跋。如同乌达舍的战车,你们将借诅咒向前奔驰。
3.9.6
एकशतं विष्कन्धानि विष्ठिता पृथिवीमनु ।
तेषां त्वामग्रे उज्जहरुर्मणिं विष्कन्धदूषणम् ॥ ३.९.६ ॥
大地上散布着一百种毗斯康陀(脊柱弯曲之病);其中,阿耆尼啊,他们以你为前导,取出了能玷污毗斯康陀的宝珠。