アタルヴァ・ヴェーダ · スークタ 4.19
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.19.1
उतो अस्यबन्धुकृदुतो असि नु जामिकृत् ।
उतो कृत्याकृतः प्रजां नदमिवा छिन्धि वार्षिकम् ॥ ४.१९.१ ॥
おまえは彼の親族を親族なきものとし、まことに彼を親族なきものとする。そしてクリティヤーを行う者の子孫を、葦のように、雨に生じたもののように断ち切れ。
4.19.2
ब्राह्मणेन पर्युक्तासि कण्वेन नार्षदेन ।
सेनेवैषि त्विषीमती न तत्र भयमस्ति यत्र प्राप्नोष्योषधे ॥ ४.१९.२ ॥
ブラーフマナによっておまえは結ばれ、カṇヴァとナールシャダによって。軍勢のように輝きながらおまえは行く;薬草よ、おまえが至るところに恐れはない。
4.19.3
अग्रमेष्योषधीनां ज्योतिषेवाभिदीपयन् ।
उत त्रातासि पाकस्याथो हन्तासि रक्षसः ॥ ४.१९.३ ॥
薬草の中で先頭に立っておまえは行く、光のように照らしながら。おまえは単純な者の守護者であり、羅刹を殺す者でもある。
4.19.4
यददो देवा असुरांस्त्वयाग्रे निरकुर्वत ।
ततस्त्वमध्योषधेऽपामार्गो अजायथाः ॥ ४.१९.४ ॥
神々がまずおまえによってアスラを追い払った時、薬草よ、おまえはアパーマールガとして生まれた。
4.19.5
विभिन्दती शतशाखा विभिन्दन् नाम ते पिता ।
प्रत्यग्वि भिन्धि त्वं तं यो अस्मामभिदासति ॥ ४.१९.५ ॥
割るもの、百の枝を持つ者よ、割ることがおまえの父の名である。後ろを向いて、われらを害する者を割り裂け。
4.19.6
असद्भूम्याः समभवत्तद्यामेति महद्व्यचः ।
तद्वै ततो विधूपायत्प्रत्यक्कर्तारमृच्छतु ॥ ४.१९.६ ॥
大地から「非存在」が生じた;それは「ヤーマー」と呼ばれる大いなる広がりである。それがそこから煙となって、後ろを向き、行う者に届きますように。
4.19.7
प्रत्यङ्हि संबभूविथ प्रतीचीनफलस्त्वम् ।
सर्वान् मच्छपथामधि वरीयो यावया वधम् ॥ ४.१९.७ ॥
お前は後ろ向きになり、お前の実も後ろ向きだ。私に向けて誓われたすべての誓いと打撃を、遠くへ追い払え。
4.19.8
शतेन मा परि पाहि सहस्रेणाभि रक्षा मा ।
इन्द्रस्ते वीरुधां पत उग्र ओज्मानमा दधत् ॥ ४.१९.८ ॥
百をもって私の周囲を守り、千をもって私を四方から護れ。草木の主、猛き因陀羅が、お前の力を私のうちに置きますように。