阿闼婆吠陀 · 颂诗(Sūkta) 4.21
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.21.1
आ गावो अग्मन्न् उत भद्रमक्रन्त्सीदन्तु गोष्ठे रणयन्त्वस्मे ।
प्रजावतीः पुरुरूपा इह स्युरिन्द्राय पूर्वीरुषसो दुहानाः ॥ ४.२१.१ ॥
愿母牛前来,为我们造福;愿它们在我们的牛栏中安坐,使我们欢喜。愿它们在此多产而形态多样,为因陀罗在众多晨曦中挤出乳汁。
4.21.2
इन्द्रो यज्वने गृणते च शिक्षत उपेद्ददाति न स्वं मुषायति ।
भूयोभूयो रयिमिदस्य वर्धयन्न् अभिन्ने खिल्ये नि दधाति देवयुम् ॥ ४.२१.२ ॥
因陀罗赐予祭祀者与赞颂者;他前来施舍,不偷取自己的财物。他一再增加此人的财富,把奉事诸神者安置于完整而空旷的田地之中。
4.21.3
न ता नशन्ति न दभाति तस्करो नासामामित्रो व्यथिरा दधर्षति ।
देवांश्च याभिर्यजते ददाति च ज्योगित्ताभिः सचते गोपतिः सह ॥ ४.२१.३ ॥
它们不会消亡,盗贼也不伤害它们;敌人或加害者不来侵扰。凭借这些,他向诸神祭祀和奉献,牛群之主便长久与之相连。
4.21.4
न ता अर्वा रेणुककाटोऽश्नुते न संस्कृतत्रमुप यन्ति ता अभि ।
उरुगायमभयं तस्य ता अनु गावो मर्तस्य वि चरन्ति यज्वनः ॥ ४.२१.४ ॥
马和“割尘者”都够不着它们,祭器也不靠近它们。在那无畏、备受赞颂的祭祀者身后,牛群自在漫游。
4.21.5
गावो भगो गाव इन्द्रो म इच्छाद्गावः सोमस्य प्रथमस्य भक्षः ।
इमा या गावः स जनास इन्द्र इच्छामि हृदा मनसा चिदिन्द्रम् ॥ ४.२१.५ ॥
牛群是我的福分,牛群啊;愿因陀罗为我而愿得牛群。牛群是苏摩的第一份。这些牛,便是因陀罗,诸位;我以心与意确实渴望因陀罗。
4.21.6
यूयं गावो मेदयथ कृशं चिदश्रीरं चित्कृणुथा सुप्रतीकम् ।
भद्रं गृहं कृणुथ भद्रवाचो बृहद्वो वय उच्यते सभासु ॥ ४.२१.६ ॥
哦,牛啊,你们使瘦者肥壮,使丑陋者变得美好。你们使家宅吉祥,你们言语吉祥;你们的伟大力量在集会中被宣扬。
4.21.7
प्रजावतीः सूयवसे रुशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः ।
मा व स्तेन ईशत माघशंसः परि वो रुद्रस्य हेतिर्वृणक्तु ॥ ४.२१.७ ॥
你们有子孙,在良好的牧场上光亮,在好的饮水处饮用清水:愿盗贼不能支配你们,愿心怀恶谋的人也不能;愿楼陀罗的武器从四面将你们远远护开。