阿闼婆吠陀 · 颂诗(Sūkta) 4.18
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.18.1
समं ज्योतिः सूर्येणाह्ना रात्री समावती ।
कृणोमि सत्यमूतयेऽरसाः सन्तु कृत्वरीः ॥ ४.१८.१ ॥
与太阳相比,白昼之光相等,夜晚也相等。为了守护,我使之成真:愿那些咒术失去汁液。
4.18.2
यो देवाः कृत्यां कृत्वा हरादविदुषो गृहम् ।
वत्सो धारुरिव मातरं तं प्रत्यगुप पद्यताम् ॥ ४.१८.२ ॥
诸神啊,凡对无知者之家施行咒术者,愿它返回其身,如小牛随乳汁之流奔向母亲。
4.18.3
अमा कृत्वा पाप्मानं यस्तेनान्यं जिघांसति ।
अश्मानस्तस्यां दग्धायां बहुलाः फट्करिक्रति ॥ ४.१८.३ ॥
若有人在家中作恶,借此欲杀他人:待其被焚之时,愿石头多次发出“啪”的爆裂声。
4.18.4
सहस्रधामन् विशिखान् विग्रीवां छायया त्वम् ।
प्रति स्म चक्रुषे कृत्यां प्रियां प्रियावते हर ॥ ४.१८.४ ॥
千光之神啊,尖锐者与折颈者,你以影子将那咒术送还给施咒之人;将所爱者带给所爱之人。
4.18.5
अनयाहमोषध्या सर्वाः कृत्या अदूदुषम् ।
यां क्षेत्रे चक्रुर्यां गोषु यां वा ते पुरुषेषु ॥ ४.१८.५ ॥
我以此草驱散了他们在田野、牲畜或人群中所施的一切咒术。
4.18.6
यश्चकार न शशाक कर्तुं शश्रे पादमङ्गुरिम् ।
चकार भद्रमस्मभ्यमात्मने तपनं तु सः ॥ ४.१८.६ ॥
施咒者未能成功,其脚或趾受伤;他为我们行了善,而为自己留下的只有灼热。
4.18.7
अपामार्गोऽप मार्ष्टु क्षेत्रियं शपथश्च यः ।
अपाह यातुधानीरप सर्वा अराय्यः ॥ ४.१८.७ ॥
愿阿般摩尔伽拭去遗传之病与一切咒诅,驱逐一切邪术女魔与恶毒之力。
4.18.8
अपमृज्य यातुधानान् अप सर्वा अराय्यः ।
अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥ ४.१८.८ ॥
拭去邪术之魔,驱散一切恶毒之力。阿般摩尔伽啊,借你之力,我们拭去这一切。